तस्यामात्या इति । गुणैः प्रज्ञादिभिः मन्त्रज्ञा राजकार्यविचारात्मकं मन्त्रं जानन्तीति तथा । प्रियस्य राज्ञः हिते रताः । इङ्गितज्ञाः मुखविकासादिलिङ्गैः पराभिप्रायवेदिनः ॥ १।७।१ ॥
अष्टाविति । शुचयश्चानुरक्ताश्च राज्यकार्येषु नित्यशः इत्यनेन स्वप्रयोजनं विहाय स्वामिकार्यनिरतत्वमुच्यते ॥ १।७।२३ ॥
ऋत्विजाविति । प्रधानऋत्विजोर्वसिष्ठवामदेवयोरपि मन्त्रिमध्ये पाठात्, मन्त्रपर्यालोचनायामप्यन्तर्भावो द्योत्यते ॥ १।७।४ ॥
विद्येति । विद्याविनीताः विद्यया विनीताः । शस्त्रज्ञाः शस्त्रप्रयोगप्रतिपादकधनुर्वेदविद इत्यर्थः । दृढविक्रमाः शास्त्रप्रयोगादिना दृढपराभिभवसामर्थ्यवन्तः । प्रणिहिताः सर्वेष्वपि कार्येषु सावधानाः । कामार्थहेतोः कामहेतोरर्थहेतोरिति हेतुशब्दः प्रत्येकं सम्बध्यते ॥ १।७।५६ ॥
तेषामिति । चारेण हेतुना अविदितं किञ्चिन्नास्तीति सम्बन्धः । स्वेषु नास्ति परेषु वा स्वकीयेषु शत्रुषु वा दूतमुखेन सर्वं जानन्तीत्यर्थः ॥ १।७।७ ॥
कुशला इति । सौहृदेषु मित्रभावेषु । प्राप्तकालम् अवसरप्राप्तं दण्डम् ॥ १।७।८ ॥
कोशोति । कोशसङ्ग्रहणे अर्थसम्पादने अहितमप्यदूषकम् अनपराधिनम्, न विहिंस्युः, शत्रुमप्यनपराधिनं न दण्डयन्तीत्यर्थः ॥ १।७।९ ॥
वीराश्चेति । राजशास्त्रमनुष्ठिताः नीतिशास्त्रानुसारिणः ॥ १।७।१० ॥
ब्रह्मेति । अभिपूरयन्निति अडभाव आर्षः । पुरुषस्य बलाबलं सम्प्रेक्ष्य, सुतीक्ष्णदण्डाः “देशकालवयःशक्तीस्सञ्चिन्त्या द्दण्डकर्मणि” इति वचनात् ॥ १।७।११ ॥
शुचीनामित्यादौ भावलक्षणे सप्तम्यर्थे षष्ठी । एकबुद्धीनामैकमत्यवतां सर्वेष्वमात्येष्वैकमत्यमुपगतेषु सत्सु पुरे राष्ट्रे वा मृषावादी नरो नास्तीति योजना ॥ १।७।१२ ॥
प्रशान्तम् निर्बाधम् ॥ १।७।१३ ॥
अमात्यानेव विशिनष्टि सुवासस इति ॥ १।७।१४ ॥
गुणेति । गुणागुणगृहीताः गृहीतगुणदोषाः । अयं गुणवान् अयं दोषवानिति ज्ञानवन्तः ॥ १।७।१५ ॥
सन्धीति । मन्त्रसंवरणे मन्त्ररक्षणे सूक्ष्मासु बुद्धिषु शक्ताः सूक्ष्मार्थविषयेषु निश्चयेषु शक्ताः ॥ १।७।१६१८ ॥
अवेक्षमाण इति । स्वेषु परेषु च वृत्तान्तमिति शेषः ॥ १।७।१९ ॥
विश्रुत इति । सत्यप्रतिज्ञः ॥ १।७।२० ॥
नेति । नाध्यगच्छत् न ज्ञातवान् । प्रतापाहतकण्टकः इति पाठे प्रतापेन समन्तान्निहतकण्ठक इत्यर्थः ॥ १।७।२१ ॥
तैरिति । मन्त्रहिते निविष्टैः मन्त्रे हिते च निविष्टैः कुशलैः, सूक्ष्मार्थदर्शननिपुणैः समर्थैस्तत्साधनशक्तैः गोभिर्मयूखैस्तेजोमयैः पराभिभवसामर्थ्यप्रचुरैर्मन्त्रविशेषमेतत् ॥ १।७।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तमः सर्गः ॥ ७ ॥