०१४ अश्वमेधयजनम्

अथेति । एतेन पूर्वोक्त एवार्थस्सूच्यते, न पुनः संवत्सरान्तरप्राप्तिरिति ज्ञेयम् ॥ १।१४।१२ ॥

कर्मेति । याजका वेदपारगाः इति । याजका ऋत्विजः, वेदपारगाः वेदस्याधीतस्य पारं फलवदर्थावबोधः तद्गच्छन्तीति तथा । यथाविधि उत्पत्त्यादिविद्ध्यनुसारेण, यथान्यायम् मीमांसाशास्त्रगतन्यायानुसारेण । यथाविधीत्यनेनैव सिद्धे शास्त्रत इत्येतत् यथान्यायत्वविधानार्थम् । तथा च यथाविधि परिक्रामन्ति शास्त्रतो यथान्यायं परिक्रामन्तीति वाक्यभेदेन निर्वोढव्यम् ॥ १।१४।३ ॥

प्रवर्ग्यमिति । प्रवर्ग्यम् आरादुपकारककर्मविशेषः । शास्त्रतः कल्पसूत्रानुसारेण कृत्वा । उपसत् उपसन्नामकर्मविशेषः । पूर्वं प्रकृतौ स्थिततया आदिष्टम्, अधिकं विधिवत् शास्त्रतो विहितं चेत्यर्थः । अधिकमित्यनेनान्यूनत्वं वा ॥ १।१४।४५ ॥

ऐन्द्र इति । ऐन्द्रः इन्द्रदेवताको हविर्भागः । राजा सोमलता । अभिष्टुतः स्तोत्रशस्त्रैः स्तुतः ॥ १।१४।६७ ॥

न चेति । तत्र यागे । स्खलितं स्कन्नम् । पात्रादिति शेषः । ब्रह्मवत् मन्त्रवत् । क्षेमयुक्तम् विघ्नरहितं विघ्ननिवारकरक्षोघ्नमन्त्राद्युपेतमित्यर्थः ॥ १।१४।८ ॥

न तेष्विति । अशतानुचरः शतशिष्यरहितः ॥ १।१४।९ ॥

ब्राह्मणा इति । नाथवन्त इत्यनेन ब्राह्मणशुश्रूषकाः शूद्रा उच्यन्ते । श्रमणाः चतुर्थाश्रमं प्राप्ताः ॥ १।१४।१० ॥

अनिशमिति । न तृप्तिरुपलभ्यते भोज्यपदार्थानां रसातिशयलाभात्तृप्तिर्नाभूदित्यर्थः । यद्वा अनिशं भुञ्जानेष्वपि जनेषु यजमानस्य तृप्तिः अलम्बुद्धिर्नाभूदित्यर्थः ॥ १।१४।१११२ ॥

अन्नकूटा इति । अत्र अन्नेति लुप्तषष्ठ्यन्तं भिन्नं पदं सिद्धस्येत्यस्य विशेषणम् । सिद्धस्य निष्पन्नस्य ॥ १।१४।१३ ॥

नानादेशादिति । सुविहिताः सुतरां तर्पिताः ॥ १।१४।१४ ॥

अन्नं हीति । अहो तृप्ताः स्म इति शब्दं राघवः शुश्राव । हि यस्मात्कारणात् स्वादु विधिवद्दत्तमन्नं द्विजर्षभाः प्रशंसन्तीति सम्बन्धः ॥ १।१४।१५ ॥

स्वलङ्कृता इति । बाह्मणान् पर्यवेषयन् ब्राह्मणेभ्यो भक्ष्यभोज्यादिकं प्रददुरित्यर्थः । अन्ये सुमृष्टमणिकुण्डलाः परिवेषयितारः तान् सहायार्थमसेवन्तेत्यर्थः ॥ १।१४।१६ ॥

कर्मान्तर इति । विप्राः ऋत्विजः । प्रकृतयागानुष्ठानोपयोगवादांश्चक्रुः ॥ १।१४।१७ ॥

दिवस इति । संस्तरे यज्ञे ॥ १।१४।१८ ॥

नाषडङ्गविदिति । व्रतानि प्राजापत्यादीनि ॥ १।१४।१९ ॥

प्राप्त इति श्लोकद्वयमेकान्वयम् । प्राप्ते तस्मिन् यज्ञे । यूपोच्छ्रये यूपस्थापने प्राप्ते तावन्तः पूर्वोक्ताः, षट्सङ्ख्याकाः । पर्णिनः पलाशाः बिल्वसहिताः एकेन बिल्वयूपेन सहिताः । श्लेष्मातकमय इति । दिष्टः अश्वमेधे विहितः । श्लेष्मातकमयो ऽग्रिष्ठ इति पाठे अग्निष्ठः अग्न्यभिमुखः तावन्तः बिल्वसहिता इति भेदः । तथा चायमर्थः अबिल्वो बिल्वादन्यः, यूपयोग्यवृक्षो देवदारुः, तेन सहिताः देवदारुमयस्तथा, तथा देवदारुमयो यूप इत्यर्थः । एवञ्च द्वौ देवदारुयूपौ उभयतः स्थितौ, तयोर्मध्ये श्लेष्मातकयूपा इत्युक्तं भवति । तथा च श्रुतिः “राज्जुदालमग्निष्ठं मिनोति, पौतुद्रवावभितो भवतः” इति । तथाचाश्वमेधकल्पसूत्रम् “राज्जुदालमेकविंशत्यरत्निं सम्मिनोति पौतुद्रवावभितस्त्रयो बैल्वा दक्षिणतस्त्रय उत्तरतस्त्रयः, खादिराः दक्षिणतस्त्रय उत्तरतस्त्रयः” एवञ्च षड्बैल्वाः, षट् खादिराः, षट् पालाशाः, पौतुद्रवौ द्वौ, राज्जुदालयूप एकः सम्भूय एकविंशतियूपा अश्वमेध इति विवेकः ।

बाहुव्यस्तपरिग्रहौ व्यस्तबाहुपरिग्रहौ प्रसारितोभयबाहुपरिणाहावित्यर्थः ॥ १।१४।२०२२ ॥

एकविंशतियूपा इति । एकविंशत्यरत्नयः एकविंशत्यरत्निसम्मितोच्छ्रयाः । अरत्निर्नाम चतुर्विंशत्यङ्गुलयः ॥ १।१४।२३ ॥

विन्यस्ता इति । अष्टाश्रयः अष्टकोटियुक्ताः । श्लक्ष्णम् स्निग्धम् ॥ १।१४।२४२५ ॥

इष्टका इति । यज्ञकर्मणि चितो ऽग्निरित्यत्र अग्निशब्देनाग्न्याधारभूतो देश उच्यते । सब्राह्मणैरिष्टकाभिः चितो बद्ध इत्यर्थः । शुल्बकर्मणीति पाठे शुल्बमेकसरा रज्जुः । शुल्बानां यज्ञे विहरणसाधनत्वात् ॥ १।१४।२६ ॥

स चित्य इति । चिन्तः चयननिर्वर्त्यः स इष्टकाभिश्चितो देश इत्यर्थः । सञ्जितः सम्यक् चितः, सम्पूर्णं कृत इत्यर्थः । तमेवाह गरुड इति । गरुडः गरुडाकारेण इष्टकाभिश्चितो देशः । रुक्मपक्षः रुक्मगर्भपक्षः । त्रिगुणः प्रकृतौ षट्प्रस्तारात्मकस्य चित्यग्नेरश्वमेधे त्रैगुण्यविधानात् त्रिगुणः अत एवाष्टादशात्मकः । अष्टादशप्रस्तारात्मक इत्यर्थः ॥ १।१४।२७ ॥

यथाशास्त्रम् “इन्द्राय राज्ञे सूकरो वरुणाय राज्ञे कृष्टःऽ इत्याद्यनुवाकेषु प्रतिपादिताः ॥ १।१४।२८ ॥

शामित्र इति । शामित्रे विशसनकर्मणि ॥ १।१४।२९ ॥

पशूनां त्रिसतमिति । अश्वरत्नोत्तरम् अश्वरत्नाधिकम्, पशूनां त्रिशतं तत्र नियुक्तं तत्तदहस्सु विनियोजितम् । तत्र यूपेषु बद्धम् ॥ १।१४।३० ॥

कौसल्येत्यादि । तं हयं परिचर्य प्रोक्षणादिभिः संस्कृत्य एवं कृपाणैर्विशशासेति । असिभिर्वधं चकारेत्यर्थः । यद्वा कौसल्या सौवर्णादिभिः सूचीभिः असिपथा अश्वस्य चकारेत्यर्थः ॥ १।१४।३१ ॥

पतत्रिणा अश्वेन ॥ १।१४।३२ ॥

होतेत्यादि । कृताभिषेका महिषी । उपेक्षिता परिवृत्तिः, वावाता भुजिष्या । वावातापरिवृत्तिभ्यां सह महिषीं होत्रादयः अश्वेन समयोजयन्नति सम्बन्धः ॥ १।१४।३३ ॥

पतत्रिणः अश्वस्य ॥ १।१४।३४३६ ॥

फ्लक्षशाखास्विति अन्येषां यज्ञानां यज्ञसम्बन्धिनां पशूनां हविः प्लक्षशाखास्ववधीयते । अश्वमेधस्य अश्वमेधप्रधानपशोः, अश्वस्येत्यर्थः । भागो हविर्भागः वैतस इष्यते । वञ्जुलशाखायां विधायाव्यदातवत्त्वेनेष्यत इत्यर्थः ॥ १।१४।३७ ॥

त्र्यहो ऽश्वमेध इति सार्धश्लोकमेकं वाक्यम् । कल्पसूत्रेण तन्मूलभूतैर्ब्राह्मणवाक्यैश्चेत्यर्थः । तान्येव त्रीण्यहानि दर्शयिति चतुष्टोममित्यादि ॥ १।१४।३८ ॥

इतरे चाङ्गभूताः क्रतवो ऽनुष्ठिता इत्याह कारिता इति । (कारितास्तत्र बहवो विहिताः) शास्त्रदर्शनात् शास्त्रेण चोदितत्वात्, विहिताः वेदविहिताः, बहवः क्रतवः कारिताः अनुष्ठिता इत्यर्थः ॥ १।१४।३९ ॥

तानेव क्रतून् परिगणयति ज्येतिष्टोमेति । आयुरायुर्नाम, अतिरात्रविति द्विवचनेन अतिरात्रस्य द्विरावृत्तिर्गम्यते ॥ १।१४।४०४३ ॥

ऋत्विज इत्यादि । अमूल्यमिमां पृथ्वीं निष्क्रियेण कथं क्रीणीयामित्यात्राह निष्क्रयं किञ्चिदेवेति । तव शक्त्यनुसारेणास्मदभिलाषितानुसारेण चेत्यर्थः । निष्क्रयते ऽनेनेति व्युत्पत्त्या मूल्यमुच्यते ॥ १।१४।४४४५ ॥

मणीति । मणिरत्नं मणिश्रेष्ठम् । समुद्यतमुपस्थितम् ॥ १।१४।४६ ॥

एवमुक्त इति । नरपतिशब्दो यौगिकः, नृपशब्दो रूढ्यां वर्तते, अतो न पौनरुक्त्यम् ।

दशकोटीरित्यर्धं पूर्वेण सम्बध्यते ॥ १।१४।४७४८ ॥

ऋत्विज इति । प्रददुः पुरो न्यस्तवन्तः ॥ १।१४।४९ ॥

ततस्ते न्यायत इति । प्रत्यूचुर्मुदिता भृशम् अत्यन्तं मुदिताः स्म इति प्रत्यूचुः एतदेवालमित्यूचुः ॥ १।१४।५० ॥

तत इति । प्रसर्पकेभ्यो ऽभ्यागतेभ्यः । जाम्बूनदं जम्बूनदीप्रभवम् ॥ १।१४।५१५७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ १४ ॥