तच्छुत्वेति । अद्भुतविस्तरम् अद्भुतप्रपञ्चम् ॥ १।१९।१ ॥
सदृशमिति । एतत्तवैव सदृशम् । नान्यतः नान्यस्येत्यर्थः । तत्र हेतुगर्भं विशेषणं महावंशेत्यादि । वसिष्ठव्यपदेशिनः वसिष्ठो पदेशवतः ॥ १।१९।२ ॥
यदिति । कार्यस्य कर्तव्यस्य । निश्चयमङ्गीकारम् ॥ १।१९।३ ॥
अहमिति । आतिष्ठे आचरिष्ये ॥ १।१९।४५ ॥
अवधूत इति । नियमनिश्चये व्रतसङ्कल्पे अपाक्रमे निर्गतो ऽस्मि ॥ १।१९।६८ ॥
शक्त इति । विकर्तारः विघ्नकर्तारः । तेषामपि न द्वयोरेवेति भावः । दिव्यतेजो वैष्णवम्, तेन । युक्त इति शेषः ॥ १।१९।९ ॥
श्रेय इति । बहुरूपं बहुप्रकारम् । लोकानां लोकेषु । ये मद्दत्तास्त्रादिना ॥ १।१९।१० ॥
आसाद्य । युद्धे इति शेषः ॥ १।१९।११ ॥
वीर्योत्सिक्तौ दृप्तौ ॥ १।१९।१२ ॥
नेति । पुत्रकृतं स्नेहं पुत्रत्वेन कृतं स्नेहं कर्तुं नार्हसि, किन्तु परावरवस्तुत्वेन कर्तुमर्हसि । हतौ विद्धीति भूतप्रत्ययेन वधस्य सुकरत्वं सूचितम् ॥ १।१९।१३ ॥
अहं वेद्मीत्यादिना परत्वमेव विशदयति महात्मानं परमात्मानम् ॥ १।१९।१४१५ ॥
यदीति । यदि ददते ददीरन् ॥ १।१९।१६ ॥
अभिप्रेतमिति । यज्ञस्य दशरात्रं दशादिनान्येव, अतः अभिप्रेतम् अभिमतम् आत्मन इष्टं रामसंसक्तमविचारं यथातथा ॥ १।१९।१७ ॥
नात्येति नातिक्रमिष्यति ॥ १।१९।१८२० ॥
इतीति । हृदयमनोविदारणं हृदयं मनसो ऽधिष्ठानम् । अतीवेत्येतद्धृदयमनोविदारणमित्यनेन सम्बध्यते । महदत्यर्थं व्यथितमना इति सम्बन्धः ॥ १।१९।२१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकोनविंशः सर्गः ॥ १९ ॥