००२ ब्रह्मागमनम्

नारस्येति । तद्वाक्यम् प्रश्नानुरूपमुत्तरम् । श्रुत्वा निशम्य । वाक्ये विशारदो विद्वान्, वाक्यविशेषज्ञ इत्यर्थः । महामुनिः वाल्मीकिः । पूजयामास तद्वाक्यं श्लाघयामासेत्यर्थः ॥ १।२।१२ ॥

स मुहूर्तमिति । मुहूर्तमात्रेणदेवलोकं गते तस्मिन्नित्यर्थः । अवदूरतः आसन्नम् अकर्दममित्यवतरणप्रदेशस्य पङ्कराहित्यमुच्यते ॥ १।२।३४ ॥

अकर्दममिति । निशामय पश्य । मनसः प्रसन्नमात्रेण सादृश्यं विवक्षितम् ॥ १।२।५ ॥

न्यस्यतामिति । इदमेव गङ्गातीर्थमत्यासन्नमपि माध्याह्निककालातिक्रमादगत्वेति शेषः ॥ १।२।६ ॥

एवमिति । प्रायच्छत प्रादात् । नियतःसेवापरः ॥ १।२।७८ ॥

तस्येति । तस्य तीरस्याभ्याशे समीपवनप्रदेशे, चरन्तम् अनपायिनमविश्लिष्टम् । पुँल्लिङ्गत्वमार्षम् ॥ १।२।९ ॥

तस्मादिति । तस्य पश्यत इत्यनादरे षष्ठी ॥ १।२।१०११ ॥

वियुक्तेति । पत्रिणा शोभनपक्षवता सहितेन सङ्गतमनसा, सहचारिणेति पूर्वमुक्तत्वात् सहितेनेति मनःसाहित्यमुच्यते । अस्य श्लोकस्य पूर्वेणान्वयः ॥ १।२।१२ ॥

तथेति । समपद्यत समजायत ॥ १।२।१३ ॥

तत इति । करुणवेदित्वात् सञ्जातकारुण्यत्वात् ॥ १।२।१४ ॥

मानिषादेति । क्रौञ्चहन्तृप्रत्यक्षदृश्यमाननिषादशापरूपो ऽर्थस्तु स्पष्ट एव । मा लक्ष्मीः निषीदत्यस्मिन्निति मानिषादः तत्सम्बोधनम् । हे मानिषाद विष्णो यद्यस्माद्धेतोः क्रौञ्चमिथुनात् मन्दोदरीरावणमिथुनात् एकं काममोहितं रावणम् अवधीः हतवानसि तस्मात् शाश्वतीः समाः अनेकसंवत्सरान् । अत्यन्तसंयोगे द्वितीया । प्रतिष्ठाम् अखण्डितैश्वर्यानन्दावाप्तिम्, अगमः प्राप्नुहि । अनेन अत्र “अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्” इत्युक्तेः रामेण कृतरावणवधरूपः काव्यार्थः काव्यादाववश्यकर्तव्याशीर्वादश्च सूचित इत्यवगन्तव्यम् ॥ १।२।१५ ॥

तस्येति । मिथुनं वीक्षतः पश्यतः ॥ १।२।१६ ॥

चिन्तयन्निति । अस्य शकुनेर्हेतोश्चकार मतिमान्मतिं मानिषादेतिवचनं श्लोको भवत्विति सङ्कल्पं चकार ॥ १।२।१७ ॥

पादबद्ध इति । तन्त्रीलयसमन्वितः तन्त्री वीणागुणः, लयस्तालवेणुमृदङ्गादीनामेककालविरामः, ताभ्यां समन्वितः तन्त्रीलयसमन्वितः, तन्त्र्यामारोप्य वाद्यैस्सह गातुं योग्य इत्यर्थः । शोकार्तस्येति । श्लोको भवतु श्लोकत्वेन प्रथयताम् ॥ १।२।१८ ॥

शिष्य इति । मुनेर्वाक्यं मानिषादेति शापश्लोकम् । प्रतिजग्राह गृहीतवान् ॥ १।२।१९ ॥

स इति । तमेव चिन्तयन्नर्थमवशात् श्लोकोत्पत्तिरूपमर्थम् । उपावर्तत न्यवर्तत ॥ १।२।२०२१ ॥

स प्रविश्येति । ध्यानं क्रौञ्चवधचिन्ताम् एतच्छोकविषयचिन्तां वा ॥ १।२।२२ ॥

आजगामेति । तं मुनिपुङ्गवं शापवाक्यवशात् श्लोक इत्यनूक्तवन्तम् ॥ १।२।२३ ॥

वाल्मीकिरिति । वाग्यतः यतवाक् ॥ १।२।२४ ॥

पूजयामासेति । पाद्यार्ध्यासनवन्दनैः, अत्र वन्दनशब्दःस्तुतिपरः । अनामयं कुशलम्, अव्ययं देवम्, अतः प्रणम्येत्यनेन न पौनरुक्त्यम् ॥ १।२।२५ ॥

अथेति । लोकहितार्थं काव्यं कारयितुमिच्छन् आसनं दत्तवान् ॥ १।२।२६ ॥

उपविष्ट इति । तद्गतेन क्रौञ्चगतेन ॥ १।२।२७ ॥

पापात्मनेति । हन्यात् हन्तुं शक्नुयात् । अकारणात् कारणं विना ॥ १।२।२८ ॥

शोचन्निति । अन्तर्गतमनाः हृद्गते अवशोत्पन्नश्लोकार्थम् एव निवेशितचित्त इत्यर्थः । उपश्लोकम् उपशब्दस्य जगावित्यनेन सम्बन्धः ॥ १।२।२९ ॥

तमिति । प्रहसन् मदाज्ञानुसारेणावतीर्णां सरस्वतीं न जानातीति हासं कुर्वन् ॥ १।२।३० ॥

मच्छन्दादिति । मच्छन्दात् मम सङ्कल्पादेव, न तु स्वतः । रामचरितं त्वया प्रबन्धमुखेन प्रवर्तनीयमित्येवंरूपान्मदीयसङ्कल्पादित्यर्थः । रामस्य चरितं कुरु, रामस्य वृत्तं कथयेत्यत्र प्रथमवाक्यस्य रामचरितकरणमात्रपरत्वम्, द्वितीयवाक्यस्य नारदोक्तिविशेषपरतेत्यपौनरुक्त्यम् ॥ १।२।३१३२ ॥

रहस्यं चेति । अनेन तत्करणयोग्यतादानम् तेन मानिषादेतिवदवशान्निस्सृतापि तव वाक् नान्यथा भविष्यति, किन्तु सत्यैव भविष्यतीति ध्वनितम् ॥ १।२।३३३६ ॥

यावदिति । तावत् तावत्कालपर्यन्तम् । ऊर्ध्वमधश्च ये मल्लोकाः मया सृष्टाः लोकाः तेषु सर्वलोकेषु अप्रतिहतगतिस्सन् सञ्चरिष्यसि, ततः परं मुक्तिं प्राप्स्यसीत्यर्थः ॥ १।२।३७३८ ॥

तस्येति । प्राहुश्च पठन्ति च, पाठेन आनन्दं चान्वभूवन्नित्यर्थः ॥ १।२।३९ ॥

समेति । अनुव्याहरणात्पुनः पुनः पाठात् । श्लोकः श्लोकत्वमागत इति श्लोकः श्लोकत्वेन प्रतिबद्धो ऽभवत् । मुहुर्मुहुः शिष्यैः पठितत्वात् श्लोकः श्लोकत्वं प्राप्त इत्यर्थः ॥ १।२।४० ॥

तस्येति । ईदृशैः मानिषादेति श्लोकप्रकारैः ॥ १।२।४१ ॥

उदारवृत्तार्थपदैः प्रसिद्धैः । उदारधीः महाबुद्धिः ॥ १।२।४२ ॥

तदिति । उपगताः सङ्गताः समासाः सन्धियोगाः सन्धिबन्धाश्चास्मिन्निति तथोक्तम् । समैः अन्यूनातिरिक्तैर्मधुरैर्मनोहरैः उपनतार्थैर्वाक्यैः बद्धम्, वस्तुतस्तु समः सर्वोपादानत्वेन सर्वानुगः, मधुरः आनन्दैकरसः, उपनतः नित्यापरोक्षतया प्राप्तः । “यत्साक्षादपरोक्षाद्ब्रह्म” इति श्रुतेः । अर्थः श्रीरामब्रह्मरूपार्थो येषां तैर्वाक्यै र्बद्धम् । दशशिरसश्च वधम् दशशिरसो वधप्रतिपादकं दशशिरसो वधो ऽस्मिन् काव्ये विद्यत इत्युपचारेण, काव्यं तथोच्यते रघुवरचरितं काव्यं निशामयध्वम् निरीक्षध्वम् ॥ १।२।४३ ॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वितीयः सर्गः ॥ २ ॥