००१ सङ्क्षेपरामायणम्

॥ अथ श्रीवाल्मीकीयरामायणे बालकाण्डम् ॥

परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डल चापमम्बुजभवोग्रेन्द्रादिबर्हीष्टदम् । चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रये ऽखिलजगत्संसारतापापहम् ॥ प्रणम्य नारायणतीर्थदेशिकान् भवानलार्तामृतपूरनीरदान् । करोति रामायणतत्त्वदीपिकां महेशतीर्थाख्यमुनिर्यथामति ॥ नानाटीकास्थवाक्यानि लिख्यन्ते ऽत्र यथामति । सर्वेषां ग्रन्थकर्तृणां लेखको ऽहं न कल्पकः ॥ लिखितान्यत्र तैर्यानि लिख्यन्ते तान्यतो मया । ग्रन्थबाहुल्यभीत्यात्र क्वचिच्छब्दसुशोधनम् ॥ निघण्टुकथनं चार्थः पदानां लिख्यते ऽधुना । सीतारामौ समुद्दिश्य विराधखररावणैः ॥ उक्तानां परुषोक्तीनां वास्तवार्थो ऽत्र वर्ण्यते ॥ ब्रह्मलोकप्रसिद्धं शतकोटिप्रविस्तरं रामचरितं भूलोकवर्तिनां चतुर्णां वर्णानां तापत्रयविमोचनाय सङ्क्षिप्य रचयितुमुद्युक्तः परमकारुणिको ब्रह्मा वाल्मीकिरूपेण भूमौ स्वांशेन समभवत् । तथा च स्कान्दे पार्वतीं प्रति शिववचनम् “वाल्मीकिरभवद्बह्मा वाणी वाक्तस्य रूपिणी । चकार रामचरितं पावनं चरितव्रतः ॥ " इति। एवञ्च ब्रह्मांशभूतो भगवान् प्राचेतसः स्वचिकीर्षितं श्रीरामचरितं गुरुमुखाच्छ्रोतव्यमिति न्यायेन भगवत्कथोपदेशेन स्वगुरुं प्रतीक्षमाण आस्ते स्म। अथ ब्रह्मनियोगेन समागतं भगवन्तं नारदमभ्यर्च्य वाल्मीकिः कोन्वस्मिन्नित्यादि पप्रच्छ। स च देवर्षिः परमेश्वरकथाप्रश्नमुदितमनाः श्रीरामचरितं सङ्क्षिप्य वाक्यरूपेणोपदिश्य जगाम। तदनु तमसातीरमुपसृत्य चरतो व्याधविद्ध क्रौञ्चदर्शनजनितशोकस्य वाल्मीकेर्वदनान्मानिषादेति श्लोक उदभूत्। ततः स्वाश्रममागत्य तमेवानुसन्दधानः सविस्मयमास्त। अथ भगवांश्चतुर्मुख आगत्य “मच्छन्दादेव ते ब्रह्मन्” इत्यभिधाय ऽरामचरितं सर्वं विदितं भवतुऽ इति वरं प्रदाय पद्यैरेव रामायणं कुर्वित्युपदिश्य स्वधाम जगाम। अथ चतुर्विंशत्यक्षरगायत्र्याख्यपरब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रैः श्लोकैश्चकार। तदिदं व्याक्रियते तपःस्वाध्यायेत्यादिः गायत्रीवर्णसहितश्लोकसङ्केतः “चतुर्विंशतिसङ्ख्याका गायत्रीवर्णसंयुताः। ये श्लोकाः सन्ति तानत्र विलिखामि यथाक्रमम् ॥

श्लोके च प्रतिसाहस्रं प्रथमे प्रथमे क्रमात् । गायत्र्याक्षरमेकैकं स्थापयामास वै मुनिः ॥ गायत्र्यास्त्रीणि चत्वारि द्वे द्वे त्रीण्यथ षट् क्रमात् । चत्वारि सप्तकाण्डेषु स्थापितान्यक्षराणि तु ॥ " तत्र तदिति गायत्र्याः प्रथमाक्षरम् तपःस्वाध्यायेति। अत्र तपःशब्देन चित्तप्रसादहेतुभूतं व्रतनियमोपवासादि कर्मोच्यते, “यस्य ज्ञानमयं तपः” इति श्रुतेः। तपःशब्देन ब्रह्मविषयकज्ञानमुच्यते। स्वाध्यायशब्देन फलवदर्थावबोधपर्यन्ताध्ययनमुच्यते। तयोर्निरतम् एकाग्रचित्तम्, अनेन ऽतप आलोचनेऽ इति धातोरुत्पन्नेन तपःशब्देन ज्ञानपर्यायेण “सत्यं ज्ञानमनन्तं ब्रह्म” इति ब्रह्मस्मरणात् विशिष्टेष्टदेवतास्मरणरूपं मङ्गलं कृतमित्यनुसन्धेयम्। तपस्वी प्रशस्ततपाः। वल्मीकस्यापत्यं वाल्मीकिः। तदुक्तं ब्रह्मवैवर्ते “अथाब्रवीन्महातेजा ब्रह्मा लोकपितामहः। वल्मीकप्रभवो यस्मात्तस्माद्वाल्मीकिरित्यसौ ॥

" इति । नारदम् नरः परमात्मा, तदुक्तम् “नरतीति नरः प्रोक्तः परमात्मा सनातनः” इति । तस्य सम्बन्धि नारम्, परमात्मविषयकं ज्ञानं ददाति उपदिशतीति नारदः । यद्वा नराणां सम्बन्धि नारम् अज्ञानम् तत् द्यति खण्डयति विज्ञानोपदेशेनेति नारदः । तथा चोक्तं नारदीये “गायन्नारायणकथां सदा पापभयापहाम् । नारदो नाशयन्नेति नृणामज्ञानजं तमः ॥ " इति ॥

१।१।१ ॥

को न्विति । गुणवान् अत्र गुणशब्देन दृष्टगुणव्यतिरिक्तप्रशस्ता गुणा उच्यन्ते । प्रश्नप्रतिवचने दृष्टगुणव्यतिरिक्तप्रशस्तगुणप्रतिपदनात् । येन स्वयमक्षतस्सन् परान् जयति तद्वीर्यम्, तद्वान् । धर्मज्ञः

सामान्यविशेषरूपधर्मज्ञः । कृतज्ञः येन केनचित् स्वस्मै किञ्चिदपि कृतमुपकारं बहुतया जानातीति कृतज्ञः । सत्यवाक्यः सर्वावस्थास्वपि सत्यवचनः । दृढव्रतः फलपर्यन्तं प्रारब्धव्रतापरित्यागशीलः ॥ १।१।२ ॥

चारित्रेणेति । चरित्रमेव चारित्रं कुलक्रमागताचारः, तेन युक्तः । सर्वभूतेषु को हित इत्यनेन सापराधेष्वपि हितकरणशील इत्युक्तं भवति । विद्वान् विदितसकलवेद्यः । समर्थः अनन्यनिर्वाह्यकार्यनिर्वहणशक्तः । कश्चैकप्रियदर्शनः एकमद्वितीयं प्रियं दर्शनं यस्य सः । प्रियस्य विषयद्वारकत्वात् असदृशावयवाभिरूप्य इत्यर्थः ॥ १।१।३ ॥

आत्मवानिति । आत्मवान् वशीकृतान्तःकरणः, यद्वा धृतिमान् । जितक्रोधः अत्र क्रोधशब्दः कामादीनामुपलक्षकः, जितारिषड्वर्ग इत्यर्थः । द्युतिमान् प्रशस्तकान्तिमान् । अनसूयकः गुणेषु दोषाविष्करणमसूया, तद्रहितः । कस्य संयुगे देवाश्च बिभ्यति, चकारादसुरादयश्च ॥ १।१।४ ॥

एतदिति । एतत् उक्तगुणकं नररूपं वस्त्वित्यर्थः ॥ १।१।५ ॥

श्रुत्वेति । एतत् पूर्वोक्तं प्रश्नजातम् । त्रिलोकज्ञः त्रिलोकगोचरज्ञान इत्यर्थः । आत्मन्त्र्य ऐकाग्र्यसिद्ध्यर्थमभिमुखीकृत्य, प्रहृष्टः कस्य बिभ्यति देवाश्चेति दृष्टदेवादि भीषकत्वगुणसम्पत्तेः ब्रह्मादिष्वप्रसक्तो ऽयं प्रश्नः सकलगुणविशिष्टसार्वभौमविषयक इत्यवगम्यते, तत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसम्पत्तेरसम्भवात्सकलजगद्रक्षणार्थं नृरूपेणावतीर्णे परमपुरुष एव सम्भवात् दिष्ट्या तद्गुणकीर्तनं लब्धमिति प्रहर्षः ॥ १।१।६ ॥

बहव इति । बुध्वा वक्ष्यामि महापुरुषं निश्चित्य वक्ष्यामि, तैर्दुर्लभगुणैर्युक्तो नरः श्रूयतामिति योजना । श्रूयतां प्राप्तकाले लोट् । तस्य श्रवणं ते प्राप्तकालमित्यर्थः ॥ १।१।७ ॥

उक्तप्रशस्तसमस्तगुणविशिष्टत्वेन निश्चितपरमपुरुषमुपदिशति इक्ष्वाकुवंशप्रभव इत्यादि रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति इत्यन्तेन । प्रभवत्यस्मादिति प्रभवः उत्पत्तिस्थानम् । इक्ष्वाकुवंशः प्रभवो यस्य सः तथोक्तः । रमन्ते ऽस्मिन्निति रामः, नामशब्दः प्रसिद्धौ । नियतात्मा शिक्षितमनाः । वशी जितेन्दिरयः ॥ १।१।८ ॥

बुद्धिमानिति । बुद्धिमान् प्रशस्तधीः । बुद्धेः प्राशस्त्यं नाम “शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ " इत्युक्तगुणविशिष्टत्वम्। नीतिमान् अतिशये प्राशस्त्ये वा मतुप्। वाग्ग्मी प्रशस्तवाक्। श्रीमान् सर्वातिशायिश्रीः “ऋचः सामानि यजूँषि सा हि श्रीरमृता सताम् " इत्युक्तश्रौतश्रीरत्र विवक्षिता। विपुलांसः मांसलोन्नतभुजशिरस्कः। महाहनुः पूरितकपोलोपरिभागवान् ॥

१।१।९ ॥

महोरस्क इति । महद्विशालमुरो यस्य स महोरस्कः, “उरः शिरो ललाटं च” इत्युपक्रम्य “विशालास्ते सुखप्रदाः” इत्यक्तेः । गूढजत्रुः गूढे निमग्ने जत्रुणी वक्षों ऽसयोस्सन्धिगतौ अस्थिविशेषौ यस्य स तथोक्तः । अरीन् कामादीन् दमयतीत्यरिन्दमः । आजानुबाहुः जानुपर्यन्तदीर्घबाहुः । सुशिराः “सुशिरस्त्वं वृत्तशिराः” इत्यादिसामुद्रिकशास्त्रोक्तलक्षणलक्षितशिरोविशिष्टत्वम् । सुललाटः “ललाटे यस्य दृश्यन्ते चतुस्त्रिद्व्येकरेखिकाः” इत्युक्तचतूरेखासौभाग्यविशिष्टललाटत्वम् । सुविक्रमः सुष्टु विक्रमः पादविन्यासो यस्य सः । विक्रमस्य सौष्ठवं नाम गजसिंहादि गतिसदृशत्वम् ॥ १।१।१० ॥

सम इति । समः “षण्णवत्यङ्गुलोत्सेधो यः पुमान् स प्रकाशते” इत्युक्तरीत्या अन्यूनातिरिक्तविग्रहपरिमाणः । समविभक्ताङ्गः समानि अन्यूनातिरिक्तानि विभक्तानि पृथक्कृतानि अङ्गानि अवयवा यस्य स तथोक्तः, अनेनोभयपार्श्वस्थकक्षश्रोत्रबाह्वादीनामङ्गानामुपाङ्गानां च

समत्वमुक्तं भवति । स्निग्धवर्णः निर्णिक्तेन्द्रनीलवर्ण इत्यर्थः । प्रतापवान् श्रवणमात्रेण शत्रुहृदयविदारकत्वेन प्रशस्तपौरुषः । लक्ष्मीवान् अत्र लक्ष्मीशब्देन सर्वोत्तमावयवसौभाग्यमुच्यते । शुभलक्षणः शुभानि मङ्गलायतनानि लक्षणानि सामुद्रिकशास्त्रोक्तानि यस्य स तथोक्तः ॥ १।१।११ ॥

धर्मज्ञ इति । सत्यसन्धः सत्या यथार्था सन्धा प्रतिज्ञा यस्य सः । ज्ञानसम्पन्नः सर्वविषयज्ञानसम्पन्न इत्यर्थः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । वश्यः पित्राचार्यविनीतः । प्रजापतिरिति । श्रीमान् अखण्डितैश्वर्यसम्पन्नः । धाता सकलजगद्धारणपोषणसामर्थ्ययुक्तः । रिपुनिषूदनः आश्रितजनानां ये रिपवः तेषां नाशकः ॥ १।१।१२ ॥

रक्षिता जीवलोकस्य प्रजानामरिष्टनिरसनपूर्वकेष्टप्रापणस्य कर्तेत्यर्थः । धर्मस्य परिरक्षिता धर्मस्य परिरक्षणं नाम तत्तद्धर्मेषु वर्णाश्रमाणां नियोजनम् । रक्षिता स्वस्य धर्मस्य, अत्र धर्मशब्दः यजनाध्ययनदानपरः तत्परिपालयिता । स्वजनस्य रक्षिता स्वजनस्य आश्रितबान्धवादेः जीवलोकस्य रक्षितेत्यनेनैवाश्रितादिजनरक्षणे सिद्धेपि पुनस्तद्रक्षणकथनं विशेषतो रक्षणद्योतनार्थम् ॥ १।१।१३ ॥

वेदवेदाङ्गतत्त्वज्ञः वेदानां चतुर्णां तदङ्गानां शिक्षादीनां पाठतो ऽर्थतश्च तत्त्वमबाधितं स्वरूपं जानातीति तथा । धनुर्वेदे च निष्ठितः अस्त्रशस्त्रादि प्रतिपादकं शास्त्रं धनुर्वेदः तस्मिन्निष्ठितः निष्णातः । सर्वशास्त्रार्थतत्त्वज्ञः साङ्ख्ययोगतर्कवैशेषिकपूर्वोत्तरमीमांसाव्याकरणानि स्मृतयश्च सर्वशास्त्राणि, सर्वेषामेषामर्थतत्त्वज्ञः । पाठस्यानतिप्रयोजनत्वादर्थविशेषणम् । स्मृतिमान् पूर्वानुभूतार्थाविस्मरणशीलः । प्रतिभानवान् “प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः” इत्युक्तप्रतिभा प्रतिबानम्, तद्वान् ॥ १।१।१४ ॥

सर्वलोकप्रियः सर्वलोकानां प्रियः सर्वे लोकाः प्रिया यस्येति वा । साधुः अपकारिष्वपि उपकारशीलः । अदीनात्मा अतिव्यसनपरम्परायामपि अक्षुभितान्तःकरणः । विचक्षणः तत्तत्कालकर्तव्यचतुरः सर्वदेति । नदीभिः समुद्र इव सद्भिः महात्मभिः सर्वदाभिगतः सेवितः । सर्वदेत्यनेन नदीनां समुद्रसेवायामिव भक्तानां भगवत्सेवायां कालनियमो नास्तीत्युक्तं भवति । अभिगत इत्यनेन परमप्राप्यत्वमुक्तम् । समुद्र इव सिन्धुभिरित्यनेन सतां प्राप्यान्तरराहत्यं द्योत्यते । प्राप्तानां च सतां तेन ऐक्यं च प्रतीयते ॥ १।१।१५ ॥

आर्यः पूज्यः । सर्वसमः सर्वेषु शत्रुमित्रोदासीनेषु वैषम्यरहितः । सदैव(क) प्रियदर्शनः सदैव सर्वावस्थासु मुहुर्मुहुरनुभवे ऽपि अननुभूतपूर्ववत् विस्मयनीयप्रियदर्शनः । स इति । सर्वगुणोपेतः उक्तानुक्तसकलगुणसम्पन्नः । कौसल्याया आनन्दं वर्धयतीति तथा ॥ १।१।१६ ॥

स च सर्वगुणोपेत इति सङ्क्षेपेणोक्तानन्तगुणेषु कतिपयगुणानाह समुद्र इत्यादिश्लोकद्वयेन । गाम्भीर्ये अगाधाशयत्वे समुद्रतुल्यः । धैर्यं मनसाप्यधृष्यत्वम् । विष्णुनेति । यद्यप्ययमेव रामो विष्णुः मानुषोपाधिभेदाद्विष्णुनेति सादृश्यम् । यद्वा विष्णुना स्वेनैव वीर्ये सदृशः, उपमानान्तरराहित्यमनेनोक्तम् । सोमवत् प्रियदर्शनः चन्द्रवत्सर्वानन्दकरः ॥ १।१।१७ ॥

कालाग्नीति । अनेन युद्धादप्यनिवार्यकोपत्वमुक्तम् । क्षमया पृथिवीसमः, अनेन सर्वापराधसहिष्णुत्वमुक्तम् । धनदेनेति । त्यागे सत्यपि धनदेन समः । अनेन अक्षीणकोशत्वं महोदारत्वञ्चोक्तम् । सत्ये धर्म इवापरः सत्ये सत्यवचने अपरो द्वितीयो धर्म इव धर्माख्या देवतेव ॥ १।१।१८ ॥

एवं रामभद्रे सर्वगुणानभिधाय तस्मिन् तद्गुणान् प्रकटयितुं तच्चरितं वक्तुमारभते तमेवमित्यादिना । इत आरभ्य अयोध्याकाण्डग्रन्थसङ्ग्रहः क्रियते । अतः प्राक्तनश्लोकैर्बालकाण्डार्थः सूचितः । तत्र इक्ष्वाकुवंशप्रभव इति भगवदाविर्भावः सूचितः । महावीर्यः शत्रुनिबर्हण इति च

अस्त्रसम्पत्तिताटकावधादिस्सूचितः । लक्ष्मीवानिति सीतापरिणयसङ्क्षेपः । सत्यपराक्रममित्यनुवादेन भार्गवलोकप्रतिबन्धादिव्यापारस्सङ्क्षिप्तो वेदितव्यः । एवं गुणसम्पन्नम् प्रशस्तासाधारणकल्याणगुणसम्पन्नम्, श्रेष्ठगुणैः अभिषेकार्हवरिष्ठगुणैश्च युक्तम्, सत्यपराक्रमम् अमोघपराक्रमम् ॥ १।१।१९ ॥

प्रकृतीनां प्राणिनां हितैरिहामुत्रयशस्करैः कर्मभिर्युक्तम्, ज्येष्ठं सुतं रामं प्रकृतिप्रियकाम्यया प्रकृतीनां प्रियं कर्तुमिच्छया, पितरि राज्यं कुर्वत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावो यौवराज्यं तेन । संयोक्तुं संयोजयितुम् महीपतिः दशरथः ऐच्छदिति श्लोकद्वयमेकं वाक्यम् ॥ १।१।२० ॥

तस्य रामस्य अभिषेकसम्भारान् सम्भ्रियन्त इति सम्भाराः अभिषेकार्थं सम्भृतान् दध्यादिमङ्गलद्रव्यविशेषान्, दृष्ट्वा मन्थरावचनाज्ज्ञात्वा, पूर्वं पुरा दत्तौ वरौ यस्यै । इन्द्रसहायार्थं प्रवृत्तदशरथयुद्धकाले दशरथे परप्रयुक्तामासुरीं मायां धवलाङ्गाख्यमुनिदत्तविद्यया वारयन्त्यै कैकेय्यै तुष्टेन दशरथेन दत्तं वरद्वयमिति पौराणिकी प्रसिद्धिः । यद्वा पूर्वं दत्तवरा देवासुरयुद्धे दशरथस्य सारथ्यमाचरन्त्या कैकेय्या सन्तुष्टाद्दशरथाद्वरद्वयं लब्धमिति “तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया । तुष्टेन तेन दत्तौ तु द्वौ वरौ शुभदर्शने ॥ " इति मन्थरावचनादवगम्यते। वरमिति जातावेकवचनम्। वरद्वयस्वरूपमाह विवासनमिति ॥

१।१।२१ ॥

स इति । सः दशरथः सत्यवचनाद्धेतोः धर्ममयेन पाशेन संयतः बद्धः सन् प्रियं सुतमपि विवासयामास ॥ १।१।२२ ॥

स इति । स रामः वीरः जितेन्द्रियः, अनेकैरपराड्मुखतया योद्धा वा । कैकेय्याः प्रियकारणात् प्रीतिनिमित्तम् पितुर्वचननिर्देशात् नियोगात्, प्रतिज्ञामनुपालयन् “तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ " इत्येवं कैकेय्याः सन्निधौ पितृवचनपरिपालनविषयां स्वकृतां प्रतिज्ञां परिपालयन् वनं जगाम ॥

१।१।२३ ॥

तमिति । प्रियः रामे सहजप्रतीतिमान् भ्रातु रामस्य दयितः इष्टः विनयसम्पन्नः लक्ष्मणो भ्राता सौभ्रात्रं सुभ्रातृभावम् अनुदर्शयन् स्नेहात् भक्त्यैवानुजगाम, न पित्रादिनिर्देशात् ॥ १।१।२४ ॥

रामस्य दयिता इष्टा भार्या निरतिशयप्रेमास्पदा नित्यं हिता हितकारिणी च जनकस्य कुले गृहे यज्ञगृहे जाता आविर्भूता देवमायेव सुन्दोपसुन्दमोहनार्थं देवैरुत्पादिता सर्वोत्तमसौन्दर्या तिलोत्तमेव । यद्वा असुरव्यामोहनार्थममृतविनियोगसमये स्वनिर्मितादेवस्य विष्णोर्मायावनितेव ॥ १।१।२५ ॥

सर्वलक्षणसम्पन्ना सामुद्रिकशास्त्रोक्तसर्वस्त्रीलक्षणसम्पन्ना, पुरुषाणां रामः उत्तमः नारीणामुत्तमा वधूः स्त्री । ऽसीता लाङ्गलपद्धतिःऽ तदुत्थत्वात् सीतेति निर्दिश्यते ॥ १।१।२६ ॥

अथ धर्मात्मा रामः पौरैः पित्रा दशरथेन च दूरमनुगतः । गङ्गाकूले वर्तमाने श्रृङ्गिबेरपुरे स्थितं निषादाधिपतिं प्रियमिष्टम् । गुहमासाद्य रामविसर्जनार्थमागतं गङ्गाकूले व्यसर्जयत् अत्यजत् । गुहमासाद्य गुहेन लक्ष्मणेन सीतया च सहितो रामः सुमन्त्रं व्यसर्जयदिति श्लोकद्वयमेकं वाक्यम् ॥ १।१।२७२८ ॥

तेवनेनेति । तेवनं पादचारणमिति सम्प्रदायः । ते त्रयः तेवनेन पादचारेण वनं गत्वा बहूदका नदीस्तीर्त्वा अनु पश्चात् भरद्वाजस्य शासनात् चित्रकूटं प्राप्य रम्यमावसथं कृत्वा पर्णशालां कृत्वा तत्र रममाणा देवगन्धर्वसङ्गाशाः सुखं न्यवसन्निति योजना ॥ १।१।२९३० ॥

रामे चित्रकूटं गते सति तदा पुत्रशोकातुरो राजा पुत्रं स्मृत्वा विलपन् परिदेवनं कुर्वन्नेव स्वर्गं

जगाम ॥ १।१।३१ ॥

तस्मिन् दशरथे मृते भरतस्तु वसिष्ठादिभिः राज्याय नियुज्यामानः महाबलः राज्यं कर्तुं समर्थः । सौभ्रात्रात् राज्यं नैच्छत् ॥ १।१।३२ ॥

स जगामेति । वीरः वीर्येणयुक्तः । अत्र वीर्यं नाम अन्तःशत्रुभूतरागादिजेतृत्वम्, विषयानाकृष्टचित्त इत्यर्थः । रामपादप्रसादकः पादशब्दः पूज्यवाची । पूज्यं रामं प्रसन्नं कर्तुमित्यर्थः ॥ १।१।३३ ॥

गत्वेति । राममभिगमं रामम् आर्यभावपुरस्कृतः विनयपुरस्कृतस्सन् सुमहात्मा सु शोभनः महानात्मा अन्तःकरणं यस्य तम् । अयाचत् स्वाभिलषितमिति शेषः । “सत्सु कार्यवतां पुंसा मलमेवाग्रतः स्थितिः " इति न्यायेन सतामग्रतो ऽवस्थानमात्रेण स्वाभिप्राये निवेदिते ऽपि दैन्यप्रख्यापनार्थं पुनरयाचदिति भावः ॥ १।१।३४ ॥

अभिलषितमेवाह त्वमेवेति । धर्मज्ञः सर्वगुणश्रेष्ठे ज्येष्ठे सति कनिष्ठस्य राज्यार्हता नास्तीत्यमुं धर्मं त्वमेव जानासि, अतः त्वमेव राजेति रामं वचो ऽब्रवीदिति सम्बन्धः । रामो ऽपीति । रामो ऽपि रमयतीति व्युत्पत्त्या स्वरूपगुणैराश्रितचित्तरञ्जकत्वस्वभावो ऽपि । सुमुखः अर्थिजनलाभेन प्रसन्नमुखः । परमोदारः याचकाभीष्टप्रदाननिरतः, महायशाः “न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति” इति श्रीविष्णुपुराणोक्तप्रकारेण प्रसिद्धकीर्तिस्सन्नपि, महाबलः एकशरविमोचनेन सकलराक्षसनिरसनसमर्थः । अपिशब्दः सर्वत्र सम्बध्यते । एवम्भूतो ऽपि रामः पितुरादेशान्नियोगात् राज्यं नैच्छदिति योजना । पितुर्वचनगौरवात् भरतेनार्थितं राज्याभिषेकं नैच्छदित्यर्थः ॥ १।१।३५ ॥

पादुके चेति । भरताग्रजः अस्य रामस्य, राज्याय राज्यं कर्तुम् । अहल्यादृष्टवैभवपादस्पृष्टे पादुके न्यासरूपेण दत्त्वा बहुविधैः सान्त्त्वैः पुनर्भरतं निवर्तयामासेति सम्बन्धः । राज्यस्य निक्षेपरूपतया स्वत्वनिवृत्तिपूर्वकपरस्पत्वापादनविषयत्वाभावाच्चतुर्थ्या अप्रसक्तेरस्येति सम्बन्धसामान्ये षष्ठी ॥ १।१।३६ ॥

स काममिति । स भरतः कामम् अभिषेकार्थं रामप्रत्यानयनलक्षणं मनोरथमनवाप्यैव नन्दिग्रामे रामपादौ रामपादुके अनुदिनमुपस्पृशन् नमस्कुर्वन् रामागमनकाङ्क्षया नन्दिग्रामे स्थित्वा राज्यमकरोत् पालयामास ॥ १।१।३७ ॥

गते त्विति । भरते गते सति श्रीमान् सर्वातिशयकान्तिमान् । सत्यसन्धः सत्यप्रातिज्ञः, जितेन्द्रियः राज्यभोगलोल्यरहितः । रामस्त्विति । नागरस्य जनस्य अयोध्यावासिनो जनस्य, चशब्दाद्भरतस्य च । तत्र चित्रकूटे पूनरागमनमालक्ष्य पितुर्वचनपरिपालने एकाग्रचित्तः सन् दण्डकान् दण्डकाख्यवनं प्रविवेश, अवान्तरवनबाहुल्याद्बहुवचनम् । हेति प्रिसद्धौ ॥ १।१।३८ ॥

प्रविश्य तु महारण्यमित्यारभ्य आरण्यकाण्डकथासङ्ग्रहः क्रियते । तुशब्दो ऽवधारणे । राजीवलोचनो रामः । राजीवलोचनविशेषणं रामस्य महावनप्रवेशसम्भावितराक्षसयुद्धारम्भार्जितं हर्षं द्योतयति । महारण्यं दण्डकाख्यं वनं प्रविश्य तु प्रविश्यैव शरभङ्गनामानं मुनिं ददर्श तथा सुतीक्षणादीनपि ददर्श ॥ १।१।३९ ॥

अगस्त्येति । शरासनादि प्रतिगृहाणेत्येवंरूपागस्त्यवचनात् । इन्द्रः परमेश्वरो विष्णुः तस्येदमैन्द्रम् । निजायुधलाभात् परमप्रीतः । अक्षयाः सायकाः ययोस्तौ । तूणी इषुधी च जग्राह ॥ १।१।४० ॥

वसत इति । सर्वे ऋषयः असुररक्षसां वधाय वनचरैर्वानप्रस्थमुनिभिः सह वने वसतस्तस्य रामस्याभ्यागमन् । समीपमिति शेषः । यद्वा अनादरे षष्ठी । हिंसानर्हं रामस्य

तापसरूपेणावस्थानमनादृत्य सर्वेश्वरो ऽयं दुष्टान् संहृत्य अस्मान् रक्षिष्यतीति निश्चित्य राघवं शरणमागता इत्यर्थः ॥ १।१।४१ ॥

स तेषामिति । स रामः राक्षसानां वने राक्षसावासभूते वने । तेषाम् ऋषीणाम्, तथा प्रार्थनावचनं प्रतिशुश्राव अङ्गीचकारेत्यर्थः ॥ १।१।४२ ॥

अङ्गीकृतमर्थमाह प्रतिज्ञातश्चेति । रामेण अग्निकल्पानाम् अग्निसदृशानां दण्डकारण्यवासिनामृषीणाम् । सन्निधाविति शेषः । संयति युद्धे प्राप्तकाले रक्षसां वधः प्रतिज्ञातश्चेति सम्बन्धः ॥ १।१।४३ ॥

तेनेति । तेन रामेण तत्रैव दण्डकारण्यान्तर्भूतपञ्चवट्यामेव वसता । जनस्थाननिवासिनी जनस्थानं नाम दण्डकारण्ये रावणस्य बलनिवेशस्थानम् । कामरूपिणी कामेन रूपमस्या अस्तीति तथा । शूर्पणखा विरूपिता कर्णनासाच्छेदेन वैरूप्यं प्रापिता ॥ १।१।४४ ॥

तत इति । ततः शूर्पणखावैरूप्यकरणानन्तरम् । शूर्पणखावाक्यादुद्युक्तान् युद्धार्थं सन्नद्धान् । सर्वराक्षसान् चतुर्दशसहस्रसङ्ख्याकप्रधानराक्षसान् । तेष्वपि प्रधानभूतान्निर्दिशति खरमिति । तेषां पूर्वोक्तराक्षसानां खरादीनां च पदानुगान् अनुचरांश्च रणे निजघानेति सम्बन्धः ॥ १।१।४५ ॥

हतान् प्रधानान् सञ्चष्टे वन इति । तस्मिन्निवसता, रामेणेति शेषः ॥ १।१।४६ ॥

तत इति । ततः खरादिवधानन्तरम् ज्ञातिवधम् अकम्पनशूर्पणखामुखेन श्रुत्वा क्रोधमूर्च्छितः क्रोधेन व्याप्तः सन् । मारीचं नाम राक्षसं सीताहरणे सहायं वरयामासेति योजना ॥ १।१।४७ ॥

वार्यमाण इति । हे रावण लोकबाधक अप्रमेयबलेन तेन रामेण विरोधो न क्षम इति बहुशो वार्यमाणो ऽपि स रावणः कालचोदितस्सन् तद्वाक्यमनादृत्य सहमारीचः तस्य खरदूषणहन्तृत्वेन प्रसिद्धस्य रामस्याश्रमपदं जगामेति योजना ॥ १।१।४८५० ॥

गृध्रं चेति । निहतं कण्ठगतप्राणं श्रुत्वा, गृध्रमुखादिति शेषः । विललाप पर्यदेवयत् । आकुलेन्द्रियः आकुलानि शोकपरवशानि इन्द्रियाणि यस्य स तथा ॥ १।१।५१ ॥

तत इति । ततः प्रलापानन्तरम् तेनैव शोकेन रावणेन सीता हृतेति निवेद्य मृतजटायुर्विषयशोकेनैव उपलक्षितः जटायुषं दग्ध्वा विधिना संस्कृत्य, सीतां वने मार्गमाणः रूपेण विकृतं कबन्धं सन्ददर्शेति सम्बन्धः ॥ १।१।५२ ॥

तमिति । तं कबन्धं निहत्य ददाह च । स च स्वर्गतः स्वर्गं प्राप्तवान्, स्वर्गगमनयोग्यं स्वकीयं गन्धर्वरूपं प्राप्तवानित्यर्थः ॥ १।१।५३ ॥

स कबन्धःहे राघव शबरीं शबरस्त्रियं धर्मचारिणीम्, श्रवणकीर्तनादिभगवद्धर्माचरणशीलाम् धर्मनिपुणाम्, सामान्यविशेषरूपधर्मनिपुणाम् श्रमणीम् चतुर्थाश्रमं प्राप्ताम् । जितेन्द्रियत्वपूर्वकमोक्षोपयुक्ताचारनिष्ठामित्यर्थः । एवम्भूतां भक्तामभिगच्छेति अस्य रामस्य कथयामासेति योजना । प्रथमान्तपाठे त्वयमुत्तरशेषः ॥ १।१।५४ ॥

सो ऽभ्यगच्छदिति । स्पष्टमेतत् । शबर्येति । सम्यक् पूजितः यथाविधि अर्घ्यादिफलसमर्पणान्तोपचारेणार्चितः ॥ १।१।५५ ॥

पम्पातीर इत्यादिना किष्किन्धाकाम्डकथासङ्ग्रहः क्रियते । पम्पातीर इति । सङ्गतः राम इत्यनुषज्यते । हेति हर्षे । हनुमदिति । हनुमद्वचनात् सुग्रीवो युष्मत्सङ्गमपेक्षत इत्यादिरूपं हनुमद्वचनम् ॥ १।१।५६ ॥

सुग्रीवायेति । महाबलो रामः आदितः जन्मन आरभ्य तत् प्रसिद्धम्, वृत्तं सीतायास्तद्वृत्तं च रावणहृतत्वादि सर्वम्, सुग्रीवाय विशेषतः विशेषेण यथावृत्तं वृत्तमनतिक्रम्य शंसत् । अडभाव आर्षः ।

महाबल इति विशेषणसामर्थ्यात्सहायमन्तरेण सर्वनिर्वाहकत्वे ऽपि लोकरीतिमनुसृत्य सुग्रीवसहायमुद्दिश्य सर्वमकथयदित्यवगम्यते ॥ १।१।५७ ॥

सुग्रीव इति । वानरः सुग्रीवो ऽपि रामस्य सम्बन्धि तत्सर्वं श्रुत्वा स्वसमानदुःखमहाबलसम्बन्धलाभात् सुप्रीतः सन् रामेण अग्निसाक्षिकमेव अग्निः साक्षी साक्षाद्द्रष्टा यस्य तत्तथोक्तं सख्यं सखित्वं चकारेति योजना ॥ १।१।५८ ॥

तत इति । वानरराजेन सुग्रीवेण दुःखितेन सुहृत्सन्निधौ स्मृतदुःखेन वैरस्यानुकथनं प्रश्नं प्रति । वालिना सह तव वैरं कथमभूदित्येवंरूपं प्रतीत्यर्थः । रामाय प्रणयात् प्रत्युत्तरमावेदितम्, साकल्येनोक्तमित्यर्थः ॥ १।१।५९ ॥

प्रतिज्ञातमिति । तदा वैरवृत्तान्तश्रवणानन्तरकाले रामेण वालिवधं प्रति उद्दिश्य वालिनं वधिष्यामीति प्रतिज्ञातम् । वालिन इति । तत्र ऋश्यमूके । वानरः सुग्रीवः । वालिनो बलम् अरुणोदयमारभ्य सूर्योदयात्पूर्वमेव चतुस्समुद्राभिगमनादिकं वालिपौरुषं रामस्योत्साहवर्धनार्थमकथयदित्यर्थः ॥ १।१।६० ॥

सुग्रीव इति । अपि च राघवे राघवविषये वीर्येण हेतुना नित्यं शङ्कितः सुग्रीव आसीत्, रामस्य वालिहननसामर्थ्यमस्ति वा न वेति सुग्रीवो नित्यमशङ्किष्टेत्यर्थः ॥ १।१।६१ ॥

राघवेति । राघवबलपरिज्ञानार्थं महापर्वतसन्निभं दुन्दुभेः कायं वालिना हतस्य दुन्दुभिनाम्नो ऽसुरस्य देहं रामाय दर्शयामास, इदं शरीरं वालिना एतावद्दूरं क्षिप्तमित्युक्त्वा तद्दर्शयामासेत्यर्थः ॥ १।१।६२ ॥

उत्स्मयित्वेति । महाबाहुः बाह्वोर्महत्त्वं नाम अङ्गुल्येकदेशेन लोकविरोधिसकलदैत्यादिहननशक्तत्वम् । तथा युद्धकाण्डे “पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् । अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥ " इति। महाबलः अपरिच्छेद्यबलो रामः ज्ञानिनोऽपि मुह्यन्ति किं वनकपिरित्युत्स्मयित्वा उदारमीषद्धास्यं कृत्वा अस्थिनिचयरूपं शरीरं प्रेक्ष्य दशयोजनपरिमितं देशं सम्पूर्णं यथा तथा पादाङ्गुष्ठेन चिक्षेप क्षिप्तवान् ॥

१।१।६३ ॥

बिभेद चेति । तदानीमार्द्रं शरीरमिदानीं शुष्कमिति सुग्रीवस्य विमर्शे सति पुनः प्रत्ययं विश्वासं जनयन् । हेतौ शतृप्रत्ययः । तदा तस्मिन् काले सप्तसालवृक्षान् गिरिं तत्समीपपर्वतं च रसातलं च । षष्ठो लोको रसातलम् । एकेन महेषुप्रयोगेणैव बिभेद । राम इति शेषः । एकसालमात्रभेदने अस्य वालिना साम्यशङ्का जायते तन्माभूदिति तन्निवृत्त्यर्थमचोदितानामप्यन्यसालगिरिप्रस्थादीनां भेदनमिति मन्तव्यम् ॥ १।१।६४ ॥

तत इति । ततः सालभेदनानन्तरं तेन सालादिभेदनेन, विश्वस्तः विश्वासं प्राप्तः, सर्वात्मना रामो दर्शनमात्रेण वालिनं हनिष्यतीति विश्वासं प्राप्तः, प्रीतमनाः कपिराज्यमचिरादेव मम हस्तगतं भविष्यतीति सन्तुष्टान्तरङ्ग इत्यर्थः । तदा तस्मिन्नेव काले किष्किन्धां गुहां पर्वतान्तरावकाशे तत्र निर्मितत्वात् किष्किन्धापि गुहाशब्देनोच्यते । जगाम चेति योजना ॥ १।१।६५ ॥

तत इति । सुग्रीवः अगर्जत् सिंहनादं कृतवान् । तेन सिंहनादेन हेतुना हरीश्वरः वाली गृहान्निर्जगाम ॥ १।१।६६ ॥

अनुमान्येति । तदा निर्गमनसमये तारामनुमान्य सुग्रीवं रामसहायमङ्गदमुखादवगत्य युद्धनिर्गमनं वारयन्तीं तारां धर्मज्ञो रामो ममापकारं न करिष्यतीत्यादिसान्त्ववचनैरनुमतिं प्रापय्य सुग्रीवेण सह युद्धाय समागतो ऽभवत्, तत्रैनमेकेनैव शरेण निजघान ॥ १।१।६७ ॥

तत इति । सुग्रीववचनात् “वालिनं जहि काकुत्स्थ " इत्येवंरूपात् आहवे वालिनं हत्वा

तद्राज्ये वालिराज्ये सुग्रीवमेव प्रत्यपादयत् प्रतिष्ठापितवान् ॥ १।१।६८ ॥

स चेति । स च वानरर्षभः । जनकात्मजां दिदृक्षुः सर्वान् वानरान् समानीय सर्वा दिशः प्रस्थापयमास ॥ १।१।६९ ॥

तत इति । गृध्रस्य सम्पातेर्वचनात् ऽतस्यां वसति वैदेहीऽ इत्येवंरूपात् । शतेत्यादिना सुन्दरकाण्डकथासङ्ग्रहः । हनुमान् शतयोजनविस्तीर्णं लवणार्णवमुल्लङ्घितवान् ॥ १।१।७० ॥

तत्रेति । लङ्कां पुरीं समासाद्य तत्र लङ्कायाम् अशोकवनिकाम् अशोकवनिकाख्यारावणप्रमदावनं गतां प्राप्तां राममेव ध्यायन्तीं सीतां ददर्श ॥ १।१।७१ ॥

निवेदयित्वेति । अभिज्ञानमङ्गुलीयकरूपं ज्ञापकं निवेदयित्वा सुग्रीवसख्यवृत्तान्तं च निवेद्य च वाचा ज्ञापयित्वा वैदेहीं समाश्वास्य तोरणम् अशोकवनिकाबहिर्द्वारं चकारादशोकवनं च मर्दयामास ॥ १।१।७२ ॥

पञ्च सेनेति । पञ्च सेनाग्रगान् सेनापतीन् अक्षं रावणकुमारम्, निष्पिष्य चूर्णीकृत्य, ग्रहणं समुपागमत् इन्द्रजित्प्रयुक्तब्रह्मास्त्रेण बन्धनं प्राप्तः ॥ १।१।७३ ॥

अस्त्रेणेत्यादि श्लोकद्वयमेकं वाक्यम् । यदस्त्रस्यामोघतया बन्धनमात्रं पञ्चघटिकानन्तरं तन्मोक्षश्च भवतीति ब्रह्मणा हनूमते वरो दत्तः, अतः पञ्चघटिकानन्तरमेव ब्रह्मास्त्रेणोन्मुक्तमात्मानं ज्ञात्वा, यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया, यन्त्रिण आत्मानं बद्ध्वा स्थितान् राक्षसान्, वीरः हन्तुं समर्थो ऽपि,मर्षयन् क्षमं कुर्वन्, ततः रावणदर्शनव्यापारानन्तरं मैथिलीं सीताम् ऋते तदवस्थानप्रदेशं विना लङ्कां दग्ध्वा रामाय प्रियं प्रियवार्ताम् आख्यातुं वक्तुं पुनरायात् महाकपिरिति योजना ॥ १।१।७४७५ ॥

स इति । अमेयात्मा अपरिच्छेद्यधैर्यः । स हनुमान् महात्मानम् महांश्चासौ आत्मा च तम्, परमात्मानमित्यर्थः । रामभिगम्य प्रदक्षिणं कृत्वा दृष्टा सीतेति तत्त्वतः, सार्वविभक्तिकस्तसिः । तत्त्वं न्यवेदयदित्यर्थः । तत्र सीता दृष्टेति वक्तुं शक्यत्वे ऽपि दृष्टा सीतेति पदप्रयोगो रामस्य सीतादर्शनविषयसंशयो मा भूदिति ॥ १।१।७६ ॥

ततः सुग्रीवसहित इत्यारभ्य युद्धकाण्डकथासङ्ग्रहः क्रियते तत इति । समुद्रं क्षोभयामास मार्गदाने औदासीन्यात् समुद्रमापातालमाकुलीचकारेत्यर्थः ॥ १।१।७७ ॥

दर्शयामासेति । आत्मानं निजरूपं दर्शयामास । समुद्रवचनात् “एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि तथा ह्येष यथा पिता ॥ " इत्येवंरूपसमुद्रवचनादेव नलं सेतुमकारयत्, नलेन सेतुं कारयामासेत्यर्थः ॥

१।१।७८ ॥

तेनेति । तेन सेतुना लङ्कां पुरीं गत्वा आहवे युद्धे रावणं हत्वा सीतां प्राप्य अनु पश्चात् परां व्रीडां रक्षो गृहे चिरोषितां पुनर्गृहीतवानिति लोकापवादशङ्कया लज्जामुपागमत् ॥ १।१।७९ ॥

तामिति । ततः अनन्तरम्, रामो जनसंसदि वानरराक्षससभायां परुषम् “दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्” इत्यादिकम् उवाच । अमृष्यमाणा पातिव्रत्यविषयसंशयवचनमसहमाना सीता ज्वलनं ज्वलन्मग्निं विवेश ॥ १।१।८० ॥

तत इति । अग्निवचनात् “विशुद्धभावां निष्पापां प्रतिगृह्णीष्व” इत्येवंरूपात्, गतकल्मषां स्वयं ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य । सीतामङ्गीचकारेति शेषः । केचित्तु ऽततो ऽग्निवचनात्ऽ इत्यस्मादनन्तरं “बभौ रामः सम्प्रहृष्टः” इत्यर्धं पाङ्क्तमेव पठित्वा ततः ऽकर्मणा तेनऽ इति श्लोकं पठन्ति । तस्मिन् पाठे विगतकल्मषां सीतां ज्ञात्वा सम्प्रहृष्टः सर्वदैवतैश्च पूजितो रामो बभूवेति योजना ॥ १।१।८१ ॥

कर्मणेति । राघवस्य महता तेन कर्मणा रावणवधेन सचराचरम् चराचरप्रजासहितं त्रैलोक्यं तुष्टं तुतोष ॥ १।१।८२ ॥

अभिषिच्येति । लङ्कायां लङ्काराज्यपद इत्यर्थः । कृतकृत्यः “अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् । राजानं त्वां करिष्यामि लङ्कायां राक्षसेश्वर ॥ " इति प्रतिज्ञातस्य कृतत्वात् कृतकृत्यत्वम्, अत एव विज्वरः, विगतमनस्ताप इति यावत्। प्रमुमोद ह प्रकृष्टां मुदमाप ॥

१।१।८३ ॥

देवताभ्य इति । रामः सर्वजगत्कण्टकरावणवधजनितहर्षवशात् रामदिदृक्षया समागताभ्यो वरं प्राप्य “नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः । समुत्थाप्यन्तु हरयः सुप्ता निद्राक्षये यथा ॥ " इत्युक्तप्रकारं वरं लब्ध्वा। राक्षसैर्हतान् वानरान् समुत्थाप्य, सुहृद्भिः सुग्रीवादिभिः संवृतः पुष्पकेण अयोध्यामुद्दिश्य प्रस्थितः जगामेत्यर्थः ॥

१।१।८४ ॥

भरद्वाजाश्रममिति । रामो भरद्वाजाश्रमं गत्वा भरतस्यान्तिकं प्रति हनूमन्तं व्यसर्जयत् । “चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ " इति भरतेन प्रतिज्ञातत्वात्। भरद्राजाश्रमे पञ्चम्यां चतुर्दशवर्षसमाप्त्यनन्तरं मुनिवचनेन एकदिनविलम्बस्य प्राप्तत्वात्स्वागमनबोधनाय हनुमद्विसर्जनम् ॥

१।१।८५ ॥

पुनरिति । अपरेद्युः सुग्रीवसहित इति विभीषणादीनामुपलक्षणम् । तत् पुष्पकं समारुह्य पुनराख्यायिकां पूर्ववृत्तविषयकथाम् “अत्रसीते त्वया दृष्टा तापसी धर्मचारीणी” इत्याद्युक्तप्रकारेण पुनर्जल्पन् कथयन् । सीताया इति शेषः । नन्दिग्रामं ययाविति योजना ॥ १।१।८६ ॥

नन्दिग्राम इति । रामः नन्दिग्रामे जटां भरतादिभिः सहितः हित्वा त्यक्त्वा सीतामनुप्राप्यं सीतासादृश्यं प्राप्य मुनिवेषत्यागेन सीतामनुरूपः प्राप्येति यावत् । राज्यं पुनरवाप्तवान् पितृवचनात्पूर्वं प्राप्तं विशिष्य पुनः अद्य प्राप्त इत्यर्थः ॥ १।१।८७ ॥

एतदन्तं चरितं वृत्तत्वेनोपदिश्य देवर्षिरतःपरमुत्तरकाण्डविषयं भविष्यत्वेनोपदिशति प्रहृष्टेति । अनेन रावणवधानन्तरं रामे राज्यं प्रशासति सति वाल्मीकिना रामायणं कृतमित्यनुसन्धेयम् “प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्रं विचित्र पदमात्मवान् ॥ " इति वक्ष्यमाणत्वात्। “ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः। पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥

" इत्याद्युपरिवक्ष्यमाणत्वात् । लोकः सर्वजनः । प्रहृष्टः सञ्जातरोमाञ्चः । मुदितः मुदितान्तःकरणः । तुष्टः सर्वकामलाभजनितसन्तुष्टः, अनेन पूर्वं सर्वकामसम्पत्तौ विद्यमानायामपि रामविश्लेषेणातुष्टस्य “इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महातयान्तं रामं छत्रावृताननम् ॥ " इति प्रार्थितरामाभिषेक एव परमतुष्टिरित्यवगम्यते। पुष्टः “विषये ते महाराज रामव्यसनकर्शिताः। अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ॥

" इत्युक्तप्रकारेण रामविश्लेषकर्शितः सर्वो ऽपि चेतनवर्गः इदानीं रामसंश्लेषसंवर्द्धितसर्वाङ्गो ऽभूदित्यर्थः । सुधार्मिकः “स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥ " इति इष्टदेवतानमस्कारादिरूपधर्मस्य फललाभात् सुधार्मिकत्वोक्तिः। निरामयः मनःपीडारहितः। अरोगः व्याधिरहितः। दुर्भिक्षभयवर्जितः दुर्भिक्षं समृद्धेरभावः, तस्माद्भयं दुर्भिक्षभयम्, तेन वर्जितः ॥

१।१।८८ ॥

न पुत्रमरणमित्यादिना उत्तरकाण्डकथासङ्ग्रहः क्रियते न पुत्रेति । किञ्चिदपि क्वचित्कुत्रापि पुरुषाः पुत्रमरणं न द्रक्ष्यन्ति पितरि जीवति पुत्रा न मरिष्यन्तीत्यर्थः ॥ १।१।८९ ॥

तापत्रयसम्बन्धं निराकरोति न चाग्निजमिति । आधिदैविकदुःखनिवृत्तिमुक्त्वा आध्यात्मिकं

निराकरोति नापि ज्वरकृतमिति । न तस्करभयमित्यादिनाधिभौतिकं निराकरोति ॥ १।१।९० ॥

नगराणीति । नगराणि पुराणि, राष्ट्राणि जनपदाः धनधान्ययुतानि भविष्यन्तीत्यनुषङ्गः ॥ १।१।९१ ॥

अश्वमेधशतैरिति । अश्वमेधानां शतैरश्वमेधशतैः, अपरिमिताश्वमेधैरित्यर्थः । इष्ट्वा देवान् पूजयित्वा । बहुसुवर्णकैः बहुसुवर्णदक्षिणाकैर्यागविशेषैः इष्ट्वा असङ्ख्येयं धनं दत्त्वा ब्रह्मलोकं प्रयास्यति इति योजना । ब्रह्मैव लोकः तं परमात्मस्वरूपं सगुणस्य ब्रह्मणो विष्णोः स्वस्य लोकं वैकुण्ठाख्यं च प्रयास्यतीत्यर्थः ॥ १।१।९२ ॥

राजवंशानिति । राजवंशान् शतगुणान् विवृद्धान् प्रत्येकं राज्यप्रदानेन स्थापयिष्यतीत्यर्थः । चातुर्वर्ण्यं च चतुर्वर्णान् स्वे स्वे धर्मे नियोक्ष्यति वर्तयिष्यति ॥ १।१।९३ ॥

दशवर्षेति । एकादशवर्षसहस्राणि राज्यमुपासित्वा परिपाल्य ब्रह्मलोकं गमिष्यति ॥ १।१।९४ ॥

इदमिति । इदं पवित्रम् अन्तःकरणशोधकम्, पुण्यं पुम्यसाधनम्, वेदैश्च सम्मितम् तुल्यम्, सर्ववेदार्थप्रतिपादकत्वात्तुल्यत्वम् ॥ १।१।९५ ॥

एतदिति । एतदाख्यानम् आख्यायिकाम् आयुष्यम् आयुर्वृद्धिकरम् एतद्रामायणाख्यं प्रबन्धं पठन् पठनादेव पुत्रपौत्रसहितः इह भोगान् भुक्त्वा प्रेत्य स्वर्गलोके महीयते । “मह पूजायाम्” । तत्र पूजितो मोदत इत्यर्थः ॥ १।१।९६ ॥

वर्णानां प्रतिनियतफलान्याह पठन्निति । स्यादिति यद्यर्थकमव्ययम् । पठन् द्विजः स्यात् ब्राह्मणो यदि वागृषभत्वमीयात् प्राप्नुयात्, शब्दब्रह्मपारगो भवेत् । क्षत्रियः स्यात् भूमिपतित्वं साम्राज्य ऽश्रृण्वन्रामायणं भक्त्याऽ इति स्मरणात् । यद्वा पठन् शूद्रो जनः स्यात् महत्त्वं सजातीयेषु सर्वोत्तमत्वे पूज्यत्वमीयात् । चकारादवान्तरजातिस्समुच्चीयते । चतुर्विंशतिसहस्रश्लोकैः श्रीरामायणं चिकीर्षुर्वाल्मीकिर्गायत्र्या आदिमाक्षरेणोपक्रम्य अन्तिमाक्षरेण निगमनं कृतवान् ॥ १।१।९७ ॥

इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वतीर्थकृतौ श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सङ्क्षेपो नाम प्रथमः सर्गः ॥ १ ॥