११६ चित्रकूटे मुनि-रामसंवादः

षोडशोत्तरशततमः सर्गः

[रामेण खरवृत्तान्तश्रवणम्] ॥ २।११६।१ ॥

१प्रतियाते तु भरते वसन् राम २स्तदा वने।

लक्षयामास ३चोद्वेगं अथौत्सुक्यं तपस्विनाम् ॥ १ ॥

एवं भरतवृत्तान्तमुपवर्ण्य, कविः प्रकृतं रामवृत्तान्तं वर्णयतिप्रतियात इत्यादि। तपस्विनां उद्वेगंभयं, अथ तद्वशात् औत्सुक्यं–स्थानान्तरगमनौत्सुक्यं च लक्षयामास। अयं व्यापारो भरतनिवृत्त्यनन्तरमपि बहुकालात् परम् ॥ १ ॥

१प्रतिप्रयातेङ।

२स्तपोवनेङ।

लक्षयामास। इङ्गिताकारादिभिरिति शेषःगो।

३सोद्वेगंङ।

॥ २।११६।१ ॥ ॥ २।११६।२ ॥

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे।

राममाश्रित्य निरताः तानलक्षयदुत्सुकान् ॥ २ ॥

तदेव प्रदर्श्यतेये तत्रेत्येदि। तापसाश्रम इति सन्धिरार्षः, पुरस्तात्पूर्वं ये तापसाः चित्रकूटस्य सम्बन्धिनि तत्राश्रमे राममाश्रित्य निरताःप्रतिष्ठिताः, तान् उत्सुकान् अलक्षयत्देशान्तरगमनोत्सुकानित्यर्थः ॥ २ ॥

अत्रेदं बोध्यम्चैत्रशुक्लदशम्यां पुष्ये रामवनप्रस्थानम्। ततः पूर्णिमायां अर्धरात्रे दशरथमरणम्। ततः पक्षेण भरतागमनमयोध्यायाम्। तत और्ध्वदैहिकेन पक्षो गतः। एवं वैशाखे गते ज्येष्ठे भरतस्य चित्रकूटं प्रति प्रस्थानम्। अग्रे वर्षाकाले सन्निहिते सति कार्तिक्यन्तं चित्रकूटे वासः। तदनन्तरं तापसौत्सुक्यलक्षणम्। न तु भरतनिवृत्त्यनन्तरमेवैतत्इति तिलके उक्तं, प्रदर्शितञ्चोक्तार्थे प्रमाणं पद्मपुराणम् ॥

॥ २।११६।२ ॥ ॥ २।११६।३ ॥

नयनैर्भ्रूकुटीभिश्च रामं १निर्दिश्य शङ्किताः।

अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ ३ ॥

कथमलक्षयदित्यतःनयनैरित्यादि। शनैःउपांशु। कथाश्चक्रुरिति। अयं रामः इहाश्रमे सस्त्रीको वर्तते। राक्षसा एतत्पीडार्थमिह सञ्चरन्तः अस्मानपि बाधन्ते। अतोऽवश्यं हित्वेममाश्रमं गन्तव्यंइत्येवमात्मिकाः कथाः ॥ ३ ॥

१उद्दिश्यङ।

शङ्किताःरामः किं मंस्यत इति शङ्किताःति।

॥ २।११६।३ ॥ ॥ २।११६।४ ॥

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि २शङ्कत।

कृताञ्जलिरुवाचेदं ऋषिं कुलपतिं ततः ॥ ४ ॥

आत्मनि शङ्कतेति। तेषां एतदाश्रमत्यागकारणम् आत्मनिष्ठो दोषः? अन्यो वा? इति शङ्कते स्म। अत एव कृताञ्जलिस्सन् कुलपतिंआश्रमपतिं ऋषिं उवाच। कुलमन्वयसङ्घातगृहोत्पत्त्याश्रमेषु चऽ ॥ ४ ॥

शङ्कतअशङ्कतति।

२शङ्कितःङ।

॥ २।११६।४ ॥ ॥ २।११६।५ ॥

न कच्चित्, भगवन् किञ्चित् पूर्ववृत्तमिदं मयि।

दृश्यते विकृतं, येन विक्रियन्ते तपस्विनः ॥ ५ ॥

न कच्चिदित्यादि। येन तपस्विनो विक्रियन्ते, तद्विकृतिसाधनं मया पूर्ववृत्तं–पूर्वमनुष्ठितं किञ्चित् विकृतंअपराधः मयि तापसैः न दृश्यते कच्चित् ॥ ५ ॥

॥ २।११६।५ ॥ ॥ २।११६।६ ॥

प्रमादाच्चरितं किञ्चित् कच्चिन्नावरजस्य मे।

१लक्ष्यमणस्यर्षिभिर्दृष्टं २नानुरूपमिवात्मनः ॥ ६ ॥

आत्मन इवममेव लक्ष्मणस्य च नानुरूपंन सामान्यतः अयुक्ताचरणंऋषिभिः न दृष्टं कच्चित् ॥ ६ ॥

१लक्ष्मणस्यापि निर्दिष्टंङ।

आत्मनः अनुरूपंस्वबाल्याद्यनुगुणमिति यावत्।

२नानुकूलं महात्मनःङ।

॥ २।११६।६ ॥ ॥ २।११६।७ ॥

कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि।

१प्रमदाभ्युचितां वृत्तिं सीताऽयुक्तां न वर्तते ॥ ७ ॥

वः शुश्रूषमाणाअर्घ्यपाद्यादिना सेवमाना। न वर्तत इति। युष्मास्विति शेषः ॥ ७ ॥

मयि शुश्रूषणपरेत्यादि। पतिशुश्रूषणमेव प्रमदायाः प्रथमो धर्म इति भावनया मच्छुश्रूषणात्यासक्त्या भवतां शुश्रूषणे कदाचित् किञ्चित् प्रच्युता वा सीताइति भावः।

१प्रमादाङ।

॥ २।११६।७ ॥ ॥ २।११६।८ ॥

अथर्षिर्जरयावृद्धः तपसा च जरां गतः।

वेपमान इवोवाच रामं भूतदया १परः ॥ ८ ॥

तपसा चेति। वृद्ध इत्यनुकर्षः ॥ ८ ॥

तपसा च जरां गतःतपसाऽपि वृद्ध इति वा अर्थः।

१परम्च।

॥ २।११६।८ ॥ ॥ २।११६।९,१० ॥

कुतः कल्याण १सत्त्वायाः कल्याणाभिरतेः सदा।

२स्खलनं, तात वैदेह्याः तपस्विषु विशेषतः ॥ ९ ॥

त्वन्निमित्तमिदं ३तावत् तापसान् प्रतिवर्तते।

रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥ १० ॥

त्वन्निमित्तं रक्षोभ्यो भयमित्यन्वयः ॥ १० ॥

१वृत्तायाःङ।

२चलनंच।

त्वन्निमित्तंत्वत्तो हेतोः रक्षोभ्यः समागतम् इदंवक्ष्यमाणम् उपद्रवजातं तापसान् प्रति वर्ततेगो।

३तातङ।

॥ २।११६।९,१० ॥ ॥ २।११६।११,१२ ॥

रावणावरजः कश्चित् खरो नामेह राक्षसः।

उत्पाट्य तापसान् सर्वान् जनस्थाननिवासिनः ॥ ११ ॥

धृष्टश्च जितकाशी च नृशंसः पुरुषादकः।

अवलिप्तश्च पापश्च त्वां च, तात न मृष्यते ॥ १२ ॥

किं तद्रक्षः? कुतश्च मन्निमित्तं ततो भयम्? इत्यतः तत् प्रतिपादयतिरावणावरज इत्यादि। जितकाशीजितभयः। तापसान् उत्पाट्यपीडयित्वा त्वां च न मृष्यतेपीडयितुमिच्छतीत्यर्थः ॥ १११२ ॥

उत्पाट्यउत्खाय, निष्कास्येति यावत्गो।

जितेनजयेन काशतेप्रकाशत इति जितकाशी। यद्वाजिताहवः, जितकाशी जिताहवःऽ इति हलायुधःगो।

॥ २।११६।११,१२ ॥ ॥ २।११६।१३ ॥

त्वं यदाप्रभृति ह्यस्मिन् आश्रमे, तात वर्तसे।

तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ १३ ॥

विप्रकुर्वन्तिविरोधंअनिष्टं कुर्वन्ति। एतदाश्रमस्थानमिति शेषः ॥ १३ ॥

॥ २।११६।१३ ॥ ॥ २।११६।१४ ॥

दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि।

नानारूपैः विरूपैश्च १रूपैरसुखदर्शनैः ॥ १४ ॥

कोऽसौ विप्रकार इत्यतः तत् प्रदर्शयतिदर्शयन्तीत्यादि। बीभत्सैःजुगुप्सितैः वेषैः क्रूरैःदुर्दर्शैः भीषणैःभयंकरैः एवमादिनानारूपैःनानाप्रकारैः विरूपैःविपरीतवेषैः स्वात्मानो दर्शयन्तीत्यन्वयः ॥ १४ ॥

१रूपैर्विकृतदर्शनैःङ।

॥ २।११६।१४ ॥ ॥ २।११६।१५ ॥

अप्रशस्तैरशुचिभिः १सम्प्रयुज्य च तापसान्।

प्रघ्नन्ति चापरान् क्षिप्रं २अनार्याः पुरतः ३स्थितान् ॥ १५ ॥

अप्रशस्तैःपापावहैः अशुचिभिश्चापि तापसान् सम्प्रयुज्य विप्रकुर्वन्ति। अपरान्अतिमृदून् तापसान् प्रघ्नन्तिप्रहरन्त्यपि ॥

अप्रशस्तैःअशुभैः, अशुचिभिःअशुचिद्रव्यैःगो।

१सम्प्रसह्यङ।

२माययाङ।

३स्थिताःङ।

॥ २।११६।१५ ॥ ॥ २।११६।१६ ॥

तेषु तेष्वाश्रमस्थानेष्व १बुध्यन्नवलीय च।

रमन्ते तापसांस्तत्र नाशयन्तो विचेतसः ॥ १६ ॥

अबुध्यन् निद्रां अवलीयनिर्भयं संश्लिष्य च नाशयन्तः, तथा विचेतसःव्याक्षिप्तानपरांश्च तापसान् तत्र तत्र नाशयन्तः रमन्ते ॥

अबुद्धं यथा तथा निलीयेत्यर्थः (पाठान्तरे)।

१बुद्धमवङ।

॥ २।११६।१६ ॥ ॥ २।११६।१७ ॥

१अवक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा।

कलशांश्च प्रमृद्गन्ति हवने समुपस्थिते ॥ १७ ॥

अवक्षिपन्तिअवस्कन्दयन्ति। स्रुग्भाण्डान्स्रुड्मुखयज्ञसम्भारान्। कलशान्उदकपात्राणि। हवनेयागे ॥ १७ ॥

१अवक्षिपन्त्यसृग्भाण्डान्ङ।

॥ २।११६।१७ ॥ ॥ २।११६।१८ ॥

तैर्दुरात्मभि १राविष्टान् आश्रमान् २प्रजिघांसवः।

गमनायान्यदेशस्य चोदयन्त्यृषयो ३ऽद्य माम् ॥ १८ ॥

प्रजिघांसव इति। हन्तिरिह गत्यर्थः अज्झनगमां सनिऽ इति दीर्घः, अभ्यासाच्चऽ इति कुत्वम्, परित्यक्तुमिच्छव इत्यर्थः। चोदयन्तीति। मामिति शेषः ॥ १८ ॥

१रामृष्टान्ङ।

२प्रजिहासवःङ।

३मिथःङ।

॥ २।११६।१८ ॥ ॥ २।११६।१९ ॥

तत्पुरा, राम शारीरीम् उपहिंसां तपस्विषु।

दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ १९ ॥

शारीरींशरीरसम्बन्धिनीम् उपहिंसां तपस्विषु दर्शयन्ति पुरा, यावत्पुराऽ इति लट्दर्शयिष्टन्तीति यत् ततःतस्मादेव इमं आश्रमं त्यक्ष्यामः ॥ १९ ॥

एतावता विप्रकरणमात्रं, क्रमशः विनाशायापि यावन्न प्रवर्तेरन्, तावदेवान्यत्र गच्छाम इति भावः। शरीरनाशमपि अल्पं मन्यमान आहउपहिंसामिति।

॥ २।११६।१९ ॥ ॥ २।११६।२० ॥

बहुमूलफलं चित्रम् अविदूरादितो १वनम्।

२अश्वस्याश्रममेवाहं ३श्रयिष्ये सगणः पुनः ॥ २० ॥

अश्वस्यन विद्यते श्वःसञ्चयः यस्य स तथा। एतेन रक्षोभयनिवारणक्षमं तपो दिव्यंलक्ष्यतेएवं च अश्वाख्यस्य महर्षेरित्यर्थः ॥ २० ॥

१ऽपरम्ङ।

पुराणाश्रमंऽ इति पाठेचित्रकूटे रामनिवासं ज्ञात्वाऽत्रागता एते इति ज्ञायते।

२कण्वस्याश्रम, पुराणाश्रमङ।

३गमिष्येङ।

॥ २।११६।२० ॥ ॥ २।११६।२१ ॥

खरस्त्वय्यपि चायुक्तं पुरा, १राम प्रवर्तते।

सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥ २१ ॥

त्वय्यपीति। एतावत्कालमस्मद्रक्षकत्वापराधादिति शेषः। प्रवर्तते पुरेतिप्रवर्तयिष्यतीति यावत् ॥ २१ ॥

१तातङ।

॥ २।११६।२१ ॥ ॥ २।११६।२२ ॥

सकलत्रस्य सन्देहः १नित्यं युक्तस्य, राघव

समर्थस्यापि २सहितः वासो दुःख इहाद्य ते ॥ २२ ॥

सकलत्रस्येति। नित्यं युक्तस्य–सदा सावधानस्य रक्षोनिग्रहे समर्थस्यापि सतः तव च इहाश्रमे सन्देहः–मत्वर्थीयान्तः–रक्षःपीडासन्देहवान् वासः दुःखो हि ॥ २२ ॥

सन्देहःसन्देहजनकः। यत्तस्यसन्नद्धस्य (पाठान्तरं)गो।

१नित्यं यत्तस्यङ।

२वसतःङ।

॥ २।११६।२२ ॥ ॥ २।११६।२३ ॥

इत्युक्तवन्तं १रामस्तं राजपुत्रस्तपस्विनम्।

न शशाकोत्तरैः वाक्यैः २अवबद्धुं ३समुत्सुकम् ॥ २३ ॥

उत्तरैर्वाक्यैरवबद्धुमिति। मया निवार्यते रक्षः पीडा, तस्मात् स्थातव्यमिति वचनैः निवारयितुं न शशाक। दैवादपाये कस्यचिदृषेः ब्रह्महत्यासदृशपापप्रसङ्गात् ॥ २३ ॥

१बहुधाङ।

२अवरोद्धुंङ।

३समुत्सुकःङ।

पूर्णमानुषभावाश्रयणाद्वा।

॥ २।११६।२३ ॥ ॥ २।११६।२४ ॥

अभिनन्द्य १समापृच्छ्य समाधाय च राघवम्।

स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ २४ ॥

अभिनन्द्यउपश्लोक्य। ऋषिगणवियोगखिन्नं राघवं समाधायसमाश्वास्य ॥ २४ ॥

१समाश्वास्यङ।

॥ २।११६।२४ ॥ ॥ २।११६।२५ ॥

रामः संसाध्य ऋषिगणमनुगमनात्

देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम्।

सम्यक् प्रीतैस्तै १रनुमत २उपदिष्टार्थं

पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २५ ॥

रामः तस्मात् देशात् अपरं देशं यान्तं ऋषिगणं तु अनुगमनात्अनुव्रजनेन संसाध्यप्रस्थाप्य कुलपतिं ऋषिं च अभिवाद्य, ऋषिमिति इकोऽसवर्णेऽ इति प्रकृतिभावः, सम्यक्प्रीतैः तैः अनुमतःअनुज्ञातः (तं) उपदिष्टार्थंउपदिष्टरक्षःपीडासन्देहवृत्तकं पुण्यंस्वनिलयनं वासायोपसम्पेदे। एवमयं श्लोकः चतुर्दशाक्षरचतुष्पादात्कः। अतः उपसम्पेद इति उपसर्गद्वयम् ॥ २५ ॥

१रनुगमनेङ।

२उपदिष्टार्थःङ।

॥ २।११६।२५ ॥ ॥ २।११६।२६ ॥

१आश्रममृषिविरहितं प्रभुः

क्षणमपि न जहौ स राघवः।

राघवं हि सततमनुगताः

तापसाश्चर्षिचरिते धृतगुणाः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षोडशोत्तरशततमः सर्गः।

आश्रममित्यादि। प्रभुःअसहायतयाऽवस्थानसमर्थो राघवः ऋषिविरहितमाश्रमं तु क्षणमिप न जहौ सीतारक्षणार्थम्। ऋषिचरितेऋषितुल्यवृत्ते राघवे धृतगुणाःनिश्चितनिजरक्षासामर्थ्यगुणाः केचन तापसाः तं राममेव सततमनुगताःआश्रितवन्तः, नाश्रमान्तरं जग्मुरित्यर्थः। तरु(२६)मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे षोडशोत्तरशततमः सर्गः।

१आश्रमं ऋषिगणरहितंङ।

मुनिशून्यतया तदैव त्याज्यमप्याश्रमं मुनिविषयप्रेम्णा क्षणं न त्यक्तवानित्यर्थः। आर्षचरितधृतगुणाःरामस्य आर्षचरितधृतगुणाःरामस्य आर्षचरित्रेण सञ्चितगुणाः हियस्मात् कारणात् तापसाः राममनुगताः, तस्मात्तत्प्रेम्णा क्षणं न जहाविति। वृत्तं तु श्लोकद्वयस्यापिचिन्त्यम्गो। क्षणं न विजहौकिञ्चित्कालं तत्रैव स्थितवानिति भावः।

॥ २।११६।२६ ॥