प्राप्तराज्यस्येति । सम्बन्धसामान्ये षष्ठी । “ते वयं भवता रक्ष्या भवद्विषयवासिनः” इति ऋषिभिरेवोक्तत्वात् रामस्य विषये वसन् वाल्मीकिरित्यर्थाल्लभ्यते । चरितं चरित्रप्रतिपादकं काव्यम् ॥ १।४।१ ॥
चतुर्विंशदिति । शतशब्दः पुन्नपुंसकः । ऽचतुर्विंशत्सहस्राणिऽ इति श्लोकपरिगणनं तपःस्वाध्यायेत्यारभ्य तद्ब्रह्माप्यन्वमन्यतेत्यन्तस्य श्लोकसमुदायस्य । सर्गशतान् पञ्चेत्येतत् षट्काण्डानामेव, न तु सोत्तराणाम् । तथाहि श्रीमद्बालकाण्डे द्विसहस्रादुपरि द्विशतं चाशीतिर्ग्रन्थाः (२२८०), श्रीमदयोध्याकाण्डे चतुस्सहस्राणि चतुःशतानि पञ्चदशग्रन्थाः (४४१५), श्रीमदारण्यकाण्डे द्विसहस्रादुपरि सप्तशतानि द्वात्रिंशद्ग्रन्थाः (२७३२), श्रीमत्किष्किन्धाकाण्डे द्विसहस्रादुपरि षट्शतानि विंशतिग्रन्थाः (२६२०), श्रीमत्सुन्दरकाण्डे त्रिसहस्रादुपरि षट् ग्रन्थाः (३००६), श्रीमद्युद्धकाण्डे पञ्चसहस्राणि नवशतानि नवतिश्चग्रन्थाः (५९९०), श्रीमदुत्तरकाण्डे त्रिसहस्राणि द्विशतं सप्तसप्ततिश्च ग्रन्थाः (३२७७) । अत्र यदेतधिकं सप्तसप्तत्युत्तरद्विशतं तत्रिष्टुब्जगत्यादिछन्दोवृत्तानामक्षराधिक्येन जनितम् । सर्गास्तु श्रीमद्बालकाण्डे सप्तसप्ततिः (७७), श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशतम् (११९), श्रीमदारण्यकाण्डे पञ्चसप्ततिः (७५), श्रीमत्किष्किन्धाकाण्डे सप्तषष्टिः (६७), श्रीमत्सुन्दरकाण्डे ऽष्टषष्टिः (६८), श्रीमद्युद्धकाण्डे एकत्रिंशदुत्तरशतम् (१३१), तदेवं पञ्चशतानि सप्तत्रिंशत्सर्गाः । श्रीमदुत्तरकाण्डे तु दशोत्तरशतम् (११०), षट्काण्डानि तथोत्तरमिति उत्तरकाण्डस्य काण्डैः सहाकथनमादरातिशयेन । तथाहि यद्यप्यत्र काण्डेषु रामस्य परत्वानुसन्धानम्, तथापि उत्तरकाण्डे प्राचुर्येण परत्वाभिव्यक्तिः । कोसलानां सर्वेषामपि भगवता सह तल्लोकप्राप्तिश्च अपरो ऽतिशयो गम्यते, अत एव सर्वोत्तरत्वात्तस्य उत्तरकाण्डत्वसञ्ज्ञा ॥ १।४।२ ॥
कृत्वामीति । भविष्यम् सीताभूप्रवेशकुपितं श्रीराममुद्दिश्य ब्रह्मणावशेषं कार्यं श्रृण्वित्युक्तम् “प्रविष्टायां तु वैदेह्यं भूतलं सत्यसंसदि” इत्याद्यवशिष्टं काव्यम् । प्रयुञ्जीयात् पठितुं शक्नुयात् ॥ १।४।३ ॥
तस्येति । भावितात्मनः शुद्धचित्तस्य । कुशीलवौ कुशलवौ ॥ १।४।४ ॥
कुशीलवाविति । कुशीलवौ गायकौ । पृषोदरादित्वात्साधुः । कुशलवौ ददर्श । वाल्मीकिरिति शेषः ॥ १।४।५ ॥
स त्वित्यादिश्लोकद्वयमेकं वाक्यम् । वेदोपबृंहणार्थाय वेदार्थव्यक्तीकरणाय । सीतायाश्चरितं पौलस्त्यवधमिति यच्चकार तत्काव्यं तावग्राहयतेति योजना ॥ १।४।६७ ॥
पाठ्ये गेये चेत्यारभ्य रामदेहात्तथापरावित्यन्तं कुलकम् । पाठ्ये गेये च मधुरम् पाठ्यं स्वरूपोच्चारणमात्रम्, गेयं स्वरविशेषसमन्वितं गानम्, प्रमाणैस्त्रिभिरन्वितम्, प्रमाणानि गानध्वनिपरिच्छेदकानि त्र्यश्रचतुरश्रसञ्ज्ञिकानि द्रुतमध्यविलम्बितानि वा, जातिभिः सप्तभिर्बद्धम् जातयस्तु शुद्धसङ्कीर्णविकृतरूपाः अष्टादश, तासु प्रधानभूताभिः षड्जादिभिः सप्तजातिभिर्बद्धम् ॥ १।४।८९ ॥
गान्धर्वतत्त्वज्ञैः गान्धर्वं नाम पदावस्थिततालपरिच्छेदयुक्तावधानेन प्रयुक्तषड्जादिस्वरसमुच्चयः । तदाह दत्तिलः “पदस्थस्वरसङ्घातस्तालेन समितस्तथा । प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते ॥ " इति। मूर्च्छनास्थानकोविदाविति मूर्च्छिना षड्जादि स्वरसम्पूर्णता। तदुक्तं शाण्डिल्येन “यत्रैव सुस्वराः पूर्णा मूर्च्छना सेत्युदाहृता।” इति। स्थानम्, ध्वनिविशेषोत्पत्तिस्थानम्, “उरः कण्ठः शिरश्चेति तत्पुनस्त्रिविधं भवेत्। मन्द्रं मध्यं च तारं च नाम
तेषां यथाक्रमम् ॥ " इति। बिम्बादिवेति। प्रतिमानिर्माणार्थं चातुर्येण निर्मिताकारविशेषो बिम्बः, तस्माद्रामदेहाद् बिम्बात् रामदेहाख्याद्बिम्बात् उत्थितावुत्कीर्णौ अपरौ बिम्बाविव आकृतिविशेषाविव स्थितौ। अगायतां जगतुः, अभ्यासं चक्रतुः ॥
१।४।१०११ ॥
तौ राजपुत्राविति सार्धश्लोकमेकं वाक्यम् । सुसमाहितौ तौ काव्यं वाचोविधेयं वाग्वशं कृत्वा एतदगायतामिति सम्बन्धः । सुसमाहितौ तौ राजपुत्रौ तत्र स्वेच्छया अगायतामित्यर्थः ॥ १।४।१२१३ ॥
अथ कदाचिद्वाल्मीकिनियोगात् रामयज्ञवाटगतऋषिसभादिषु ताभ्यां कृतगानप्रकारमाह तौ कदाचिदिति । तौ कदाचित् रामाश्वमेधकाले भावितात्मनां शुद्धचित्तानाम् ॥ १।४।१४ ॥
तदिति । तत् गानम् ॥ १।४।१५१६ ॥
अहो इति । चिरनिर्वृत्तमपि चिरातीतमपि ॥ १।४।१७ ॥
ऋषिकृतप्रशंसानन्तरं पुनस्तयोर्गानप्रकारमाह प्रविश्येति । भावं प्रविश्य सुष्ट्वगायतामिति सम्बन्धः । भावपुरस्कारेण काव्यकर्तुरभिप्रायं हृदि निधाय श्रृङ्गारादिरसाविर्भावो यथा भवति तथा अगायतामित्यर्थः । मधुरं पाठतो गनतश्च, अत एव रक्तं रञ्जनं स्वरसम्पदा ॥ १।४।१८ ॥
एवमिति । एवमुक्तप्रकारेण तैर्मुनिभिः प्रशस्यमानौ तौ संरक्ततरं समीचीनरागयुक्तम् अगायतामिति सम्बन्धः ॥ १।४।१९ ॥
श्रीरामायणश्रवणजनितानन्दानुभवपरवशानां मुनीनां चेष्टामाह प्रीत इति । संस्थितः उत्थितः ॥ १।४।२० ॥
आश्चर्यमिति । आश्चर्यमित्यादिश्लोकत्रयमेकं वाक्यम् । कवीनामाधारमालम्बनभूतम्, यथाक्रमं समाप्तं समाहितम् अभिगीतम् । अभिः पूजार्थे । आयुष्यमायुष्करम्, पुष्टिजनकम् अभ्युदयकारणम्, आश्चर्यमाश्चर्यकरम्, इदमाख्यानं श्रीमद्रामायणम् । हे सर्वगीतेषु कोविदौ युवाभ्यां सर्वश्रुतिमनोहरम् श्रुतयः कान्ताप्रभृतयः ताभिर्मनोहरं यथा तथा गीतम् । रथ्यासु राजमार्गेषु एवं सर्वत्र प्रशस्यमानौ गायकौ कुशीलवौ कदाचिद्भरताग्रजः श्रीरामः ततः रथ्यादिषु ददर्शेत्यन्वयः ॥ १।४।२१२४ ॥
आसीन इत्यादि श्लोकत्रयमेकं वाक्यम् । सिंहासने आसीनः स रामः आत्मरूपसम्पन्नौ आत्मसदृशौ तौ कुशलवौ दृष्ट्वा लक्ष्मणादीन् अनयोर्देववर्चसोः विचित्रार्थपदं विचित्रा अर्थाः पदानि च यस्मिन् तत् इदमाख्यानं श्रूयतामित्युवाच । गायकौ कुशलवौ च समचोदयत् । गायतामिति शेषः ॥ १।४।२५२७ ॥
ताविति । स्वचित्तायतनिस्वनं स्वेच्छानुरूपस्वरायामम्, विश्रुतार्थं प्रसिद्धार्थम् ॥ १।४।२८ ॥
ह्लादयदिति । मनसो ऽधिष्ठानं हृदयम् । श्रोत्राश्रयसुखं श्रोत्रेन्द्रियसुखम् ॥ १।४।२९ ॥
महता प्रबन्धेन उक्तमर्थं श्लोकद्वयेन निगमयति इमावित्यादि । कुशीलवौ गायकौ तथापि महातपस्विनौ । ममापि भूतिकरं श्रेयस्करं चरित्रम् एताभ्यां प्रवक्ष्यते तन्निबोधत ॥ १।४।३० ॥
तत इति । मार्गविधानसम्पदा, मार्गश्च देशी चेति गानप्रकारौ द्वौ । तत्र मार्गस्सार्वत्रिकः, देशी क्वाचित्कः देशविशेषनैरपेक्ष्येण शास्त्रप्रतिपादितो मार्गस्सर्वत्रिकरागप्रकारः । तयोर्मध्ये मार्गनिर्वाहसामग्र्या अगायताम् । स रामः बुभूषया श्रवणानन्दानुभवेच्छया आसक्तमना बभूवेत्यर्थः ॥ १।४।३१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुर्थः सर्गः ॥ ४ ॥