०१८ रामजन्म

प्रासङ्गिकदेवतावतारमुक्त्वा प्रकृतं प्रधानावतारमाह निर्वृत्त इत्यादि । पुत्रोत्पत्तिं विचिन्तयन्नित्यन्तो वृत्तानुवादः ॥ १।१८।१ ॥

समाप्तेति । प्रविवेश प्रवेष्टुमुपचक्रमे, उत्तरत्र प्रवेशस्य वक्ष्यमाणत्वात् ॥ १।१८।२ ॥

यथार्हमिति । मुनिपुङ्गवं वसिष्ठम् ॥ १।१८।३५ ॥

शान्तयेति । सानुयात्रेण सभृत्येन ॥ १।१८।६७ ॥

ततश्चेत्यादि । नावमिके नवम्याम् । स्वार्थे ठगार्षः । अदितिदैवत्ये पुनर्वसौ । पञ्चसु सूर्याङ्गारकशनिगुरुशुक्रेषु स्वोच्चस्थानस्थितेषु । लग्ने राश्युदये । वाक्पतौ बृहस्पतौ । प्रोद्यमाने उदयं गच्छति सति ॥ १।१८।८११ ॥

भरत इति । चतुर्भागः चतुर्थस्य भागः, अष्टमांश इति यावत् ॥ १।१८।१२ ॥

अथेति । अर्धसमन्वितौ । किञ्चिन्न्यूनार्धसमन्वितावित्यर्थः ॥ १।१८।१३ ॥

पुष्य इति । सार्पे सर्पदैवत्ये आश्लेषानक्षत्रे । कुलीरे कर्कटकलग्ने । रवौ अभ्युदिते अभ्युदयं प्राप्ते, उच्चस्थ इति यावत् ॥ १।१८।१४ ॥

राज्ञ इति । प्रोष्ठषदोपमाः चतुर्णां सादृश्यात् प्रोष्ठपदशब्देन पूर्वोत्तरप्रोष्ठपदरूपाणि चत्वारि नक्षत्राण्युच्यन्ते ॥ १।१८।१५१९ ॥

अतीत्यैकादशाहं तु अत्र एकादशाहशब्दः सूतकान्तोपलक्षणम् । अन्यथा क्षत्रियस्य द्वादशे ऽहनीति वचनविरोधात् ॥ १।१८।२०२३ ॥

तेषामिति । जन्मक्रियादीनि जातकर्मादीनि, नामकरणानन्तरं जातकर्माभिधानं क्रमस्याविवक्षितत्वात् ॥ १।१८।२४ ॥

तेषां केतुरिति । रतिकरः आनन्दकरः, भूयः अतिशयेन सम्मतः ॥ १।१८।२५२८ ॥

बाल्यादिति । लक्ष्मीवर्द्धनः आर्षो ह्रस्वः । लोकरामस्य लोकान् रमयतीति

तथा ॥ १।१८।२९ ॥

सर्वप्रियकर इति । रामस्य शरीरतोपि स्वशरीरादपि । सर्वप्रियकरः सर्वदा प्रियकर इत्यर्थः । बहिश्चरः प्राण इवासीत् ॥ १।१८।३०३२ ॥

भरतस्यापीति । तथा शत्रुघ्नो भरतस्य प्राणैः प्राणेभ्यो ऽपि प्रियतरः, तस्य चापि तथा प्रियतर इत्यर्थः ॥ १।१८।३३ ॥

स चतुर्भिरिति । देवैः दिक्पालकैः ॥ १।१८।३४३७ ॥

अथ राजेति । सोपाध्यायः सपुरोहितः ॥ १।१८।३८ ॥

तस्य चिन्तयमानस्येति भावलक्षणे षष्ठी । महातेजाः महाप्रभावः ॥ १।१८।३९४२ ॥

तेषामिति । समाहितः एकाग्रः ॥ १।१८।४३ ॥

तमिति । संशितव्रतम् तीक्ष्णनियमम् अर्ध्यमुपहारयत् । वसिष्ठेनेति शेषः ॥ १।१८।४४ ॥

स इति । अव्ययं राज्याङ्गेषु क्षेमम् ॥ १।१८।४५४६ ॥

अपि ते सन्नता इति । अपिः प्रश्ने । दैवं च मानुषं च कर्म दैवं कर्म होमदेवतार्चनादिकम्, मानुषं कर्म सामदानभेदादिकम् गजबन्धनादिकं च ॥ १।१८।४७ ॥

वसिष्ठं चेति । ऋषीन् वामदेवादीन् । यथान्यायं यथार्हम् ॥ १।१८।४८४९ ॥

अथेति । हृष्टः पुलकितः प्रणष्टस्य, वस्तुन इति शेषः ॥ १।१८।५०५१ ॥

स्वागतं त इति भिन्नं वाक्यम् । कं च ते परमं कामं करोमि किमु हर्षितः, कं परमं कामं किमु केन प्रकारेण करोमीत्यर्थः । दिष्ट्येत्यव्ययमानन्दद्योतकम् ॥ १।१८।५२५४ ॥

पूर्वमिति । राजर्षिशब्देन सहितः ॥ १।१८।५५ ॥

तदद्भुतमिति । तदिदं तव सन्दर्शनम् अद्भुतमचिन्तितोपमानत्वादाश्चर्यावहम् । पवित्रं शुद्धिकरम् । शुभक्षेत्रगतः पुण्यक्षेत्रगतः । इदं स्थलं त्वद्दर्शनात्पवित्रं जातमित्यर्थः ॥ १।१८।५६ ॥

ब्रूहीति । आगमनं प्रति कार्यं फलभूतं यत्प्रार्थितं तद्ब्रूहि । त्वदर्थपरिवृद्धये त्वत्प्रयोजननिष्पादनाय ॥ १।१८।५७ ॥

कार्यस्येति । विमर्शम् उरुलाघवचिन्तां कुर्याद्वा नवेति विचारं वा ॥ १।१८।५८५९ ॥

इति हृदयेति । प्रथितगुणयशाः प्रसिद्धेन गुणेन प्राप्तं यशो यस्य स तथोक्तः । प्रथितगुणशब्देन त्रिशङ्कुस्वर्गारोहणनूतनस्वर्गसृष्ट्यादिहेतुभूतो ब्रह्मर्षित्वप्राप्त्यनुगुणो

दिक्चतुष्टयनिर्वर्तितचिरकालसम्पादिततपःशक्तिविशेष उच्यते । गुणैर्विशिष्टः शमदमाद्यात्मगुणैर्विशिष्टः ॥ १।१८।६० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टादशः सर्गः ॥ १८ ॥