११८ अनसूयया आभरणदानम्

अष्टादशोत्तरशततमः सर्गः

[सीताऽनसूयासंवादः] ॥ २।११८।१ ॥

सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया।

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १ ॥

अथ अनसूयासीतासंवादः। सा त्वित्यादि। अनसूयाअसूयारहिता। एवमिति। एवं धर्मबोधनमित्यर्थः ॥ १ ॥

॥ २।११८।१ ॥ ॥ २।११८।२ ॥

नैतदाश्चर्य १मार्यायां यन्मां त्वमनुभाषसे।

विदितं तु ममाप्येतत् यथा नार्याः पतिर्गुरुः ॥ २ ॥

नार्याः पतिः गुरुःपरमोपास्य इति यथा भवत्या उपदिष्टं, एतत् विदितंएतद्विषयकं वेदनंज्ञानं ममाप्यस्ति ॥ २ ॥

१मार्यायाःङ।

॥ २।११८।२ ॥ ॥ २।११८।३ ॥

यद्यप्येष भवेद्भर्ता १अनार्यो २वृत्तिवर्जितः।

३अद्वैधमत्र वर्तव्यं तथाऽप्येष मया भवेत् ॥ ३ ॥

तदेव प्रदर्श्यतेयद्यपीत्यादि। ममअस्मदादिकायाः आर्यःपूज्य एव भर्ता यद्यपि वृत्तिवर्जितः भवेत् वृत्तिरहितः जीवनरहितःदरिद्रोऽपि वा एष भवेदपि तथाऽपि मयाअस्मदादिकया अत्रभर्तरि अद्वैधं अद्वैविध्यंप्रकारद्वयराहित्यं वर्तव्यंवर्तितव्यमिति यावत्, प्रीतिप्रकारमेवात्र वर्तितव्यमित्यर्थः। परस्तुएषोऽद्वैविध्यमिति योजयित्वा योजयित्वा वृथा क्लेशमनुभवति। अस्माभिस्तु स्वरसयोजना दर्शितैव ॥ ३ ॥

१ममार्येङ।

२वृत्त, वित्तङ।

अद्वैधंद्वैवीभावरहितम्। उपवर्तव्यःगुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थःगो।

३अद्वैधमुपवर्तव्यं, अवश्यमुपवर्तव्यःङ।

॥ २।११८।३ ॥ ॥ २।११८।४ ॥

किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः।

स्थिरानुरागो धर्मात्मा १मातृवत् पितृवत् प्रियः ॥ ४ ॥

किं पुनरिति। विप्रकारनिमित्तप्रसङ्गरहिते अस्मद्भर्तरि नित्यप्रियैकप्रकारवृत्तौ किं पुनः। उक्तनिमित्ताभाव एव प्रपञ्च्यतेगुणश्लाघ्य इत्यादि। प्रिय इति। मयीति शेषः ॥ ४ ॥

मातृवत् प्रियःप्रियपरत्वात्। पितृवत् प्रियःअत्यन्तहितपरत्वात्गो। मातृवर्तीमातृशुश्रूषकःती।

१मातृवर्ती पितृप्रियःङ।

॥ २।११८।४ ॥ ॥ २।११८।५ ॥

यां वृत्तिं वर्तते रामः कौसल्यायां १महायशाः।

तामेव नृपनारीणाम् अन्यासामपि वर्तते ॥ ५ ॥

अन्यासामपीति। सुमित्रादीनां विषयेऽपीत्यर्थः ॥ ५ ॥

१महाबलःच।

नृपनारीणांसप्तम्यर्थे षष्ठीगो।

॥ २।११८।५ ॥ ॥ २।११८।६ ॥

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः।

मातृवद्वर्तते १वीरः मानमुत्सृज्य धर्मवित् ॥ ६ ॥

नृपेणेति। दशरथेनेत्यर्थः। मानमुत्सृज्येति। अहं महाप्रभुरित्यभिमानमुत्सृज्येत्यर्थः ॥ ६ ॥

१रामःङ।

॥ २।११८।६ ॥ ॥ २।११८।७ ॥

आगच्छन्त्याश्च विजनं वनमेवं भयावहम्।

समाहितं हि मे श्वश्र्वा हृदये १यत् स्थिरं मम ॥ ७ ॥

श्र्वश्र्वा यत् समाहितं–यया बुद्ध्या चित्तसमाधानं कृतं, तन्मम हृदये स्थिरम् ॥ ७ ॥

समाहितंउपदिष्टंगो।

१तत् धृतंङ।

॥ २।११८।७ ॥ ॥ २।११८।८ ॥

पाणि १प्रदानकाले च यत् पुरा त्वग्निसन्निधौ।

२अनुशिष्टं जनन्या मे वाक्यं तदपि मे धृतम् ॥ ८ ॥

तदपि धृतमिति। जनन्यनुशासनमपि धृतं–अवधृतंहृद्गतमित्यर्थः ॥ ८ ॥

पाणिप्रदानंपाण्यादानंपाणिग्रहणमिति यावत्।

१ग्रहणङ।

२अनुशिष्टाङ।

॥ २।११८।८ ॥ ॥ २।११८।९ ॥

१न विस्मृतं तु २ते सर्वं वाक्यैः ३स्वैः, धर्मचारिणि

पतिशुश्रूषणान्नार्याः तपो नान्यद्विधीयते ॥ ९ ॥

पतिशुश्रूषणं नार्यास्तपः, नान्यत्तपो विधीयत इत्येवंप्रकारकैस्ते वाक्यैस्तन्न विस्मृतम् ॥ ९ ॥

१नवीकृतं चङ।

२मेच।

३तेङ।

॥ २।११८।९ ॥ ॥ २।११८।१० ॥

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते।

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥

सावित्रीति काचन पुण्यस्त्री। देव्याः सावित्र्याः मूलविद्याविग्रहायाः सकलसंसारवर्गदायाः केनचित्साधनेन न हि किञ्चिल्लोकप्राप्तिः। तथावृत्तिरिति। सावित्रीसमानवृत्तिरित्यर्थः। त्वमित्यनसूयार्थकम्। पतिशुश्रूषया दिवं मूर्त्यन्तरेण याता तपोऽर्थमिह वर्तमानैवेति शेषः। तथात्वं वसिष्ठारुन्धत्यादिसपत्नीकसप्तर्षीणां प्रसिद्धम् ॥ १० ॥

यातायास्यसीति यावत्। करगतत्वाभिप्रायेण वा लुट्प्रयोगः।

॥ २।११८।१० ॥ ॥ २।११८।१११३ ॥

वरिष्ठा सर्वनारीणां एषा च दिवि देवता।

रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥

एवं विधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः।

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२ ॥

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः।

शिरस्याघ्राय चोवाच मैथिलीं १हर्षयत्युत ॥ १३ ॥

हर्षयत्युतहर्षयत्यपि इत्यर्थः उताप्यर्थविकल्पयोःऽ ॥

रोहिणीति। पूर्वकृतपतिशुश्रूषावशादेवं पतिसाहित्यं प्राप्तमिति भावःति।

प्रवराः स्त्रियःअरुन्धत्यादयःति।

१हर्षयन्त्युतङ।

॥ २।११८।१११३ ॥ ॥ २।११८।१४ ॥

नियमैर्विविधैराप्तं १तपो हि महदस्ति मे।

तत्संश्रित्य बलं, सीते छन्दये त्वां, २शुचिव्रते ॥

छन्दयेप्रीणये ॥ १४ ॥

१तपोभिःङ।

तत् बलं संश्रित्यतपोबलमाश्रित्य।

२शुचिस्मितेङ।

॥ २।११८।१४ ॥ ॥ २।११८।१५,१६ ॥

उपपन्नं १च युक्तं च वचनं तव, मैथिलि

प्रीता चास्म्युचितां, सीते करवाणि प्रियं च किम्? ॥

तस्यास्तद्वचनं श्रुत्वा २विस्मिता ३मन्दविस्मया।

कृतमित्यब्रवीत् सीता तपोबलसमन्विताम् ॥ १६ ॥

मन्दः विस्मयःस्मितं यस्याः सा तथा। कृतमित्यब्रवीदिति। भवत्या अनुग्रहेणैव सिद्धं, नातः परं भवत्या किञ्चित् कर्तव्यमित्युक्तमित्यर्थः ॥ १६ ॥

१मनोज्ञं चङ।

अविस्मता तदैश्वर्यविषयकविस्मयरहितारा।

२ऽविस्मिताङ।

३मन्दविस्मिताच।

॥ २।११८।१५,१६ ॥ ॥ २।११८।१७ ॥

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्।

सफलं च १प्रहर्षं ते हन्त, सीते करोम्यहम् ॥ १७ ॥

तयेति। लोभरहितवाचेत्यर्थः ॥ १७ ॥

१प्रकर्ष चङ।

॥ २।११८।१७ ॥ ॥ २।११८।१८ ॥

इदं दिव्यं १वरं माल्यं वस्त्रमाभरणानि च।

अङ्गरागं च, वैदेहि महार्हमनुलेपनम् ॥ १८ ॥

अङ्गरागंअङ्गरञ्जनकरं अनुलेपनंअनुलेपनसाधनदिव्यगन्धद्रव्यविशेषमित्यर्थः ॥ १८ ॥

१परंङ।

अङ्गरागःकुङ्कुमहरिचन्दनादिः। अनुलेपनंकर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम्गो।

॥ २।११८।१८ ॥ ॥ २।११८।१९ ॥

मया दत्तमिदं, सीते तव गात्राणि शोभयेत्।

१अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ १९ ॥

अनुरूपंत्वदेकोचितम्। असंक्लिष्टंउपयोगेऽपि अशुचित्वादिदोषरहितम्। अतः नित्यमेव भविष्यतीति। धृतमाल्यादिकं सर्वं तदा तदा धृतमिव भविष्यतीत्यर्थः ॥ १९ ॥

अनुरूपं त्वद्गात्रानुरूपम्। असंक्लिष्टंअबाधितशोभम्गो।

१अनुरूपं तु संश्लिष्टंङ।

॥ २।११८।१९ ॥ ॥ २।११८।२०२२ ॥

अङ्गरागेण दिव्येन लिप्ताङ्गी, जनकात्मजे

शोभयिष्यति भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ २० ॥

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा।

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २१ ॥

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी।

श्लिष्टाञ्जलिपुटा धीरा समुपास्त १तपोधनाम् ॥ २२ ॥

श्लिष्टेति। रचितेति यावत् ॥ २२ ॥

प्रीतिदानं–क्षत्त्रियात्वात् प्रतिग्रहानधिकारेण प्रीतिदानमित्युक्तम्ति।

१तपस्विनीम्ङ।

॥ २।११८।२०२२ ॥ ॥ २।११८।२३ ॥

तथा सीतामुपासीनां अनसूया दृढव्रता।

वचनं प्रष्टुमारेभे १कथां काञ्चिदनु प्रियाम् ॥ २३ ॥

अनु प्रियामिति। अनुअनन्तरं प्रियां काञ्चित्कथां व्याजीकृत्य वचनं प्रष्टुमारेभे ॥ २३ ॥

प्रियकथामनुप्रियां कथामुद्दिश्य सीतां प्रष्टुं वचनमारेभेगो।

१काञ्चित् प्रियकथामनुङ।

॥ २।११८।२३ ॥ ॥ २।११८।२४ ॥

स्वयंवरे किल प्राप्ता त्वमनेन १यशस्विना।

राघवेणेति मे, सीते कथा श्रुतिमुपागता ॥ २४ ॥

अनेन राघवेण। मे श्रुतिंमम श्रोत्रपथम् ॥ २४ ॥

१यशस्विनीङ।

॥ २।११८।२४ ॥ ॥ २।११८।२५२८ ॥

तां कथां श्रोतुमिच्छामि विस्तरेण च, मैथिलि

१यथाभूतं च कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २५ ॥

एवमुक्ता तु सा सीता तापसीं धर्मचारिणीम्।

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २६ ॥

मिथिलाधिपतिर्वीरः जनको नाम धर्मवित्।

२क्षत्त्रधर्मे ह्यभिरतः न्यायतः शास्ति मेदिनीम् ॥ २७ ॥

तस्य लाङ्गलहस्तस्य ३कृषतः क्षेत्रमण्डलम्।

अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २८ ॥

लाङ्गलहस्तस्य क्षेत्रमण्डलं कृषत इति। षड्गवेन कृषतिऽ इति श्रुतेः अग्निवयनार्थमिति शेषः भावलक्षणे षष्ठी, कृषति सतीत्यर्थः। तस्य पुरः जगतींभुवम् ॥ २८ ॥

१यथाऽनुभूतंङ।

२क्षत्त्रकर्मण्यभिरतःच।

३कर्षतःङ।

॥ २।११८।२५२८ ॥ ॥ २।११८।२९ ॥

स मां दृष्ट्वा नरपतिः मुष्टिविक्षेपतत्परः।

पांसुकुण्ठितसर्वाङ्गीं विस्मितो जनकोऽभवत् ॥ २९ ॥

मुष्टिविक्षेपतत्परः स इति। कृष्टक्षेत्रसमीकरणाय उन्नतमृत्तिकामुष्टिविक्षेपतत्परः। पांसुकुण्ठितसर्वाङ्गींलाङ्गलपद्धतिनिम्नप्रदेशगतत्वादेव तथात्वम् ॥ २९ ॥

मुष्टिविक्षेपतत्परः या जाता ओषधयः इति चतुर्दशभिः ओषधीर्वपतिऽ इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्परःगो।

॥ २।११८।२९ ॥ ॥ २।११८।३०,३१ ॥

अनपत्येन च स्नेहात् अङ्कमारोप्य च स्वयम्।

१ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ ३० ॥

अन्तरिक्षे च वागुक्ता प्रतिमामानुषी किल।

एवमेतन्नरपते धर्मेण तनया तव ॥ ३१ ॥

अनपत्येनतेन जनकेन।

१ममैवङ।

मा प्रतिमामुद्दिश्य, एवमेतन्नरपते धर्मेण तनया तवेति अन्तरिक्षे अमानुषी वागुक्ता। यद्वा, वागुक्ताप्रतिमेत्यत्र अप्रतिमेति छित्वा वाग्विशेषणतया योज्यम्गो। अप्रतिमाउच्चारयितृस्वरूपरहिता अमानुषीमानुषवाक्सदृशीरा।

॥ २।११८।३०,३१ ॥ ॥ २।११८।३२ ॥

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः।

अवाप्तो मिथिलामृद्धिं मामवाप्य नराधिपः ॥ ३२ ॥

मामवाप्येति। यज्ञभूमेरिति शेषः ॥ ३२ ॥

॥ २।११८।३२ ॥ ॥ २।११८।३३ ॥

दत्ता चास्मी ष्टवद्देव्यै ज्येष्ठायै पुण्य १कर्मणे।

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ ३३ ॥

इष्टवत्स्वार्थे वतिः, इष्टायै इत्यर्थः। पुण्यकर्मण इति। मन इति न ङीप् ॥ ३३ ॥

इष्टवद्देव्यैइच्छावत्यै देव्यैगो। इष्टं इति भावे क्तः।

१कर्मणाङ।

॥ २।११८।३३ ॥ ॥ २।११८।३४ ॥

१पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता।

चिन्तामभ्यगमद्दीनः वित्तनाशादिवाधनः ॥ ३४ ॥

सुलभमिति। उचितमिति यावत् ॥ ३४ ॥

पतिसंयोगे सति सुलभं, अन्यथा दुर्लभमित्यर्थः। पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थःगो। पतिसंयोग सुलभः यस्मिन्रा।

१भर्तृङ।

वित्तनाशात् आर्जितवित्तनाशात् अधनःरा। अधनःदरिद्रःकथञ्चित्प्राप्तवित्तनाशादिव, मां प्राप्य, ममानुरूपपत्यलाभात् मत्प्राप्त्यानन्दक्षयात् दीनःइति वा।

॥ २।११८।३४ ॥ ॥ २।११८।३५ ॥

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्।

प्रधर्षणामवाप्नाति शक्रेणापि समो भुवि ॥ ३५ ॥

कन्यायाः पिताकन्यापिता तु भुवि शक्रेण समोऽपि लोके सदृशात् जनात् अपकृष्टाच्च वरवर्गात् प्रधर्षणांसम्मानादिविषयक्लेशमेवावाप्नोति, किमुताधिकादिति शेषः ॥ ३५ ॥

सदृशादपि, अपकृष्टादपि किमुत उत्कृष्टादिति भावः।

प्रधर्षणां तिरस्क्रितंगो

॥ २।११८।३५ ॥ ॥ २।११८।३६ ॥

तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः।

चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ ३६ ॥

प्लवःपोतः ॥ ३६ ॥

॥ २।११८।३६ ॥ ॥ २।११८।३७३९ ॥

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन्।

सदृशं १चाभिरूपं च महीपालः २पतिं मम ॥ ३७ ॥

तस्य बुद्धिरयं जाता चिन्तयानस्य सन्ततम्।

स्वयंवरं तनूनायाः करिष्यामीति ३धीमतः ॥ ३८ ॥

महायज्ञे तदा तस्य वरुणेन महात्मना।

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ ३९ ॥

महायज्ञ इति। मदुत्पत्तिसमानकालीन इति शेषः। वरुणेनेति। देवैः प्रेरितेनेति शेषः। एवञ्च सदसि देवैः दत्तम्ऽ इति बालकाण्डोक्तमप्यविरुद्धम् ॥ ३९ ॥

सदृशंअभिजनवृत्तादिना तुल्यं, अनुरूपंप्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यंगो।

१चानुरूपंङ।

२पतिःङ।

३धर्मतःच।

महायज्ञेदक्षयज्ञे तस्यमत्पितृपूर्वजस्य देवरातस्य तदा शत्रुजयसमर्थधनुर्लाभाय तपःकरणकाले। दक्षयज्ञे हि शिवेन पीडिता देवाः शिवं सम्प्रार्थ्य धनुर्योचितवन्तः। स च देवेभ्यो दत्त्वोक्तवान् इदं देवराताय दीयतामिति। ततो देवैः वरुणद्वारा देवराताय दत्तम्। यद्वाव्रियते सर्वदेवैरिति व्युत्पत्त्या वरुणः शिव एव ति। वरुणेन दत्तंवरुणेनातिसहकारिणा दत्तम्गो।

॥ २।११८।३७३९ ॥ ॥ २।११८।४० ॥

असञ्चाल्यं मनुष्यैश्च १यत्नेनापि च गौरवात्।

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ ४० ॥

गौरवात्भारात् ॥ ४० ॥

१बलेनापिङ।

सूक्ष्मवादिनाङ।

॥ २।११८।४० ॥ ॥ २।११८।४१४३ ॥

तद्धनुः प्राप्य मे पित्रा व्याहृतं १सत्यवादिना।

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ ४१ ॥

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः।

तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४२ ॥

तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसन्निभम्।

अभिवाद्य नृपा जग्मुः अशक्तास्तस्य तोलने ॥ ४३ ॥

अभिवाद्य केवलं जग्मुः ॥ ४३ ॥

१सूक्ष्मवादिनाङ।

गौरवात्भारात् तस्य तालनेऽशक्ता इत्यन्वयः।

नर्मोक्तिरियम्

॥ २।११८।४१४३ ॥ ॥ २।११८।४४४७ ॥

सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः।

विश्वामित्रेण सहितः यज्ञं द्रष्टुं समागतः ॥ ४४ ॥

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः।

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४५ ॥

प्रोवाच पितरं तत्र १राघवौ रामलक्ष्मणौ।

सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ २ ॥ ४६ ॥

इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्।

३तद्धनुर्दर्शयामास राजपुत्राय दैविकम् ॥ ४७ ॥

दैविकंदेवनिर्मितम् ॥ ४७ ॥

१भ्रातरौङ।

रामलक्ष्मणावुद्दिश्य पितरं प्रोवाच।

२एतदनन्तरं–धनुर्दर्शय रामाय राजपुत्राय दैविकम्–इत्यधिकंङ

३इदमर्धं कुण्डलितंङ৷৷

॥ २।११८।४४४७ ॥ ॥ २।११८।४८ ॥

निमेषान्तरमात्रेण तदानम्य १महाबलः।

ज्यां समारोप्य झटिति २पूरयामास वीर्यवान् ॥ ४८ ॥

पूरयामासेति। सज्यं कृत्वा आकृष्टवानित्यर्थः ॥ ४८ ॥

१स वीर्यवान्, सुवीर्यवान्, स राघवःङ।

२पूरयामास वीर्यवत्, वीर्यवद्बलवद्धनुःङ।

॥ २।११८।४८ ॥ ॥ २।११८।४९५१ ॥

तेनापूरयता वेगात् मध्ये भग्नं १द्विधा धनुः।

तस्य शब्दोऽभवत् भीमः पतितस्याशनेर्यथा ॥ ४९ ॥

ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना।

२उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ५० ॥

दीयमानां न तु तदा प्रतिजग्राह राघवः।

अविज्ञाय पितुश्छन्दम् अयोध्याधिपतेः प्रभोः ॥ ५१ ॥

छन्दंअभिप्रायम् ॥ ५१ ॥

तेनरामेण।

१महत्ङ।

जलभाजनमुद्यम्य दातुमुद्यतामां दातुम् उद्युक्तवानिति यावत्।

२निश्चिताङ।

॥ २।११८।४९५१ ॥ ॥ २।११८।५२५४ ॥

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्।

१मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ ५२ ॥

मम चैवानुजा साध्वी ऊर्मिला २शुभदर्शना।

भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३ ॥

एवं दत्ताऽस्मि रामाय तथा तस्मिन् स्वयंवरे।

अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम् ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः।

आगम(५३ १२)मानः सर्गः ॥ ५४ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः।

१मात्राङ।

सीताप्राप्त्यनन्तरं जनकस्येयं जातेति वदन्ति।

२प्रियङ।

॥ २।११८।५२५४ ॥