११७ अत्र्याश्रमगमनम्

सप्तदशोत्तरशततमः सर्गः

[अत्र्याश्रमगमनम्]

॥ २।११७।१ ॥

राघवस्त्वपयातेषु १सर्वेष्वनुविचिन्तयन्।

न तत्रारोचयद्वासं कारणैऽर्बहुभिस्तदा ॥ १ ॥

अथ नानोपाधिविमर्शनेन परित्यक्तचित्रकूटाश्रमस्य रामस्य अत्र्याश्रमे अत्र्यनसूयासमागमः। राघव इत्यादि। अनुविचिन्तयन्वक्ष्यमाणमुपाधिमिति शेषः ॥ १ ॥

१तपस्विषुङ।

॥ २।११७।१ ॥ ॥ २।११७।२ ॥

इह मे भरतो दृष्टः मातरश्च सनागराः।

१तयोश्च स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २ ॥

तस्यैव प्रदर्शनंइह म इत्यादि। मयेति यावत्। तयोरिति। मात्रोरिति यावत् ॥ २ ॥

१सा च मेङ।

पुमांस्त्रियाऽ इति समासः।

॥ २।११७।२ ॥ ॥ २।११७।३ ॥

स्कन्धावारनिवेशेन तेन तस्य महात्मनः।

हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥ ३ ॥

राजधानीतो निर्गता सेना स्कन्धावारः, तस्य निवेशः तथा ॥ ३ ॥

तस्य महात्मनःभरतस्य तेन स्कन्धावारनिवेशेनेत्यन्वयः। स्कन्धावारःसेनासमूहःरा।

॥ २।११७।३ ॥ ॥ २।११७।४,५ ॥

१तस्मादन्यत्र २गच्छामः इति सञ्चिन्त्य राघवः।

प्रातिष्ठत स वैदेह्या लक्ष्मणेन च ३सङ्गतः ॥ ४ ॥

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः।

तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ ५ ॥

प्रत्यपद्यतेति। राममिति शेषः ॥ ५ ॥

१अस्माङ।

२गच्छामिङ।

३संवृतःङ।

॥ २।११७।४,५ ॥ ॥ २।११७।६ ॥

स्वयमातिथ्यमादिश्य १सर्वमस्य सुसत्कृतम्।

सौमित्रिं च २महाभागं सीतां च समसान्त्वयत् ॥ ६ ॥

स्वयमिति। वृद्धां पत्नीमक्लशयन् आतिथ्यं आदिश्यविज्ञाप्य तत्सर्वमातिथ्यं सुसत्कृतं कृत्वा असान्त्वयत्अप्रीणयत् ॥ ६ ॥

१सर्वमर्घ्यङ।

२महाभागांङ।

॥ २।११७।६ ॥ ॥ २।११७।७ ॥

पत्नीं च १तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्।

सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ ७ ॥

तदनन्तरं अनुप्राप्तां वृद्धां वाचा सत्कृतां आमन्त्र्यसम्बोध्य वैदेह्याः पुत्रीवत्परिग्रहार्थं सान्त्वयामास ॥ ७ ॥

तंअत्रि अनुअनुसृत्य।

१समनुङ।

॥ २।११७।७ ॥ ॥ २।११७।८ ॥

अनसूयां महाभागां तापसीं धर्मचारिणीम्।

प्रतिगृह्णीष्व वैदेहीम् अब्रवीदृषिसत्तमः ॥ ८ ॥

अनन्तरं ताम् अनसूयां, उच्यमानलक्षणां वैदेही प्रतिगृह्णीष्वेत्यब्रवीत् ॥ ८ ॥

॥ २।११७।८ ॥ ॥ २।११७।९१३ ॥

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्।

दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ ९ ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता।

१मन्त्रे तपसा युक्ता नियमैश्चाप्यलङ्कृता ॥ १० ॥

दशवर्षसहस्राणि यया तप्तं महत्तपः।

अनसूया २व्रतैः, तात प्रत्यूहाश्च ३निबर्हिताः ॥ ११ ॥

देवकार्यनिमित्तं च यया सन्त्वरमाणया।

दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥ १२ ॥

तामिमां सर्वभूतानां नमस्कार्यां ४तपस्विनीम्।

अभिगच्छतु वैदेही वृद्धामक्रोधनां ५सदा ॥ १३ ॥

तामाचचक्ष इति। तद्वैभवमाख्यातवानित्यर्थः। तदेव प्रदर्श्यतेदशेत्यादि। मूलफले सृष्टे इति। ऋषीणामुपजीवनायेति शेषः। जाह्नवीगङ्गा च तेषां स्नानाद्यर्थम् आवाहिता। मन्त्रेणमन्त्रसिद्धिवैभवेन। अनसूयाया व्रतानि तथा। प्रत्यूहा इति। ऋषीणां तप प्रत्यूहा इत्यर्थः। न केवलं ऋष्यनुग्रहः अपि तु देवानुग्रहोऽपीत्याह–देवेत्यादि। रात्रिरिति। प्रातर्विधवा भवऽ इति माण्डव्यऋषिशप्तनालायिन्या मा प्रातर्भूयात्ऽ इति शापतो व्युष्टि(रिष्ट)निहता रात्रिः देवप्रार्थनया नालायिनीसख्याऽनयाऽनसूयया दशरात्रं कृतंदशरात्रमात्रे सङ्कुचितं वैधव्यं सख्याः परिहृतम्। सप्तम्यर्थे द्वितीया। एवं मह प्रभावा इयं हे अनघ तेत्वया मातेव प्रतिपत्तव्या। अभिगच्छतु–मातृवद्भवतु ॥ ९१३ ॥

१उग्रेणङ।

२व्रतस्नाताङ।

३निवर्तिताः

अत्रेय पौराणिकी कथाअनसूयायाः काचन सखी पतिव्रताऽभूत्। सा च, काञ्चन वेश्यां दृष्ट्वा तत्सङ्गं कामयमानं स्वपतिं स्वस्कन्धे समारोप्य तद्गृहं गन्तुमारेभे। तत्समये माण्डव्यर्षिः चोरबुध्या राजभटैः शूले समारोपितः। स च मार्गे पतिव्रतायाः पत्या पदा स्पृष्टः अतीव व्यथितोऽभूत्। तं च दशाहाभ्यन्तरे सूर्योदये सति म्रियस्वेति शशाप माण्डव्यः। ततः तद्भार्या सूर्योदयानन्तरं किल मद्भर्तुः मरणं, स एव मा भूदित्यूवे। ततश्च तत्प्रभावात् सूर्येऽनुदिते यज्ञादिलोपे प्राप्ते देवा ब्रह्माणमासाद्य प्रार्थयामासुः। स चावादीत्तत्सखीमनसूयां प्रार्थयत, सा भवत्कार्यं करोतीति। ततस्तैः प्रार्थिता सती अनसूया दशरात्रावधिकालम् एकरात्रित्वेन कृत्वा सूर्योदयानन्तरं तद्भर्तुर्मरणे सति पुनरुज्जीवयिष्याम इति वरं ददतेत्युक्त्वा तैर्वरं गृहीत्वा देवकार्यं कृतवतीतिति।

४यशस्विनीम्ङ।

५सतीम्ङ।

॥ २।११७।९१३ ॥ ॥ २।११७।१४,१५ ॥

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः।

सीतामालोक्य धर्मज्ञाम् इदं वचनमब्रवीत् ॥ १४ ॥

राजपुत्रि श्रुतं त्वेतत् मुनेरस्य समीरितम्।

श्रेयोऽर्थमात्मनः शीघ्रम् अभिगच्छ तपस्विनीम् ॥ १५ ॥

हे राजपुत्रि अस्य मुनेः समीरितंवचनं च यस्मात् श्रुतं, अतः श्रेयोऽर्थमित्यादि ॥ १५ ॥

॥ २।११७।१४,१५ ॥ ॥ २।११७।१६ ॥

अनसूयेति या लोके कर्मभिः ख्यातिमागता।

१तां शीघ्रमभिगच्छ त्वम् अभिगम्यां तपस्विनीम् ॥ १६ ॥

अनसूयेति। अन्वर्थनाम्नीति यावत् ॥ १६ ॥

यद्वाकर्मभिः पातिव्रत्यवर्धकैः अन्याभिः कर्तुमशक्यैः पतिरक्षणादिकर्मभिः अनसूया अस्पर्धनीयमाहात्म्ययुक्तत्वात् असूयितुमशक्यागो।

१इदमर्धं कुण्डलितंङ।

॥ २।११७।१६ ॥ ॥ २।११७।१७ ॥

सीता त्वेतद्वचः श्रुत्वा राघवस्य १यशस्विनी।

तामत्रिपत्नीं धर्मज्ञाम् अभिचक्राम मैथिली ॥ १७ ॥

राघवस्य वचः श्रुत्वेत्यन्वयः ॥ १७ ॥

१हितैषिणः, हितैषिणीङ।

॥ २।११७।१७ ॥ ॥ २।११७।१८,१९ ॥

शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम्।

सततं वेपमानाङ्गीं प्रवाते कदलीं १यथा ॥ १८ ॥

२तां तु सीता महाभागाम् अनसूयां पतिव्रताम्।

अभ्यवादयदव्यग्रा ३स्वनाम समुदाहरत् ॥ १९ ॥

शेथिलांशिथिलसन्धिबन्धां वलितांसञ्जातवलीमतीं वृद्धांइदं सर्वोपपादकं विशेषणम् सततं वेपमानाङ्गीं, अत एव प्रवाते कदलीं यथाइव स्थिताम्। अव्यग्राअव्याक्षपा। स्वनाम समुदाहरदिति। अभिवादनाङ्गत्वेनेति शेषः ॥ १८१९ ॥

वलिताःवलयः वार्धक्यनिबन्धनत्वग्वैरूप्यजन्याःसञ्जातवलयाम्।

१इवच।

२ततः सीता महाभागा दृष्ट्वा तां धर्मचारिणीम्ङ।

३स्वं नामङ।

॥ २।११७।१८,१९ ॥ ॥ २।११७।२०,२१ ॥

अभिवाद्य च वैदेही तापसीं तां दमान्विताम्।

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २० ॥

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्।

सान्त्वयन्त्यब्रवीत् १हृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २१ ॥

तां सीतां धर्मचारिणीं दृष्ट्वा हृष्टा। दिष्ट्यादैवयोगेन ॥

१वृद्धाच।

॥ २।११७।२०,२१ ॥ ॥ २।११७।२२ ॥

त्यक्त्वा ज्ञातिजनं, सीते मानवृद्धिं च, मानिनि

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २२ ॥

मानेति। राजसुता राजपत्नी चाहं तापसीवद्वनं कथं गच्छेयमिति प्रवृद्धाभिमानं हित्वेत्यर्थः ॥ २२ ॥

वने अवरुद्धंचतुर्दशवर्षाणि प्राप्तनिर्बन्धवनवासम्।

॥ २।११७।२२ ॥ ॥ २।११७।२३ ॥

नगरस्थो वनस्थो वा १शुभो वा यदि वाऽशुभः।

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २३ ॥

भर्ता प्रिय इति। लौकिकालौकिकनिमित्तविशेषतः विप्रियानास्पदभूत इत्यर्थः ॥ २३ ॥

१पापोङ।

॥ २।११७।२३ ॥ ॥ २।११७।२४ ॥

दुःशीलः कामवृत्तो वा १धनैर्वा परिवर्जितः।

स्त्रीणामार्यस्वभावानां परमं देवतं पतिः ॥ २४ ॥

आर्यस्वभावानांपूज्यस्वभावानाम् ॥ २४ ॥

१धनी वा यदि वाऽधनःङ।

॥ २।११७।२४ ॥ ॥ २।११७।२५ ॥

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्।

सर्वत्र योग्यं, वैदेहि तपः कृतमिवाव्ययम् ॥ २५ ॥

अतःभर्तुः। बान्धवं–इष्टबन्धुम्। सर्वत्र योग्यंइहामुत्रसुखसाधनतया भजनयोग्यम्। तत्र दृष्टान्तः–तपःकृतमिति। भावे निष्ठा, तपोऽनुष्ठानमिति यावत् ॥ २५ ॥

सर्वत्र योग्यंसर्वावस्थासु रक्षणसमर्थम्गो।

॥ २।११७।२५ ॥ ॥ २।११७।२६ ॥

१न त्वेवमनुगच्छन्ति गुणदोषमसत्स्त्रियः।

२कामवक्तव्यहृदयाः भर्तृनाथाश्चरन्ति याः ॥ २६ ॥

कामवक्तव्यहृदयाःकामाधीनचित्ताः, गृह्याधीनौ तु वक्तव्यौऽ, अत एव भर्तृनाथाःभर्त्रपेक्षावत्यः ॥ २६ ॥

१न त्वेनमवङ।

कामवक्तव्यहृदयाःकामविषयवक्तव्यहृदयाः कामरूपार्थाभिलाषिण्य इति यावत्। यद्वा मदनविधेयहृदयाः। भर्तृनाथाःभर्तृ़णां नाथभूताः, भर्तृनियामका इत्यर्थः। यद्वा भर्तारं नाथन्तेयाचन्ते इति तथा, परपुरुषकाङ्क्षिण्य इत्यर्थःगो।

२काममव्यक्तहृदयाःङ।

॥ २।११७।२६ ॥ ॥ २।११७।२७ ॥

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च, मैथिलि

अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ २७ ॥

याः तद्विधाःउक्तासद्गुणवत्यः (ताः) खलु अयश आदिकं प्राप्नुवन्ति ॥ २७ ॥

अकार्यंअकृत्यंपापपरवशा इति यावत्।

॥ २।११७।२७ ॥ ॥ २।११७।२८ ॥

१त्वद्विधास्तु गुणैर्युक्ताः दृष्टलोकपरावराः।

स्त्रियः स्वर्गे चरिष्यन्ति यथा २पुण्यकृतस्तथा ॥ २८ ॥

दृष्टः लोकः परः अवरश्च याभिस्ताः तथा ॥ २८ ॥

१तद्विधाङ।

२धर्मकृतङ।

॥ २।११७।२८ ॥ ॥ २।११७।२९ ॥

तदेवमेतं त्वमनुव्रता सती

पतिप्रधाना समयानुवर्तिनी।

भवस्व भर्तुः सहधर्मचारिणी

यशश्च धर्मं च ततः समाप्स्यसि ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः

समयःआचारः। धरा(२९)मानः सर्गः ॥ २९ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः।

भवस्वभव, आर्षमात्मनेपदम्। ततः भर्तुः सहधर्मचारित्वेन यशश्च धर्मं च कालान्तरानुभाव्यसुखसाधनं अदृष्टं च समाप्स्यसि। यद्वा भर्तुः सहधर्मचारिणी, एवम्भूता त्वं ततःभर्तुः सहधर्मचारित्वहेतोः यशश्च भवस्वप्राप्नुहीत्यर्थः। धर्मं च समाप्स्यसि। भूप्राप्तावात्मनेपदीऽ इति गणपाठात् प्राप्त्यर्थस्य भवतेरात्मनेपदम्गो।

॥ २।११७।२९ ॥