तस्य त्वेवमिति । तप्यमानस्य पुत्रानुगुण्यदृष्टसामग्रीसद्भावे ऽपि पुत्रालाभात्परितप्यमानस्य ॥ १।८।१ ॥
चिन्तयानस्येति । चिन्तयानस्य पुत्रोत्पत्त्युपायं मार्गमाणस्य, न यजामि न यक्ष्ये ॥ १।८।२ ॥
स इति । निश्चितां निश्चितार्थाम् ॥ १।८।३४ ॥
तत इति । त्वरितविक्रमः त्वरितगमनः । सर्वान् गुरून् तान् समस्तान् वेदपारगांश्च ॥ १।८।५६ ॥
तानिति । धर्मार्थसहितं धर्मप्रयोजनसहितम्, श्लक्ष्णं मनोहरम् ॥ १।८।७ ॥
ममेति । लालप्यमानस्य भृशं विलपतः ॥ १।८।८ ॥
तदहमिति । शास्त्रदृष्टेन शास्त्रोक्तेन, कर्मणा क्रियाकलापेन । बुद्धिरत्रेत्यत्र बुद्धिरुपायपरः निश्चयपरो तुष्टुवुः ॥ १।८।९११ ॥
सर्वथेति । धार्मिकी धर्मप्रयोजना ॥ १।८।१२१३ ॥
सम्भारा इति । अत्र समर्थशब्देन “शतं कवचिनः” इत्यादिकल्पसूत्रोक्तोग्रसूतग्रामण्यादय उच्यन्ते । उपाध्यायशब्देन अध्वर्युप्रभृतयश्चत्वारः प्रधाना ऋत्विज उच्यन्ते ॥ १।८।१४ ॥
सरय्वा इति । शान्तयः विघ्ननिवारककर्माणि । यथाकल्पम्, यथाक्रमम् “क्रमस्तु कथ्यते कल्पे” इति भागुरिः । यथाविधि शास्त्रानतिक्रमेण ॥ १।८।१५ ॥
शक्य इत्यादि । सर्वेण येन केनापि । अपराधः मन्त्रलोपक्रियालोपादिरूपः, कष्टः अनर्थकरः
अपराधो यदि न स्यात् येन केनापि प्राप्तुं शक्यत इत्यर्थः । अपचारसमुद्भवादनन्य सुलभ इत्यर्थः ॥ १।८।१६ ॥
छिद्रं हीति । छिद्रम् अपचारं यज्ञादिषु मन्त्रलोपक्रियालोपादिना राक्षसत्वं प्राप्ता ब्राह्मणा ब्रह्मराक्षसा इत्युच्यन्ते ॥ १।८।१७ ॥
तद्यथेति । विधिपूर्वं शास्त्रोक्तप्रकारेण छिद्रान्वेषिणां ब्रह्मराक्षसानामवकाशो यथा न भवेत् तथा कर्तव्यमिति भावः । समर्थाः, यूयमिति शेषः ॥ १।८।१८ ॥
तथेति । यथाज्ञप्तम् आज्ञानतिक्रमेण ॥ १।८।१९ ॥
तथा द्विजा इति वर्धयन्तः, आशीर्भिरिति शेषः ॥ १।८।२० ॥
विसर्जयित्वेति । क्रतुः क्रतुसम्भारः । आप्यतां समापद्यताम् ॥ १।८।२१२२ ॥
पत्नीः यज्ञार्हाः ॥ १।८।२३२४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टमस्सर्गः ॥ ८ ॥