०२५ ताटकावधप्रेरणा

अत तस्येति । अप्रमेयस्य अप्रमेयप्रभावस्य ॥ १।२५।१ ॥

अल्पेति । यदा यक्षास्सृष्टाः ते तदाप्रभृत्यल्पवीर्याः श्रूयन्ते, अबला यक्षी नागसहस्रस्य बलं कथं धारयति केन कारणेन धारयति । पाठान्तरे यदा यस्माद्यक्षी अल्पवीर्या श्रूयते तस्मादबला नागसहस्रबलं कथं धारयति केन कारणेन धारयति ॥ १।२५।२ ॥

विश्वामित्र इति । अत्र बलमात्रेप्युत्तरत्वेन वक्तव्ये वीर्यस्याभिधानं वीर्यशौर्यादयो ऽन्येपि गुणाः सन्तीति ज्ञापयितुम् ॥ १।२५।३ ॥

वरप्रदानमेव विवृणोति पूर्वमासीदित्यादिना ॥ १।२५।४६ ॥

तामिति । विवर्द्धन्तीं विवर्द्धमानाम्, भार्यां भार्यात्वेन ददावित्यर्थः ॥ १।२५।७ ॥

कस्यचित्त्विति । दुर्धर्षं दुरासदम् ॥ १।२५।८ ॥

सुन्द इति । निहते । अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् ॥ १।२५।९१० ॥

आपन्तीमिति । स्पष्टो ऽर्थः ॥ १।२५।१११२ ॥

पुरुषादीत्यादौ राक्षसत्वं भजस्वेति चैतौ शब्दावनुषज्येते । यतः पुरुषादनादिगुणयुक्ता अतो राक्षसत्वं भजस्वेति शप्तवान् । विहाय त्यक्त्वा ॥ १।२५।१३ ॥

सैषेति । अमर्षा असहमाना ॥ १।२५।१४१५ ॥

नेति । शापसंस्पृष्टां शापेन व्याप्ताम् ॥ १।२५।१६ ॥

न हीति । स्त्रीवधकृते स्त्रीवधकरणे । घृणा जुगुप्सा । न कार्या

प्रजारक्षणकारणादित्युत्तरेणान्वयः ॥ १।२५।१७ ॥

नृशंसमिति । कर्तव्यं कर्मेति शेषः । सदोषं सापवादम् ॥ १।२५।१८ ॥

राज्येति । सनातनः नित्यः ॥ १।२५।१९२१ ॥

एतैरिति । एतैरेतादृशैः ॥ १।२५।२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥