०२२ रामलक्ष्मणनिष्क्रमणम्

तथा वसिष्ठ इति । सलक्ष्मणं राममाजुहाव । तयोरविनाभावज्ञानादिति भावः ॥ १।२२।१ ॥

कृतेत्यादि दशरथेन, स्वयमिति शेषः । कृतस्वस्त्ययनं कृतमङ्गलाचरणम् । मङ्गलैः मङ्गलसूक्तैः मन्त्रितम् ॥ १।२२।२३ ॥

तत इति । विश्वामित्रं गतम् अनुगतम् ॥ १।२२।४ ॥

पुष्पवृष्टिरिति । प्रयाति यातुमुपक्रान्ते, देवदुन्दुभिनिस्वनश्चावतारप्रयोजनोपक्रमत्वात् ॥ १।२२।५६ ॥

कलापिनावित्यादि । कलापिनौ तूणीरधरौ । शोभयानौ प्रकाशयन्तौ । विश्वस्य मित्रं विश्वामित्रः “मित्रे चर्षौ” इति विश्वशब्दस्य दीर्घः । प्रत्येकं तृणीरद्वयधारणात् त्रिशीर्षावित्युपमानम् । “पञ्चशीर्षाविवोरगौ” इति पाठे तूणीरद्वयं भुजद्वयं शिरोश्चेति प्रत्येकं पञ्चकस्य विद्यमानत्वात् पञ्चशीर्षावित्युक्तिः ॥ १।२२।७ ॥

तदेत्यादि । गोधा हस्तत्राणम् । पावकी स्कन्दविशाखौ ॥ १।२२।८९ ॥

अध्यर्धयोजनम् अर्धाधिकयोजनम्,षट्क्रोशमिति यावत् ॥ १।२२।१० ॥

गृहाणेति । कालस्य पर्ययः अतिक्रमः । मन्त्रग्रामं मन्त्रसमूहम् । बलातिबलाख्यां विद्यां गृहाणेति सम्बन्धः । विपर्ययः अन्यथाभावः ॥ १।२२।११ ॥

न श्रम इति । प्रमत्तं प्रमादयुक्तम्, कार्यान्तरव्यासङ्गादिना असावधानमिति यावत् ॥ १।२२।१२ ॥

नेति । ज्ञाने सूक्ष्मार्थदर्शने । बुद्धिनिश्चये बुद्ध्या कार्यनिश्चये ॥ १।२२।१३१४ ॥

एतदिति । सर्वज्ञानस्य मातरौ सर्वमन्त्रजन्यज्ञानस्य कारणभूतौ ॥ १।२२।१५ ॥

क्षुदिति ॥ १।२२।१६ ॥

विद्येति । विद्याद्वयमधीयाने । त्वयीति शेषः । भवेदित्यध्याहार्यम् । पितामहसुते विद्ये ॥ १।२२।१७ ॥

प्रदातुमिति । तव त्वमेव सदृशः ॥ १।२२।१८ ॥

काममिति । एते पूर्वोक्ताः सौभाग्यादयो गुणाः । तपसा नियमेन । सम्भृते बहुरूपे बहुफलप्रदे ॥ १।२२।१९२० ॥

विद्यासमुदित इत्यादि सार्द्धश्लोकमेकं वाक्यम् । गुरुकार्याणि गुरुविषयकार्याणि पादोपसङ्ग्रहणादीनि कुशिकात्मजे नियोज्य कृत्वा, विद्यासमुदितः शुशुभे इति सम्बन्धः ॥ १।२२।२१२२ ॥

दशरथेति । नृपसूनुसत्तमाभ्यामिति षष्ठ्यर्थे चतुर्थी । विबभौ विभातेत्यर्थः ॥ १।२२।२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २२ ॥