सुमन्त्रश्चोदित इति । मे मत्तः ॥ १।१०।१२ ॥
ऋश्यशृङ्ग इति । विषयाणां शब्दादीनां सुखस्य विषयसुखस्य च ॥ १।१०।३ ॥
इन्द्रियार्थैरिति । नरचित्तप्रमाथिभिः नरचित्तक्षोभकरैर्हेतुभिः । अध्यवसीयतां निश्चीयताम् ॥ १।१०।४६ ॥
वारमुख्या इति सार्धश्लोकमेकं वाक्यम् । अस्मिन् दर्शने ऋष्यशृङ्गदर्शनस्य बुद्धिस्थत्वादस्मिन्निति निर्देशः । कुर्वन्ति अकुर्वन् ॥ १।१०।७ ॥
पितुरिति । पितुः सन्तुष्टः । पितुरिति तृतीयार्थे षष्ठी । विषयान्तरानपेक्ष इति यावत् । नातिचक्राम न निरगात् ॥ १।१०।८९ ॥
तत इति । यदृच्छया दैववशात् ॥ १।१०।१० ॥
क इति । किं वर्तसे कस्माद्धेतोर्वर्तसे ॥ १।१०।१२ ॥
अदृष्टरूपा इति । ताः स्त्रियः वने तेन यतो ऽदृष्टरूपाः अतः हार्दात् कौतूहलात् ॥ १।१०।१३ ॥
पितेति । कर्म तपोरूपम् ॥ १।१०।१४ ॥
इहेति । इह आश्रमपदे इति लिङ्गव्यत्यय आर्षः । ऋश्यशृङ्गस्य स्त्रीस्वरूपापरिज्ञानात् सर्वेषामिति पुँल्लिङ्गनिर्देशः । शुभदर्शना इति सम्बोधनम् ॥ १।१०।१५१७ ॥
प्रतिगृह्येति । ऋषेर्भीताः विभण्डकाद्भीताः ॥ १।१०।१८ ॥
अस्माकमिति । गृहाण प्रतिगृहाण । माचिरमित्यूचुः । अविलम्बेन ऋषेरागमनात्पूर्वमेव भक्षणीयमित्यभिप्रायः ॥ १।१०।१९२१ ॥
आपृच्छ्येति । व्रतचर्यां नियमाचरणम् । अपदेशात् व्रतचर्याव्याजात् ॥ १।१०।२२ ॥
गतास्विति । दुःखात् तासां विश्लेषजात् ॥ १।१०।२३२५ ॥
एहीति । एष विधिः पूर्वेद्युः कृतो भक्षणप्रदानादिरूपसत्कारः । तत्रापि भविष्यतीति चाब्रुवन्निति सम्बन्धः ॥ १।१०।२६२८ ॥
वर्षेणेति । प्रह्वः विनीतः ॥ १।१०।२९ ॥
अर्ध्यं चेति । वव्रे प्रसादमिति गणिकामुखेनायं व्रती अभ्यानीतः, अतश्शपेदिति भीतः ऋश्यशृङ्गत्प्रसादं वव्रे । अनुगृहाणेत्ययाचतेत्यर्थः । प्रसादप्रार्थनायाः फलमाह मेति । विप्रमृश्यशृङ्गं मन्युर्नाविशत् । यद्वा नाविशदित्यत्र नाविशत्विति लकारव्यत्ययः । इतिशब्दश्चाध्याहार्यः । तथाचेत्थं योजना विप्रं विभण्डकं मन्युर्नाविशत्विति विप्रेन्द्रात् ऋश्यशृङ्गादेवं प्रसादं वव्रे, त्वदानयनेन
त्वत्पितुर्विभण्डकस्य मयि मन्युर्यथा नोदेति तथा स त्वया प्रार्थनीय इति ऋश्यशृङ्गमेव नराधिपः प्रार्थयामासेति ॥ १।१०।३० ॥
अन्तःपुरमिति ॥ अन्तःपुरं प्रविश्य प्रवेश्य ॥ १।१०।३१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां दशमः सर्गः ॥ १० ॥