०१६ पायसप्रदानम्

ततो नारायण इति । नियुक्तः प्रार्थितः । जानन्, वधोपायमिति शेषः ॥ १।१६।१ ॥

देवत्वं विहाय मनुष्यत्वं प्राप्यैव रावणो हन्तव्य इत्यत्र को हेतुरित्यभिप्रायेण पृच्छति उपायः क इति ॥ १।१६।२४ ॥

सन्तुष्ट इत्यादि । मानुषादन्यत्र नानाविधेभ्यो भूतभ्यो भयं न भवेदिति वरं ददावित्यन्वयः ॥ १।१६।५७ ॥

तस्मादिति । दृष्टो निश्चितः ॥ १।१६।८१० ॥

तत इत्यादि श्लोकपञ्चकमेकान्वयम् । महद्भूतं पुरुषविशेषः । कृष्णरक्तेति । स्निग्धाः हर्यक्षस्य सिंहस्येव तनुजानि लोमानि श्मश्रुप्रवराः मूर्धजाश्च यस्य । “हर्यक्षः केसरी हरिः” इत्यमरः । हर्यक्षस्य राक्षसस्येति वा, समुत्सेधःउन्नतिः, दृप्तशार्दूल वत् विक्रमः पदविन्यासो यस्य तत् । राजतान्तपरिच्छदाम् राजताः रजतनिर्मिताः अन्ते परिच्छदाः रचनाविशेषाः यस्यास्ताम् । मायामयीमिव विचित्रकार्यकरीमिव ॥ १।१६।१११५ ॥

समवेक्ष्येति । प्राजापत्यं प्रजापतिसम्बन्धिनम् । प्रजापतिना प्रेषितमिति यावत् । नरं पुमांसम् ॥ १।१६।१६१७ ॥

अथो इति । अर्चयता यजमानेन ॥ १।१६।१८२३ ॥

तत इति । अद्भुतप्रख्यम् अद्भुतकान्तिम् । संवर्तयित्वा निर्वर्त्य समाप्येत्यर्थः । कर्म पायसदानरूपम् । तत्र अग्निकुण्डे ॥ १।१६।२४ ॥

हर्षरश्मिभिः हर्षोद्भूतमुखकान्तिबिः ॥ १।१६।२५ ॥

स इति । पुत्रीयम्, पुत्रोत्पत्तिनिमित्तम् ॥ १।१६।२६ ॥

कौसल्याया इत्यादि । कैकेय्यै चावशिष्टार्द्धम् अवशिष्टस्य चतुर्थांशस्यार्द्धं प्रददौ ॥ १।१६।२७ ॥

अवशिष्टार्द्धम् अवशिष्टमष्टमांशं सुमित्रायै पुनर्ददाविति सम्बन्धः । अर्धशब्दो ऽत्र समप्रविभागपरः । अनुचिन्त्य कैकेय्या अपि सुमित्राया अधिकांशभाक्त्वं विचार्य, अत्र कौसल्यायाः सुमित्राकैकेयीभ्याम् अधिकांशादाने ज्येष्ठात्वम्, सुमित्रायाः पादोनार्धांशदाने मध्यमात्वम्, कैकेय्याः प्रेमास्पदत्वे ऽपि कनिष्ठात्वमष्टमांशदाने कारणम् । वल्लभायां सम्भोगकर्मणि हि पक्षपातः, न धर्मविभागकर्मणि, अतो ऽनेन भरतशत्रुघ्नौ पादस्यार्धम् ॥ १।१६।२८३१ ॥

तत इति । प्रतिलब्धमानसः प्रतिष्ठित चित्तः । यद्वा पूर्णमनोरथ इत्यर्थः । सुरेन्द्रेत्यादि राजविशेषणम् । भगवदंशगर्भसम्भवेन तैः पूजितो मनसा स्तुतः ॥ १।१६।३२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षोडशः सर्गः ॥ १६ ॥