मुनेर्वचनमिति । अक्लीबं महार्थम् ॥ १।२६।१ ॥
स्त्रीवधस्यापि त्रिभिर्हेतुभिः कर्तव्यतां प्रतिपादयति पितुर्वचनेति । पितुर्वचननिर्देशादित्यनेन अविचारेण कर्तव्यता गम्यते । पितुर्वचनगौरवात् बहुमानात् । सत्पथप्रवर्तकत्वेनेति शेषः । भगवतः कौशिकस्य वचनमिति हेतोश्च एतन्मया कर्तव्यमिति । कुत इत्यत्राह अनुशिष्टो ऽस्मि इति । कौशिकस्य वचनं कर्तव्यमिति ॥ १।२६।२६ ॥
तेनेति । मोहिता व्याकुलिता ॥ १।२६।७ ॥
तमिति । अभिनिध्याय विचिन्त्य ॥ १।२६।८९ ॥
पश्येति । भैरवं भयङ्करम् । दारुणं घोरम् । अस्य वपुषः अभीरूणां चेति सम्बन्धः ॥ १।२६।१० ॥
एनामिति । विनिवृत्ताम् विशेषेण निवृत्ताम्, पलायितामिति यावत् ॥ १।२६।११ ॥
न हीति । वीर्यं पराभिभवनशक्तिम्, गतिम् आकारादिगतिम् ॥ १।२६।१२१३ ॥
रामलक्ष्मणयोरतिमानुषीं शक्तिं जानन्नपि ताटकायाः क्रौर्यातिशयं दृष्ट्वा अतिशङ्कया महर्षिर्मङ्गलमाशास्ते विश्वामित्रस्त्विति । अस्त्वित्यत्र इतिशब्दो दृष्टव्यः ॥ १।२६।१४ ॥
उद्धून्वानेति । रजोमोहेन रजो ऽन्धकारेण ॥ १।२६।१५ ॥
तत इति । मायास्त्रं मायानिर्मितास्त्रम् । मायाविद्यामिति यावत् ॥ १।२६।१६ ॥
शिलावर्षमिति । करौ चिच्छेद पत्रिभिरिति बहुवचनप्रयोगः । लीलया एकैकस्य बहुधा खण्डनाभिप्रायेण ॥ १।२६।१७१८ ॥
कामरूपेति । अनेकरूपाणि कृत्वा अन्तर्धानं गता सती भैरवं विचचार हेति सम्बन्धः ॥ १।२६।१९ ॥
कीर्यमाणौ अस्यमानौ ॥ १।२६।२०२१ ॥
वध्यतामिति । पुरा वर्धेत यावद्वर्धेत तावत्पुरैव वध्यताम् । पुरा सन्ध्या प्रवर्तते प्रवर्तयिष्यते ॥ १।२६।२२२५ ॥
तामिति । भीमसङ्काशां भयङ्करामित्यर्थः ॥ १।२६।२६२७ ॥
मुने इति । तोषिताः वयमिति शेषः । स्नेहम् अनुग्रहम् ॥ १।२६।२८ ॥
प्रजापतेरिति । निवेदय ज्ञापय ॥ १।२६।२९ ॥
पात्रेति । धृतः नियतः ॥ १।२६।३० ॥
एवमुक्त्वेति । प्रवर्तते प्राप्ता ॥ १।२६।३१३४ ॥
मुक्तशापमिति । मुक्तशापं मुक्तोपप्लवम् ॥ १।२६।३५ ॥
निहत्येति । प्रभातवेलां प्रतिबोध्यमानः मुनिनेति शेषः ॥ १।२६।३६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षड्विंशः सर्गः ॥ २६ ॥