०१५ पुत्रकामेष्टिः रावणवधचिन्ता

मेधावीति । अतीन्द्रियार्थदर्शी सः । ध्यात्वा दशरथस्य पुत्रसिद्धिः केन कर्मणा भवेदिति विचिन्त्य । लब्धसञ्ज्ञः प्राप्तिनिश्चयः ॥ १।१५।१ ॥

इष्टिमिति । पुत्रीयां पुत्रोत्पत्तिनिमित्तभूतां पुत्रकारणात् पुत्रोत्पादनकारणत्वेन विधानात् । अथर्वशिरसि सिद्धां निष्पन्नाम्, विधानतः शास्त्रोक्तप्रकारेण मन्त्रदृष्टेन मन्त्रप्रकाशितेन ॥ १।१५।२६ ॥

त्वयेति । तं त्वद्दत्तवरम् । तम् नित्यमिति तद्वरदानरूपं त्वयोक्तं वाक्यम्, सर्वं दौर्जन्यमिति शेषः ॥ १।१५।७११ ॥

एवमुक्त इति । हन्तेति हर्षे । वधोपायो मृत्युः ॥ १।१५।१२१७ ॥

त्वामिति । नियोक्ष्यामहे प्रार्थयामहे ॥ १।१५।१८१९ ॥

विष्णो इति । कृत्वात्मानं चतुर्विधमिति चातुर्विध्यविधानां रावणेन्द्रजिल्लवणगन्धर्ववधादीनां प्रत्येकं देवकार्याणां सद्भावात् ॥ १।१५।२०२४ ॥

त्वमिति । नृणां लोके मनः कुरु । अवतरितुमिति शेषः ॥ १।१५।२५ ॥

एवमिति । मानुषे मनुष्येषु ॥ १।१५।२६२९ ॥

तत इति । रोचयामास ऐच्छत् ॥ १।१५।३०३१ ॥

तमिति । उग्रतेजसम्, दीप्तविक्रमम् । विरावणं विरावयति लोकानिति विरावणः तम् । उद्धर उत्पाटय ॥ १।१५।३२ ॥

तमेवेति । गतज्वरः विनिवर्तिताश्रिततापादिः । गतदोषकल्मषः दोषशब्देन रोगादयो लक्ष्यन्ते । सुरेन्द्र हे उपेन्द्र अत एव स्वर्लोकमागच्छेति प्रार्थना युज्यते । गुप्तम्, त्वत्प्रभावेनेति शेषः ॥ १।१५।३३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालाकाण्डव्याख्यायां पञ्चदशः सर्गः ॥ १५ ॥