०१२ अश्वमेधारम्भः

तत इति । ततः ऋश्यशृङ्गानयनानन्तरम् । काले बहुतिथे अनल्पे, गत इति शेषः । सुमनोहरे मलिम्लुचत्वादिदोषरहिते । मनो ऽभवत् मनोगतं प्रवृत्तम् ॥ १।१२।१ ॥

ततः प्रसाद्येति । देववर्णिनम्, देववर्चसम् । सन्तानार्थम् अविच्छेदार्थम् । विप्रमृश्यशृङ्गम् ॥ १।१२।२३ ॥

तत इति । आवाहय मत्समीपं प्रापय । ऋतौ यजन्तीत्र्यृत्विजः ॥ १।१२।४७ ॥

मम लालप्यमानस्येत्यादि राज्ञा पूर्वमप्युक्तम्, न तु कृतं सङ्कल्पमात्रेण अन्तरा सुमन्त्रकथा प्रस्तुता, अतो नानुष्ठितम् । इदानीमनुष्ठानार्थं तत्पुनरप्युपन्यस्यते ॥ १।१२।८ ॥

तदिति । ऋषिपुत्रप्रभावेन ऋषिपुत्रः ऋश्यशृङ्गः, तत्प्रभावेन ॥ १।१२।९१४ ॥

यथाकल्पं यथाक्रमम् । यथाविधि यथाशास्त्रम् ॥ १।१२।१५२० ॥

गतेष्विति । नराधिपः दशरथः । स्वं स्वकीयम्, वेश्म् अग्निगृहादन्तःपुरं प्रविवेश प्रवेशयामास ॥ १।१२।२१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वादशः सर्गः ॥ १२ ॥