प्रभातायामिति । पूर्वसर्गान्ते ऽतृणशयनेऽ इत्युक्त्वा इदानीं ऽपर्णसंस्तरेऽ इत्युक्तत्वाच्छयनस्योभयात्मकत्वं वेदितव्यम् ॥ १।२३।१ ॥
कौसल्या सुप्रजा रामेति । हे राम त्वां प्रसूतवती कौसल्या सुप्रजाः शोभनपुत्रा । अथवा स्वगतमेतत् । अस्य मातैव सुपुत्रेति । राम पूर्वासन्ध्येत्यारभ्य
प्रश्नवचनम् । दैवम्, देवताकृत्यम् ॥ १।२३।२ ॥
तस्येति । कृतोदकौ कृतार्ध्यप्रदानादिकौ । परमं जपं सावित्रीम् ॥ १।२३।३७ ॥
कस्येति । वसते वसति ॥ १।२३।८ ॥
कन्दर्पः कुत्सितदर्पः, पुरा मूर्तिमानासीत् । पूर्वं विग्रहविशिष्टो ऽभूदित्यर्थः ॥ १।२३।९१० ॥
तपस्यन्तमित्यादि । कृतोद्वाहं करिष्यमाणोद्वाहम्, नियमेन समाहितम्, तपस्यान्तम् तपश्चर्यायुक्तम् अत एव इह आश्रमे तपसः आत्मनः काङ्क्षितत्वात् गच्छन्तम् आगच्छन्तम् समरुद्गणम् स्थाणुम्, कामो धर्षयामासेति द्वयोरन्वयः । यद्वा कृतोद्वाहं गच्छन्तम् उद्वाहं कृत्वा गमिष्यन्तम् । वर्तमानसामीप्ये भविष्यति लट् । तावदिहाश्रमे, तपस्यन्तं तपः कुर्वाणं स्थाणुं धर्षयामासेति । हुङ्कृतः हुङ्कारेण निराकृतः ॥ १।२३।११ ॥
अवदग्धस्येति । व्यशीर्यन्त विशीर्णानि गात्राणि अवयवाः ॥ १।२३।१२१३ ॥
अनङ्ग इति । अङ्गविषयः अङ्गदेशः विखात इत्यनुषज्यते ॥ १।२३।१४ ॥
तस्येति । तस्य कामस्य ॥ १।२३।१५१७ ॥
तेषां संवदतां तेषु संवदत्सु सत्सु तपोदीर्घेण चक्षुषा विप्रकृष्टार्थग्राहिणा चक्षुषा ज्ञानेन ॥ १।२३।१८१९ ॥
सत्कारमिति । समनुप्राप्य प्रापय्य । अभिरञ्जयन् अभ्यपालयन् विश्वामित्ररामलक्ष्मणा इति शेषः ॥ १।२३।२० ॥
तत्रवासिभिरिति । आनीताः स्वाश्रमं प्रापिताः । कामाश्रमपद इति प्रकरणपर्यालोचनया स्थाण्वाश्रमपद इत्येवोचितं कामाश्रमपद इतीदं दृश्यते । तद्विचारणीयम् ॥ १।२३।२१२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालाकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥