तस्यामिति । सर्ववित् सर्वज्ञः । सर्वसङ्ग्रहः सर्वान् सङ्गृह्णाति वशीकरोतीति तथा ॥ १।६।१ ॥
इक्ष्वाकूणामिति । वशी नियतेन्द्रियः ॥ १।६।२४ ॥
तेनेति । सत्याभिसन्धेन सत्यप्रतिज्ञेन ॥ १।६।५६ ॥
नाल्पसन्निचय इति । सतामुत्कृष्टधनानां निचयः सन्निचयः अल्पः सन्निचयो यस्मात्तथा स नास्ति, अगवाश्वधनधान्यवानिति छेदः ॥ १।६।७ ॥
कामीति । कामी कामैकपरः । कदर्यः अतिलोभी, आत्मानं पुत्रादींश्च यो वञ्चयति स कदर्यः । शक्यमिति वस्तुसामान्येन नपुंसकलिङ्गनिर्देशः ॥ १।६।८९ ॥
नाकुण्डलीति । अमृष्टः अनिर्मलशरीरः, शोभनो गन्धः स्वाभाविकशरीरामोदो यस्य । निष्कमुरोभूषणम् ॥ १।६।१०११ ॥
नेति । अयज्वानाम यागरहितः, आहिताग्निः केवलाग्न्याधानवान् । निर्वृत्तः सङ्करः वर्णसङ्करो यस्य ॥ १।६।१२ ॥
परिग्रहे स्वभार्यायां संयताः नियताः ॥ १।६।१३ ॥
नेति । अनृतः अनृतवादी ॥ १।६।१४ ॥
नेति । क्षिप्तचित्तः विक्षिप्तचित्तः ॥ १।६।१५१६ ॥
प्रथमं राजानं स्तुत्वानन्तरं ब्राह्मणप्रशंसा कृता । इदानीं क्षत्रियादयस्त्रयो वर्णाः प्रशस्यन्ते वर्णेष्वग्र्यचतुर्थेष्वित्यादित्रिभिः श्लोकैः । अग्र्या ब्राह्मणाश्चतुर्था येषां वर्णानां ते अग्र्यचतुर्थाः ॥ १।६।१७१८ ॥
क्षत्रमिति । क्षत्रं ब्रह्ममुखं ब्राह्मणानुवर्तीत्यर्थः । वैश्याः क्षत्रमनुव्रताः क्षत्रस्यानुसारिणः, त्रीन् वर्णान् त्रयाणां वर्णानामुपचारिणो ऽभवन्निति शेषः ॥ १।६।१९२० ॥
योधानामिति । योधैः पूर्णेत्यर्थः । पेशलानां कुशलानां कृतविद्यानामभ्यस्तविद्यानाम् ॥ १।६।२१ ॥
काम्भोजेति । वनायुजैः वनायुदेशजातैर्हरिहयोत्तमैः हरिहयः उच्चैःश्रवाः तद्वदुत्तमैः, नदीजैः सिन्धुनदीसमुद्भवैः ॥ १।६।२२२४ ॥
विन्ध्यहिमवदादिजातानां गजानां सङ्कीर्णानां च सम्पत्तिमाह भद्रैरिति । भद्रादयो गजविशेषाः । यथाह हलायुधः “भद्रो मन्द्रो मृगश्चेति वित्रेयास्त्रिविधा गजाः” इति । भद्रमन्द्रमृगः त्रिप्रकृतिकः सङ्कीर्णो गजः, तथा भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्च ॥ १।६।२५ ॥
सा योजनेति । सा पुरी अन्तर्द्वयोर्योजनयोर्भूयः सत्यनामा अतिशयेन योद्धुमशक्येत्यन्वर्थनामेत्यर्थः ॥ १।६।२६२७ ॥
तामिति । दृढतोरणार्गलाम् अर्गलंनाम कवाटावष्टम्भक तिर्यक्स्थापितो दारुविशेषः ॥ १।६।२८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्ठः सर्गः ॥ ६ ॥