११९ रामस्य दण्डकारण्यप्रवेशः

एकोनविंशत्युत्तरशततमः सर्गः

[दण्डकारण्यप्रवेशः] ॥ २।११९।१ ॥

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्।

पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ १ ॥

अथ अनसूयासम्मानितसीतया सह रामस्य अत्र्याश्रमे रात्रौ निविष्टस्य प्रातर्वनान्तरप्रस्थानम्। अनसूयेत्यादि ॥ १ ॥

॥ २।११९।१ ॥ ॥ २।११९।२ ॥

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया।

यथा १स्वयंवरं वृत्तं तत्सर्वं च श्रुतं मया ॥ २ ॥

स्वयंवरं वृत्तमिति। स्वयंवरविषयकवृत्तान्तमिति यावत् ॥

यथायेन प्रकारेण स्वयंवरं वृत्तंप्रबलितम्।

१स्वयंवरेङ।

॥ २।११९।२ ॥ ॥ २।११९।३ ॥

१रमेऽहं कथया ते तु दृढं, मधुरभाषिणि

रविरस्तंगतः श्रीमान् उपोह्य रजनीं २शिवाम् ॥ ३ ॥

उपोह्येति। अतिवाह्येति यावत् ॥ ३ ॥

१रमेयंच।

उपोह्यसमीपं प्राप्यगो।

२शुभाम्च।

॥ २।११९।३ ॥ ॥ २।११९।४ ॥

दिवसं १परिकीर्णानाम् आहारार्थं पतत्त्रिणाम्।

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ ४ ॥

दिवसमिति। अत्यन्तसंयोगे द्विताया, दिवसे आहारार्थं परितः कीर्णानांसञ्चरताम्। नीलीनानामिति। निलीयमानानामित्यर्थः ॥

१प्रतिकीर्णानांङ।

निद्रार्थं निलीनानामित्यन्वयः।

॥ २।११९।४ ॥ ॥ २।११९।५ ॥

एते चाप्यभिषेकार्द्राः मुनयः कलशोद्यताः।

सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥ ५ ॥

कलशोद्यताःउद्यतकलशा इति यावत्, आहिताग्न्यादिः। सहिताःपरस्परसमेताः ॥ ५ ॥

॥ २।११९।५ ॥ ॥ २।११९।६ ॥

अग्निहोत्रे च ऋषिणा हुते च विधिपूर्वकम्।

कपोताङ्गारुणो धूमः दृश्यते पवनोद्धतः ॥ ६ ॥

कपोताङ्गवत्पारावतकवत् अरुणःमेचकः, श्यामे रक्तेऽरुणेऽर्के चऽ ॥ ६ ॥

धूममिश्रितज्वालायाः तादृक्त्वा प्रत्यक्षसिद्धम्।

॥ २।११९।६ ॥ ॥ २।११९।७ ॥

अल्पपर्णा हि तरवः घनीभूताः समन्ततः।

१विप्रकृष्टेन्द्रिये देशे न प्रकाशन्ति वै दिशः ॥ ७ ॥

अल्पपर्णाः तरवोऽपि हि समन्ततः घनीभूता इव दृश्यन्ते तमोवशादिति शेषः। अत एव विप्रकृष्टेन्द्रियेदूरे देशेऽस्मिन् दिशो न प्रकाशन्तिप्रकाशन्त इति यावत् ॥ ७ ॥

विप्रकृष्टेऽपि देशे अल्पपर्णाः ये तरवः, तेऽपि समन्ततः घनीभूता हिअव्यक्तपर्णान्तरालत्वात् सान्द्रीभूता इव। तत्र हेतुमाहन प्रकाशन्ति वैदिश इतिगो। वस्तुतः विरलपर्णा अपि क्रमक्रमशः अन्धकारव्याप्त्या घनीभूता इव दृश्येयुः।

१विप्रकृष्टेऽपि देशेऽस्मिन्ङ।

॥ २।११९।७ ॥ ॥ २।११९।८ ॥

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः।

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ ८ ॥

वेदितीर्थेषुअग्निहोत्रवेदसहिताश्रमप्रदेशेषु। तीर्थशब्दः पुण्यक्षेत्रसामान्यवाची, आश्रमाश्च पुण्यक्षेत्राणि ॥ ८ ॥

रजनीचरसत्त्वानिरात्रिसञ्चारिव्याघ्रादीनि।

अत एवेत्यादिः।

वेदितीर्थेषुवेद्यवतरणप्रदेशेषु। वेदिप्रान्तेष्विति यावत्।

॥ २।११९।८ ॥ ॥ २।११९।९,१० ॥

१सम्प्रवृद्धा निशा, सीते नक्षत्रसमलङ्कृता।

ज्योत्स्नाप्रावरणश्चन्द्रः दृश्यतेऽभ्युदितोऽम्बरे ॥ ९ ॥

गम्यतामनुजानामि रामस्यानु २चरा भव।

कथयन्त्या हि मधुरं त्वयाऽहं ३परितोषिता ॥ १० ॥

अनुचरा भवशुश्रूषुर्भव ॥ १० ॥

१सम्प्रवृत्तःच।

२चरी भवङ।

३अपिच।

॥ २।११९।९,१० ॥ ॥ २।११९।११ ॥

अलङ्कुरु च तावत् त्वं प्रत्यक्षं १मम, मैथिलि

प्रीतिं जनय मे, वत्से २दिव्यालङ्कारशोभिनी ॥ ११ ॥

प्रीतिं जनयेति। अलङ्कृतत्वद्दिव्यरूपानुभावनेनेति शेषः ॥

अलङ्कुरुआत्मानमिति शेषःगो।

१देविङ।

२सर्वाङ।

॥ २।११९।११ ॥ ॥ २।११९।१२१४ ॥

सा तदा समलङ्कृत्य सीता सुरसुतोपमा।

प्रणम्य शिरसा १पादौ रामं त्वभिमुखी ययौ ॥ १२ ॥

तथा तु भूषितां सीतां ददर्श वदतांवरः।

राघवः प्रीतिदानेन तपस्विन्याः, जहर्ष च ॥ १३ ॥

न्यवेदयत् ततः सर्वं सीता रामाय मैथिली।

प्रीतिदानं तपस्विन्याः वसनाभरण २स्रजाम् ॥ १४ ॥

सर्वं न्यवेदयदित्यस्यैव प्रपञ्चनंप्रीतिदानमित्यादि ॥ १४ ॥

१तस्यैङ।

२स्रजम्ङ।

॥ २।११९।१२१४ ॥ ॥ २।११९।१५ ॥

प्रहृष्टस्त्वभवत् रामः लक्ष्मणश्च महारथः।

मैथिल्याः सत्क्रियां दृष्ट्वा १मानुषेषु सुदुर्लभाम् ॥ १५ ॥

मानुषेषुमनुष्यलोकेषु ॥ १५ ॥

१मानुषेष्वतिङ।

॥ २।११९।१५ ॥ ॥ २।११९।१६,१७ ॥

ततः स शर्वरीं प्रीतः पुण्यां शशिनिभा १ननाम्।

अर्चितस्तापसैः २सर्वैः उवास रघुनन्दनः ॥ १६ ॥

तस्यां रात्र्यां ३व्यतीतायां ४अभिषिच्य हुताग्निकान्।

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ १७ ॥

आपृच्छेतामिति। वनान्तरगमनार्थमिति शेषः ॥ १७ ॥

शशिनिभाननां सीतां प्रति प्रीतः शर्वरीम् उवास इत्यन्वयः।

१ननःङ।

२सिद्धैःङ।

३प्रभातायांङ।

४अभिषिक्तान्ङ।

॥ २।११९।१६,१७ ॥ ॥ २।११९।१८ ॥

तावूचुस्ते वनचराः तापसा धर्मचारिणः।

वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥ १८ ॥

सञ्चारंसञ्चरत्यस्मिन्निति अधिकरणे हलश्चऽ इति घञ्, गोचरसञ्चरऽ इति निपातनाभावः छान्दसः, देशमिति यावत्। समभिप्लुतंव्याप्तम्।

वनस्य सञ्चारंकन्दमूलफलाद्याहरणार्थं सञ्चारं राक्षसैः समभिप्लुतंसम्यगुपद्रुतं ऊचुःगो।

॥ २।११९।१८ ॥ ॥ २।११९।१९ ॥

रक्षांसि पुरुषादानि नानारूपाणि, राघव

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना ॥ १९ ॥

व्यालाःश्वापदानि, भेद्यलिङ्गः शठो व्यालः पुंसि श्वापदङ्घयोःऽ ॥ १९ ॥

व्यालाःहिंस्रपशवःगो।

॥ २।११९।१९ ॥ ॥ २।११९।२० ॥

उच्छिष्टं वा प्रमत्तं वा तापसं १ब्रह्मचारिणम्।

अदन्त्यस्मिन् महारण्ये तान् निवारय, राघव ॥ २० ॥

उच्छिष्टंअशुचिम्। प्रमत्तंअसावधानम्। तान्रक्षोव्यालान् ॥ २० ॥

१धर्मचारिणम्ङ।

॥ २।११९।२० ॥ ॥ २।११९।२१,२२ ॥

एष पन्था महर्षीणां फलान्याहरतां वने।

अनेन तु वनं दुर्गं गन्तुं, राघव ते क्षमम् ॥ २१ ॥

१इतीरितः प्राञ्जलिभिस्तपस्विभिः

द्विजैः कृतस्वस्त्ययनः परन्तपः।

वनं सभार्यः प्रविवेश राघवः

सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् अयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः

समाप्तश्चायमयोध्याकाण्डः

इतीरित इति। एवमुपदिष्टमार्ग इत्यर्थः। रेखा(२२)मानः सर्गः ॥ २२ ॥

इति श्रीमन्माधवयोगिविरचितायां श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः।

समाप्तश्चायमयोध्याकाण्डः

फलान्याहरतांफलाद्याहरणार्थं गच्छतां आगच्छतां चेति यावत्।

१इतीव तैःङ।

॥ २।११९।२२ ॥