एतच्छुत्वेति । एतत् सुतार्थं हयमेधं करिष्यामीति राजवाक्यम्, सूतः सुमन्त्रः । तत्किमित्यत आह ऋत्विग्भिरिति । अयमश्वमेधरूपप्रकारः । ऋत्विग्भिर्वसिष्ठादिभिः, पुरावृत्तः इतिहासलक्षणः ॥ १।९।१३ ॥
स वन इति । नान्यं जानातीति भविष्यदर्थे लट् ॥ १।९।४ ॥
द्वैविध्यमिति । द्वैविध्यं ब्रह्मचर्यस्येति द्वैविध्यं विभागः, गृहस्थो भविष्यतीत्यर्थः । लोकेषु प्रथितं ब्रह्मचर्यं दैविध्यमित्यनुषङ्गः । यद्वा विवाहात्पूर्वं तत्परं चेति ब्रह्मचर्यद्वैविध्यम् । विवाहात्परं ब्रह्मचर्यं कथं सङ्घटत इति चेत्, नियतकालभार्योपगमस्यापि ब्रह्मचर्यरूपत्वात् ॥ १।९।५ ॥
तस्येति । कालः समभिवर्तत इति भविष्यदर्थे लङ् ॥ १।९।६७ ॥
तस्येति । व्यतिक्रमात् विधिनिषेधोल्लङ्घनात् । सुदारुणा बहुकालव्यापिनी, सुघोरा स्वकीयसर्वराष्ट्रव्यापिनी, अत एव सर्वभूतभयावहा ॥ १।९।८१२ ॥
तेषामिति । वीर्यवान् वशीकृतेन्द्रियः ॥ १।९।१३ ॥
तत इति । ततः प्रेष्यति प्रेषयिष्यति ॥ १।९।१४ ॥
ते त्विति । न गच्छेम इत्यत्र इतिशब्दो द्रष्टव्यः ॥ १।९।१५ ॥
वक्ष्यन्तीति । दोषः तपोवैकल्यादिरूपः अनावृष्टिरूपदोषो वा ॥ १।९।१६ ॥
एवमङ्गाधिपेनेत्यादि सुमन्त्रवचनम् । यथा आनेष्याम इति तैरुक्तम् एवमानीतः । प्रदीयते प्रादीयतेति भूतार्थे लट् ॥ १।९।१७ ॥
ऋश्यशृङ्ग इति । एतावद्व्याहृतम् एतावन्मात्रमेव कथितम्, न समस्तं विशेषतश्च वक्ष्यते ॥ १।९।१८१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां नवमः सर्गः ॥ ९ ॥