पुनः प्राप्त इति । यस्मिन् वसन्ते ऋश्यशृङ्गादिऋत्विजो वृताः तत आरभ्य सम्भारसम्भरणयज्ञभूमिविधानशान्तिकर्मानुष्ठानपूर्वकमश्वं विमुच्य तेन सहैव गच्छद्भिरुद्गात्रध्वर्युहोतृब्रह्मभिः राजपुत्रसङ्गृहीतृसूतग्रामण्युग्राख्यैः प्रत्येकशतसङ्ख्याकैरनुगम्यमानैस्सावित्रादिकर्मसु अनुष्ठीयमानेष्वेव संवत्सरे पूर्णे पुनर्वसन्ते प्राप्त इत्यर्थः । हयमेधेन अश्वमेधेन, प्रसवार्थं प्रसवफलं भावयितुम्, गतः गन्तुमुपक्रान्त इत्यर्थः ॥ १।१३।१ ॥
अभिवाद्येत्यर्धत्रयमेकं वाक्यम् । वसिष्ठमभिवाद्य न्यायतः प्रतिपूज्य च प्रसवार्थमारब्धो यज्ञो यथोक्तं क्रियतामिति प्रश्रितं विनययुक्तं वाक्यमब्रवीदिति सम्बन्धः ॥ १।१३।२ ॥
यथेति । यज्ञाङ्गेषु द्रव्यदेवताकर्मादिरूपेषु यथा विघ्नो न क्रियते, राक्षसादिभिरिति शेषः । तथा विधीयतां क्रियतामित्यर्थः ॥ १।१३।३ ॥
भवानिति । स्निग्धः अविच्छेदस्नेहः । सुहृत् शोभनहृदयः । मह्यमिति षष्ठ्यर्थे चतुर्थी । मया उद्यतो भारः भवता वोढव्य इत्यब्रवीदिति द्विजोत्तममिति पूर्वस्यानुषङ्गः ॥ १।१३।४ ॥
तथेति । समर्थितम् प्रार्थितम् ॥ १।१३।५ ॥
ततो ऽब्रवीदित्यादि । यज्ञकर्मसु यज्ञप्रयोगेषु, स्थापत्ये तत्तद्द्रव्यानयनस्वाम्ये, निष्ठितान्
वियुक्तान् । कर्मान्तिकान् कर्मान्तः कर्मस्वरूपं तन्निश्चयो वा तद्वन्तः, कर्मकरानिति यावत् । शिल्पकरान् चित्रकरान् । वर्द्धकीन् त्वष्टृ़न् खनकान् वापीकूपनिर्मातृ़न् । गणकान् लेखकान् । शिल्पिनः वितानाद्यलङ्कारकान्, नटनर्तकान् नटान् नाटयितृ़न्, नर्तकान् नृत्यकारिणः ॥ १।१३।६७ ॥
यज्ञकर्म समीहन्ताम्, निर्वर्तयितुमिति शेषः । इष्टकेति । आनीयतामित्यत्रेतिशब्दः अब्रवीदिति पूर्वेण सम्बध्यते । यद्वा परेण सम्बध्यते यथेष्टकानयनमेवमौपयिकाश्च क्रियन्तामिति । बहुसाहस्राः बहुसहस्रङ्ख्याकाः आनीयतामिति व्यत्ययेनैकवचनम् ॥ १।१३।८ ॥
औपकार्या इत्यादि । औपकार्याः राजसदनानि । बहुगुणान्विताः बहूपकरणयुक्ताः सुनिष्ठिताः सुनिर्मिताः । सर्वकामैरुपस्थिताः काम्यमानैस्सर्वपदार्थैरुपेताः । जानपदस्य ग्रामान्तरादागतस्य ॥ १।१३।९११ ॥
लीलया अवज्ञया अनादरेण तु नैव देयमित्यर्थः । सर्ववर्णा इति सर्वे वर्णाः यथा पूजां प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ॥ १।१३।१२१३ ॥
तेषामपि विशेषेण तेषां तु विशेषेण कर्तव्यमित्यर्थः । यथाक्रमं यथार्हम् । ते चेत्यत्र चशब्दो भिन्नक्रमः । वसुभिर्भोजनेन च यथा सम्भृताश्च स्युः तथा कर्तव्यमित्यर्थः ॥ १।१३।१४१५ ॥
तत इत्यादि सार्धश्लोकमेकं वाक्यम् । यथोक्तं यथा शास्त्रमुक्तं त्वया यदुक्तं तत् न किञ्चित् परिहीयते न किञ्चिल्लुप्यते । यथा न किञ्चित्परिहास्यते किञ्चिदपि यथा परित्यक्तं न भवेत् तथा तत्सुविहितं स्वनुष्ठितं करिष्याम इत्यर्थः ॥ १।१३।१६१९ ॥
मिथिलाधिपमिति । स्वयमेवानयेति सम्बन्धः । पूर्वसम्बन्धिनं चिरन्तनसम्बन्धिनं ज्ञात्वा ततः पूर्वं तत्पूर्वकं ब्रवीमि राजाह्वानमुपदिशामीत्यर्थः ॥ १।१३।२०२६ ॥
वसिष्ठवाक्यमिति । शुभान् कुशलान् ॥ १।१३।२७२९ ॥
अवज्ञयेति । अवज्ञया अनादरेण । लीलया अश्रद्धया ॥ १।१३।३० ॥
तत इति । आदाय उपायनार्थम् ॥ १।१३।३१३२ ॥
मयापीति । यज्ञियं यज्ञोपयोगि, स्रुक्स्रुवाद्युपकरणजातमित्यर्थः ॥ १।१३।३३ ॥
अन्तिकम् अन्तिके स्थितम् । सर्वकामैः सर्वोपकरणैः ॥ १।१३।३४ ॥
द्रष्टुमिति । मनसेव विनिर्मितमिति अविलम्बेन लोकोत्तरतया च निर्माणं सूचितं भवति ॥ १।१३।३५ ॥
तथा वसिष्ठवचनादिति लुप्तविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यश्रृङ्गस्य चोभयोरिति च सम्बन्धः । यज्ञवाटगता इत्यर्धं भिन्नं वाक्यम् । अत्राप्यारभन्नित्यनुषज्यते । यथाशास्त्रम्, वेदोक्तमनतिक्रम्य । यथाविधिकल्पसूत्रानुसारेण ॥ १।१३।३६३७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ १३ ॥