०२१ वसिष्ठवचनाद् रामप्रेषणम्

तच्छ्रुत्वेति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि स्कलन्ति अक्षराणि यस्मिन् ॥ १।२१।१ ॥

पूर्वमिति । विपर्ययः प्रतिश्रुतार्थत्यागः ॥ १।२१।२ ॥

यदिति । इदं प्रतिश्रुतार्थकरणम्, ते क्षमं युक्तं यदि सुखी भवेति व्यङ्ग्योक्तिः ॥ १।२१।३ ॥

तस्य कोपपरीतस्येति सप्तम्यर्थे षष्ठी ॥ १।२१।४ ॥

त्रस्तेति । त्रस्तरूपम् अतिशयेन त्रस्तम् । जगत् त्रैलोक्यम् ॥ १।२१।५ ॥

साक्षाद्धर्म इव, इवशब्द एवार्थे, दृढारोपं रूपकमिदम् ॥ १।२१।६ ॥

त्रिष्विति । धर्मात्मेति गुणाभाव आर्षः ॥ १।२१।७ ॥

संश्रुत्येति । इष्टापूर्तवधो भूयात् इष्टं यागदेवतार्चनादिकम्, पूर्तं वापीकूपतटाकादिनिर्माणादिकम्, तयोर्वधः निष्फलत्वम् ॥ १।२१।८ ॥

कृतास्त्रमिति । कृतास्त्रम्, शिक्षितास्त्रम् । न शक्ष्यन्ति न प्रसहिष्यन्ति ॥ १।२१।९ ॥

न केवलं विश्वामित्रकृतसंरक्षणेनैवास्य रघुनाथस्य दुष्प्रसहत्वम्, किन्तु स्वरूपपर्यालोचनयापीत्याह एष विग्रहवानिति । एषः रामभद्रः वीर्यवतां वर इत्यनेन सहजं वीर्यं तस्यैवोक्तं भवति । एष विद्याधिक इत्यनेन सहजज्ञानशक्तिः प्रतिपादिता । परायणं परमप्राप्यम्, तपसः विविदिषासाधनत्वात् “तमेतं वेदानुवचनेन बाह्मणा विविदिषन्ति यज्ञेन दानेन तपसा ऽनाशकेन” इति श्रुतेः । एषो ऽस्त्रान् विविधान् वेत्तीत्यनेन सर्वेश्वरस्य भूतलावतारसमये तदीयानि दिव्यायुधान्यपि सहैवागतानिति गम्यते । तथा च वक्ष्यति “शरा नानाविधाकारा धनुरायतविग्रहम् । अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः ॥ " इति। “नैनमन्यः पुमान् वेत्ति” इत्यत्र “सहैव सन्तं न विजानन्ति देवाः” इत्यदिश्रुतिः प्रमाणम्। ऽन च वेत्स्यन्तिऽ इत्यनेन न विदुश्चेति गम्यते। यद्वा एवं सहजप्रभावे वर्णितेऽपि पुत्रबुद्ध्या तिरोहितरघुनाथप्रभावापरिज्ञानात् दशरथस्य प्रत्ययो नोत्पद्यत इति विचार्य राज्ञो भयनिवृत्तिं राघवस्य भविष्यच्छ्रेयःप्राप्तिं च हृदि निधाय गोप्तुर्विश्वामित्रस्यापि रक्षणसामर्थ्यमुपपादयितुमाह एष विग्रहवानित्यादिना। एषः विश्वामित्रः। देवादयोऽपि न वेत्स्यन्तीति योजना ॥

१।२१।१०१२ ॥

सर्वास्त्राणीति । प्रशासति प्रशास्तीत्यर्थः । तदा दत्ताः शिवेनेति शेष ॥ १।२१।१३ ॥

ते ऽपीति । प्रजापतिसुतासुताः प्रजापतिसुते दक्षकन्यके तयोः सुताः ॥ १।२१।१४ ॥

जयेति । ते सुते सुवाते ॥ १।२१।१५ ॥

पञ्चाशतमिति । परान् अन्यान् । अरूपिणः अदृश्यरूपान् ॥ १।२१।१६ ॥

सुप्रभेति । दुराक्रामान् अमोघान् । दीर्घ आर्षः ॥ १।२१।१७ ॥

तानीति । यथावत् कार्त्स्न्येन । अपूर्वाणाम् अस्त्रविशेषाणामिति शेषः ॥ १।२१।१८२० ॥

इतीति । कुशिकात्मजाय कुशिकात्मजार्थम्, गमनं रुरोच ऐच्छत् ॥ १।२१।२१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकविंशः सर्गः ॥ २१ ॥