०१७ ऋक्षवानरोत्पत्तिः

पुत्रत्वमिति । गते गन्तुमुपक्रान्ते ॥ १।१७।१३ ॥

असंहार्यान् परैः संहर्तुमशक्यान् । दिव्यसंहननान्वितान् दिव्यदेहयुक्तान् । सर्वास्त्रगुणसम्पन्नान् अस्त्रप्रयोगोपसंहारादि गुणसंयुक्तान् । अमृतं प्राश्नन्तीति अमृतप्राशनान् । गन्धर्वीणां गन्धर्वपत्नीनाम् । सृजध्वम् । हरिरूपेणेत्यभिधानं “तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वदार्थं तु कुलस्य

तव वानराः ॥ " इति रावणविषयं नन्दिकेश्वरवाक्यं हृदि कृत्वा। तुल्यपराक्रमान् स्वानुरूपपराक्रमान् ॥

१।१७।४५ ॥

पूर्वमेवेति । पूर्वमेव रावण वधार्थं विष्णुरवतरिष्यतीति जाम्बवान् मया सृष्टः । जाम्बवतः सृष्टिप्रकारमाह जृम्भयमाणस्येति ॥ १।१७।६८ ॥

वानरेन्द्रमिति । पूर्वमेव मया सृष्ट इति श्लोकस्थं पूर्वमितिपदमत्राप्यनुषञ्जनीयम् । यथाश्रुतत्वे भगवदवतारसमये वालिसुग्रीवयोरनुत्पत्तिरिति । रामसहायसृष्टिप्रकरणे वालिसृष्टिप्रकथनं साक्षाद्रामासहायकत्वाभावे ऽपि “आत्मा वै पुत्रनामासि” इति श्रुत्युक्तप्रकारेण तस्यापि स्वपुत्रभूताङ्गदद्वारा सहायकत्वात् । अत्यरिच्यत अतिशेते स्म ॥ १।१७।९१२ ॥

रूपद्रविणसम्पन्नौ द्रविणं नाम बलं शौर्यं च । रूपसम्मतौ रूपेण सम्मतौ प्रसिद्धौ ॥ १।१७।१३ ॥

वरुण इति । पर्जन्यः वृष्ट्यभिमानिदेवता । गन्धमादनसुषेणशरभाणामत्र प्रतिपादितजन्मप्राकार एव वास्तवः । युद्धकाण्डे रावणं प्रतिशार्दूलेन “सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्” इत्यादिना प्रकारान्तरेणोत्पत्तिकथनं तस्य यथावस्थितजन्मपरिज्ञानाभावात् ॥ १।१७।१४१७ ॥

यस्य देवस्येति । रूपं सौन्दर्यम्, वेषः संस्थानविशेषः ॥ १।१७।१८१९ ॥

देवा इत्यादि । तार्क्ष्याः तार्क्ष्यवर्गीयाः । नागा महाकुलप्रसूताः सर्वाः ॥ १।१७।२०२४ ॥

चालयेयुः चालयितुं शक्नुयुः ॥ १।१७।२५ ॥

आप्लवेयुः शोषयेयुः ॥ १।१७।२६ ॥

प्रव्रजतः अनर्गलप्रचारान् । नर्दमानान् शब्दायमानान् ॥ १।१७।२७२९ ॥

अन्य इति । ऋक्षवतः पर्वतस्य प्रस्थान् सानून् । अवतस्थुः असेवन्त ॥ १।१७।३०३३ ॥

तैरिति । नानाव्यञ्जनलक्षणैः पराक्रमप्रयुक्तासाधारणधर्मो व्यञ्जनम्, तत्तच्छरीरासाधारणधर्मो लक्षणम् । यद्वा व्यञ्जनं तत्तच्छरीरासाधारणो धर्मः, लक्षणम्, तत्तज्जातीयासाधारणो धर्मः । रामसहायहेतोः भीमशरीररूपैः भयजनकशरीराकृतिभिः ॥ १।१७।३४३५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तदशः सर्गः ॥ १७ ॥