०२० दशरथविज्ञापना

तच्छुत्वेति । निःसञ्ज्ञ इव निष्प्राण इव ॥ १।२०।१ ॥

ऊनषोडशवर्ष इति । ऊनषोडशशब्दस्य द्वादशाब्दे पर्यवसानम् । तत्कथम्? कौशिकयागसंरक्षणार्थमागतरामवयोविशेषमुद्दिश्य “बालो द्वादशवर्षोयमकृतास्त्रश्च राघवः” इत्यारण्यकाण्डे रावणं प्रति मारीचेनोक्तत्वात् । योग्यतां क्षमताम् ॥ १।२०।२ ॥

इयमिति । यस्येति पुँल्लिङ्ग आर्षः । ईश्वरः स्वयं समर्थः । योद्धेत्यत्र अस्मीति शेषः ॥ १।२०।३ ॥

इम इति । विक्रान्ताः अक्षतविक्रमाः ॥ १।२०।४ ॥

अहमेवेति । गोप्ता, अध्वरस्येति शेषः । प्राणान् धरिष्यामि, जीविष्यामीत्यर्थः ॥ १।२०।५७ ॥

न चेति । कूटयुद्धाः कपटयुद्धाः ॥ १।२०।८९ ॥

यदिवेति । चत्वार्यङ्गानिचतुरङ्गानि ॥ १।२०।१० ॥

षष्टिरिति । दुःखेनोत्पादितः व्रतोपवासयज्ञानुष्ठानप्रयासेनोत्पादित इत्यर्थः ॥ १।२०।११ ॥

चतुर्णामिति । प्रीतिः परमिका मम । अस्मिन्निति शेषः । धर्मप्रधानम् धर्मः प्रधानं मुख्यं यस्य स तथोक्तः ॥ १।२०।१२ ॥

किमिति । किंवीर्याः कीदृशवीर्याः । ते किन्नामधेयाः कथम्प्रमाणाः कीदृग्विधशरीरप्रमाणाः । एतान् के रक्षन्ति । स्वामित्वेनेति शेषः ॥ १।२०।१३ ॥

कथमिति । प्रतिकर्तव्यम् प्रतिविधेयम् ॥ १।२०।१४१९ ॥

यदेति । यदा स्वयं यज्ञस्य न विघ्नकर्ता स्वयं विघ्नाय नागच्छति तदा तेन रावणेन सञ्चोदितौ मारीचः सुबाहुश्च यज्ञविघ्नं करिष्यत इति सम्बन्धः ॥ १।२०।२०२१ ॥

स इति । अल्पभाग्यस्य त्वन्नियोगाकरणेनेति शेषः ॥ १।२०।२२२३ ॥

स हि वीर्यवतामिति । वीर्यमादत्ते स्वीकरोति, नाशयतीत्यर्थः ॥ १।२०।२४ ॥

कथमिति । पुत्रकं पुन्नाम्नो नरकात् त्रायत इति पुत्रकम्, अनेन पुत्रतनयशब्दयोर्न पौनरुक्त्यम् ॥ १।२०।२५ ॥

अथेति । तौ यज्ञविघ्नकरौ युष्मद्यज्ञविघ्नकारिणौ चेति सुतं नैव दास्यामीति सम्बन्धः ॥ १।२०।२६ ॥

मारीच इति । तयोरन्यतरेण योद्धा स्यामिति काकुः ॥ १।२०।२७ ॥

उज्ज्वलितः रोषजज्वालाख्यचित्तवृत्तियुक्तः ॥ १।२०।२८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां विंशः सर्गः ॥ २० ॥