०२४ कामाश्रमदर्शनम्

ततः प्रभात इति । नद्याः भागीरथ्याः ॥ १।२४।१ ॥

तत इति । उपस्थाप्य आनाय्य ॥ १।२४।२ ॥

आरोहत्विति । अरिष्टं शुभं यथा भवति तथा गच्छेत्यर्थः ॥ १।२४।३ ॥

विश्वामित्र इति । ततार तर्तुमुपक्रान्त इत्यर्थः । सरितं गङ्गाम् ॥

१।२४।४५ ॥

अथेति । भिद्यमानस्य सम्भिद्यमानस्य परस्परं मिलितस्येत्यर्थः । वारिणो ऽयं ध्वनिः किं कुत्रत्यः ॥ १।२४।६ ॥

राघवस्येति । निश्चयं निश्चितं हेतुम् ॥ १।२४।७८ ॥

तस्मादिति । या सुस्राव सा ऽयोध्यामुपगूहते । आवृणुत इति सम्बन्धः । सरःप्रवृत्तेति सरयूशब्दनिरुक्तिः । तस्यायमिति सन्धिरार्षः । या जाह्नवीमभिवर्तते तथा सह सङ्गच्छते । तस्या अयं तुमुलः शब्दः ॥ १।२४।९१० ॥

ताभ्यामिति । ताभ्यां गङ्गासरयूभ्याम् ॥ १।२४।११ ॥

स वनमिति । अविप्रहतप्राणिसञ्चाराभावादविक्षुण्णम् ॥ १।२४।१२ ॥

अहो इति । झिल्लिकाः कीटविशेषाः, श्वापदैः शार्दूलादिक्रूरमृगैः । शकुन्तैः भासैः ।

दारुणारुतैर्दारुणारावैः । वश्यद्भिः कुत्सितं शब्दायमानैः ॥ १।२४।१३१६ ॥

एताविति । स्फीतौ समृद्धौ । मलदाश्च करूशाश्चेति बहुवचनम् । अहो दारा इतिवच्छब्दस्वभावकृतम् । देवनिर्माणनिर्मितौ देवयत्नेन निर्मितौ ॥ १।२४।१७१८ ॥

तमिन्द्रमिति । देवा ऋषयश्च तमिन्द्रं स्नापयन् गङ्गादिसर्वतीर्थेषु स्नानमकारयन् । अनन्तरं कलशैः स्नापयामासुः, मन्त्रपूतैः कलशोदकैः स्नापयामासुरित्यर्थः ॥ १।२४।१९ ॥

इहेति । मलं मालिन्यम्, करूशमेव कारूशं क्षुदित्यर्थः । मलधारिणावित्यत्र मलशब्देन कारूशमपि गृह्यते ॥ १।२४।२०२४ ॥

कस्यचित् कस्मिंश्चित्काले ॥ १।२४।२५२८ ॥

सेयमिति । आवृत्य निरुध्य । अत एवेति । यतः यस्मिन्मार्गे ताटकाया वनम् अतस्ताटकानिरासात् पूर्वं गन्तुमशक्यत्वान्न गन्तव्यमित्युक्तिः । अत एव च गन्तव्यमिति पाठे यतः यस्मिन् मार्गे ताटकाया वनम् अत एवानेनैव मार्गेण गन्तव्यमित्यर्थः ॥ १।२४।२९३० ॥

न हीति । उत्सादितं विजनीकृतम् । अद्यापि न निवर्तते देशोपप्लवात् । पूर्वस्थितजन इति शेषः ॥ १।२४।३१३२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ २४ ॥