श्रुत्वेति । समग्रं वस्तु कृत्सं रामचरितम्, नारदोक्तं श्रीरामचरितरूपं वस्तु तत्त्वं श्रुत्वा प्रपञ्चेन वक्तुं यथा व्यक्तं भवति तथा अन्वेषते विचारयति स्म । लडार्षः ॥ १।३।१ ॥
उपस्पृश्येति । धर्मेण चतुर्मुखप्रसादरूपेण, गतिं रामवृत्तम् ॥ १।३।२ ॥
रामलक्ष्मणेत्यादि श्लोकद्वयमेकं वाक्यम् । राज्ञा तत्र राष्ट्रे । तत्त्वतः यद्वृत्तं जातं धर्मवीर्येण चतुर्मुखप्रसादबलेन यथावत् सम्प्रपश्यति ॥ १।३।३४ ॥
अयोध्यानिवासकाले यद्वृत्तम् तन्निरीक्षणमभिधाय अयोध्यातो निर्गमनान्तरं वनवासे यद्वृत्तमस्ति तन्निरीक्षणमाह स्त्रीतृतीयेनेति । द्वितीयो लक्ष्मण इत्यवगम्यते ॥ १।३।५ ॥
रामवृत्तस्यान्यतो निरीक्षणमुक्त्वा तस्यैव प्रत्यक्षनिरीक्षणमाह तत इति । निर्वृत्तम् जातम् ॥ १।३।६ ॥
तदिति । (अर्थवित्) अभिरामस्येत्यनेन रामवृत्तकथनस्य रागप्राप्तत्वं द्योत्यते ॥ १।३।७ ॥
कामार्थेति । कामार्थगुणसंयुक्तम् कामप्रयोजकगुणसंयुक्तम् । धर्मार्थगुणविस्तरं धर्मार्थयोरौपयिका ये गुणास्तेषां विस्तरेण प्रतिपादकम् । रत्नाढ्यम् रत्नतुल्यैः पदैरर्थैराढ्यं सम्पूर्णम् । सर्वश्रुतिमनोहरम् सर्वाभिः षड्जादिस्वरसम्बन्धिनीभिः कान्ताप्रभावतीप्रभृतिभिः द्वाविंशतिश्रुतिभिर्मनोहरम्, श्रुतिशब्देन नाडीसमुद्भवस्सुखहेतुर्ध्वनिविशेष उच्यते । यद्वा सर्वश्रुतिमनोहरं सर्वेषां श्रुतीः श्रोत्राणि मनांसि च हरति स्वाभिमुखानि करोतीति तथा । यद्वा सर्वासां श्रुतीनामुपनिषदां
मनो हृदयं तात्पर्यं हरति गृह्णाति प्रतिपादयतीति तथा ॥ १।३।८ ॥
स यथेति । रघुवंशस्य रघुवंशे ऽवतीर्णस्य भगवतो रामस्य ॥ १।३।९ ॥
धर्मवीर्येण स्वेन दृष्टं कृत्स्नं रामचरितं प्रतिपादयिष्यन् “इष्टं हि विदुषां लोके समासव्यासधारणम्” इति न्यायेन प्रतिपत्तिसौकर्यार्थं सङ्क्षिप्य प्रतिपादयति जन्म रामस्येत्यादिना । वीर्यम् स्वयमक्षतस्य पराभिभवनसामर्थ्यम्, सर्वानुकूलतां इष्टानुवर्तनरूपाम्, प्रियतां विश्लेषासहत्वपर्यवसायिनीं प्रीतिविधेयताम्, क्षान्तिम् “उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते” इत्युक्तरूपाम्, सौम्यताम् निरतिशयप्रियदर्शनताम् ॥ १।३।१०११ ॥
रामेति । अभिषेकम् अभिषेकसामग्रीम् ॥ १।३।१२१३ ॥
प्रकृतीनामिति । प्रकृतीनां वञ्चतीनां वञ्चनापूर्वकं विसर्जनं प्रकृतीर्विसर्जयित्वा गमनम्, निषादाधिपसंवादं गुहेन सह सम्भाषणम्, सूतोपावर्तनम् ॥ १।३।१४१५ ॥
वास्त्विति । वास्तुकर्म चित्रकूटे गृहनिर्माणम्, निवेशनम् तत्र गृहे ऽवस्थानम् ॥ १।३।१६ ॥
पादुकेति । पादुकाग्र्याभिषेकम् पादुकाश्रेष्ठयोरभिषेचनम्, नन्दिग्रामनिवासनं नन्दिग्रामे भरतस्य निवसनम् ॥ १।३।१७१८ ॥
अगस्त्यसकाशाद्धनुषो ग्रहणम् ॥ १।३।१९२२ ॥
ऋश्यमूकस्येति । वालिसुग्रीवविग्रहं तयोर्युद्धम् ॥ १।३।२३ ॥
वालिप्रमथनमिति । सुग्रीवप्रतिपादनम् सुग्रीवस्य राज्यसंस्थापनम् । ऽताराविलापं समयम्ऽ इति पाठे शरदि दण्डयात्रा कर्तव्येति रामसुग्रीवयोः सङ्केतः ॥ १।३।२४ ॥
कोपमिति । उपसङ्ग्रहम् वानरमेलनम्, पृथिव्यश्च निवेदनं सुग्रीवेण वानरान् प्रति पृथिवीसंस्थानकथनम् ॥ १।३।२५ ॥
अङ्गुलीयकदानमिति । प्रायेण अनशनेन वानराणामुपवेशनम्, समुद्रसमीपे वासः ॥ १।३।२६२७ ॥
सिंहिकाया इति । लङ्कामलयदर्शनम् लङ्काद्वीपस्थमलयगिरिदर्शनमित्यर्थः । एकस्य विचिन्तनम् एकस्यासहायस्य विचिन्तनम् ॥ १।३।२८ ॥
अवरोधस्य अन्तःपुरस्य ॥ १।३।२९ ॥
अभिज्ञानप्रदानम् अभिज्ञायते ऽनेनेत्यभिज्ञानम् अङ्गुलीयकम्, अभिषेकाभ्युदयं रामाभिषेकोत्सवम् । ऽजन्म रामस्यऽ इत्यादि वैदेह्याश्च विसर्जनम् इत्येतदन्तं चकार भगवानृषिःऽ इति पूर्वेण सम्बन्धनीयम् ॥ १।३।३०३७ ॥
अनागतं चेति । अनागतं यत्किञ्चिदित्यनेन सीताविसर्जनात्पूर्वकालस्य भूयस्त्वम् अनन्तरकालस्याल्पता द्योत्यते ॥ १।३।३८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां तृतीयः सर्गः ॥ ३ ॥