०११ ऋष्यशृङ्गागमनम्

भूय एवेति । देवप्रवरः देवश्रेष्ठः प्रकृतः सनत्कुमार उच्यते । कथायां पूर्वकथायां समाप्तायां सत्यां यथेति यदित्यर्थे तदब्रवीत् ॥ १।११।१ ॥

इक्ष्वाकूणामिति । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ १।११।२ ॥

अङ्गराजेनेति । अङ्गराजेन तस्य दशरथस्य सख्यं भविष्यति ॥ १।११।३ ॥

तमेवाङ्गराजं विशिनष्टि पुत्रस्त्विति । अङ्गस्य अङ्गाख्यस्य राज्ञः रोमपाद इति श्रुतः प्रसिद्धः पुत्रः, अस्य शान्तानाम कन्या च भविष्यतीति पूर्वक्रियया प्रत्येकमभिसम्बध्यते । तं रोमपादम् ॥ १।११।४ ॥

अनपत्य इति । आहरेत् निर्वहेत् । सन्तानार्थं वंशाविच्छेदार्थम् ॥ १।११।५ ॥

श्रुत्वेति । पुत्रवन्तं पुत्रफलकर्मवन्तं सञ्जातपुत्रं वा । यद्वा तपोमाहात्म्यात्पुत्रकामेष्ट्या पुत्रप्रदानसमर्थत्वात्पुत्रवन्तमित्युक्तिः ॥ १।११।६७ ॥

तं चेति श्लोकद्वयमेकं वाक्यम् । प्रसवार्थं सन्तानार्थम् । कामम्, काम्यक्रतुम् ॥ १।११।८१० ॥

एवमिति । देवयुगे कृतयुगे ॥ १।११।१११२ ॥

अनुमान्येति । अनुमान्य अनुज्ञां प्राप्य ॥ १।११।१३१५ ॥

तत इति । राजा रोमपादः । राज्ञः दशरथस्य ॥ १।११।१६ ॥

रोमपादेनेति । तं दशरथम् । प्रत्यपूजयत् । ऋश्यशृङ्ग इति शेषः ॥ १।११।१७१८ ॥

शान्तेति । उद्यतम् उपक्रान्तमस्ति ॥ १।११।१९२० ॥

ऋषिपुत्र इति । प्रतिश्रुत्य आकर्ण्य ॥ १।११।२१२६ ॥

तत इति । इन्द्रकर्मणा इन्द्रसदृशकर्मणा ॥ १।११।२७ ॥

अन्तःपुरमिति । उपवाहनात् आनयनात् ॥ १।११।२८ ॥

अन्तःपुरस्त्रिय इति । तथागतां तादृशवैभवयुक्ताम् ॥ १।११।२९३० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायामेकादशः सर्गः ॥ ११ ॥