एवं सर्गचतुष्टयेन उपोद्धातमुक्त्वा “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्यालङ्कारिकोक्तेः काव्यमुखे क्रियमाणं वस्तु निर्दिशति सर्वापूर्वमिति । इयं कृत्स्ना वसुन्धरा प्रजापतिं वैवस्वतमनुमुपादाय आरभ्य येषां नृपाणामधीना पूर्वमासीत्, अविद्यमानः पूर्वो यस्मादपूर्वं सर्वेषां राज्ञामपूर्वम् । प्रथममिति यावत् । क्रियाविशेषणमेतत् ॥ १।५।१ ॥
येषामिति । किञ्च येषां राज्ञां मध्ये सगरो नाम । जात इत्यध्याहारेण योजना । ऽसागरो येन खानितःऽ इति समुद्रस्य सागरशब्दप्रवृत्तिरपि यदधीनेति भावः । यान्तं दिग्विजयार्थं गच्छन्तं यं सगरं षष्टिः पुत्रसहस्राणि पर्यवारयन् ॥ १।५।२ ॥
तेषामिक्ष्वाकूणां वंशे रामायणमिति महदाख्यानमुत्पन्नमिति योजना । राममयति ज्ञापयतीति रामायणम् । ऽअय पय गतौ । सर्वे गत्यार्था ज्ञानार्थाः ॥ १।५।३ ॥
तदिदमिति । धर्मकामार्थसहितं धर्मकामार्थप्रतिपादकम्, इदं तु अवान्तरफलाभिप्रायेणोक्तम्, वस्तुतो मोक्ष एव परमफलम् । सर्वं निखिलं काव्यं प्रतिपाद्यार्थेषु ऐकार्थानुक्तावपि सर्वशब्दप्रयोगसम्भवात् निखिलमित्युक्तम् । वर्तयिष्यामि, श्रोतव्यमिति तव्यप्रत्ययेन रामायणस्य श्रवणविधिः, श्रूयमाणत्वेनाश्रवणे प्रत्यवायसम्भवात् । धर्मकामार्थसहितं धर्मकामार्थप्रदमित्यनेनास्यैव सर्वपुरुषार्थसाधनत्वाच्चान्यत्सर्वं परित्यज्येदमेवात्यादरेण श्रोतव्यमिति तात्पर्यम् । अनसूयया असूयामकुर्वता, अनेन श्रीरामायणश्रवणे असूयाराहित्यमात्रमेव अधिकारिविशेषणमित्युक्तं भवति ॥ १।५।४ ॥
कोसल इति । परमधार्मिकेक्ष्वाकुवंशराज्यपरिपालनेन प्रभूतधनधान्यवान् अत एव स्फीतः पुष्टः, मुदितः तुष्टः, सरयूतीरे निविष्टः स्थितः जनपदो देशो ऽस्तीति शेषः ॥ १।५।५ ॥
अयोध्येत्यादिश्लोकत्रयमेकं वाक्यम् । तत्र सरयूतीरे आयता दश च द्वे च,द्वादशयोजनायतेति यावत् । पुरीमावासयामास वासं कृतवान् ॥ १।५।६१० ॥
सूतेति । सूतमागधसम्बाधाम् सूताः स्तोत्रपाठकाः, मागधाः वंशशंसकाः । शतघ्नीनाम् प्राकारसंरक्षणार्थं निर्मितो यन्त्रविशेषः ॥ १।५।११ ॥
वध्वीति । वधूनाटकसङ्घैश्च नाटयन्तीति नाटकाः नर्तकाः वधूनां नाटकानां सङ्घैश्च । उद्यानाम्रवणोपेताम् क्रीडार्थमसाधारणत्वेन निर्मितान्युद्यानानि, आम्रवणानि तु सर्वजनोपभोग्यत्वेन कल्पितानि । सालमेखलाम्, प्राकारमेखलाम् ॥ १।५।१२ ॥
दुर्गेति । दुर्गगम्भीरपरिघां दुर्गा गम्भीरा परिघा यस्यां ताम् अत एव दुर्गाम् ॥ १।५।१३ ॥
सामन्तेति । बलिकर्मभिरिति सामन्तराजसङ्घविशेषणम् । बलिकर्मभिः बलिप्रदैरित्यर्थः ॥ १।५।१४ ॥
प्रासादैरिति । रत्नविकृतैः रत्ननिर्मितैः । कूटागारैः कूटाख्यैरगारैः ॥ १।५।१५ ॥
चित्रामिति । अष्टापदाकारां द्यूतफलकाकारां स्वर्णाकारां वा । विमानगृहशोभितां विमानतुल्यैर्गृहैरुपशोभिताम् ॥ १।५।१६ ॥
गृहेति । गृहगाढां गाढगृहाम्, अच्छिद्रां निरन्तराम्, इक्षुकाण्डरसोदकाम् इक्षुकाण्डरससदृशोदकाम् ॥ १।५।१७ ॥
दुन्दुभीभिरिति । भृशं नादिताम् अत्यर्थमनुत्तमामिति भृशात्यर्थशब्दयोः सम्बन्धः ॥ १।५।१८ ॥
विमानमिति । सुनिवेशितवेश्मान्ताम्, सुष्ठु निवेशिताः वेश्मनामन्ताः प्रदेशाः यस्यां ताम् ॥ १।५।१९ ॥
ये च बाणैरित्यादि । विविक्तं सहायरहितम् । अपरापरं परे पित्रादयः, अपरे पुत्रादयः तैर्हीनम्, वंशस्यैकतन्तुमिति यावत् । शब्दवेध्यं शब्देन ज्ञात्वा वेद्धुं योग्यम्, अनेन प्रच्छन्नवेधनमुपलक्ष्यते । अपरस्परदर्शिन एव विध्यन्तीत्यर्थः । विततं भीत्या समूहात्पलायितम्, लघुहस्ताः शीघ्रवेधिनः । ये विविक्तादीन् बाणैर्न विध्यन्ति तैर्महारथैरभिपूर्णामित्युत्तरत्र सम्बन्धः । बलात् कायबलात् । बाहुबलैरस्त्रशिक्षालब्धभुजबलैः ॥ १।५।२०२२ ॥
तामिति । अग्निमद्भिः आहिताग्निभिः । गुणवद्भिरनसूयादिगुणयुतैः । केवलैः मुख्यैः ॥ १।५।२३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५ ॥