११५ नन्दिग्रामनिवासः

पञ्चदशोत्तरशततमः सर्गः

[पादुकापट्टाभिषेकः] ॥ २।११५।१ ॥

ततो निक्षिप्य मातृ़स्ताः अयोध्यायां दृढव्रतः।

भरतः शोकसन्तप्तः गुरूनिदमथाब्रवीत् ॥ १ ॥

अथ भरतस्य तत्रैव मातृस्थापनानन्तरं नन्दिग्रामे राज्यपरिपालनम्। ततो निक्षिप्येत्यादि ॥ १ ॥

॥ २।११५।१ ॥ ॥ २।११५।२ ॥

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽत्र वः।

तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥ २ ॥

अत्रअयोध्यायाम्। सर्वमिदं दुःखमिति। पितृवियोगरामवियोगादिजदुःखमित्यर्थः ॥ २ ॥

राघवं विनारामवियोगेन यद्दुःखं तत् सहिष्य इत्यर्थः।

॥ २।११५।२ ॥ ॥ २।११५।३ ॥

गतश्चाहो दिवं राजा वनस्थः स गुरुर्मम।

रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ ३ ॥

तदेव प्रकाश्यतेगतश्चेत्यादि ॥ ३ ॥

॥ २।११५।३ ॥ ॥ २।११५।४६ ॥

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः।

अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ ४ ॥

१सुभृशे श्लाघनीयं च यदुक्तं, भरत त्वया।

वचनं भ्रातृवात्सल्यात् अनुरूपं तवैव तत् ॥ ५ ॥

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे।

मार्गमार्यं प्रपन्नस्य नानुमन्येत कः पुमान् ॥ ६ ॥

बन्धुलुब्धस्येति। बन्धुजनपरिपालनाधिकस्पृहावत् इत्यर्थः। नानुमन्येतेति। त्वद्वचनमिति शेषः ॥ ६ ॥

सदृशमिति पाठे कुलस्य सदृशमित्यर्थःगो।

१सदृशंङ।

॥ २।११५।४६ ॥ ॥ २।११५।७ ॥

मन्त्रिणां वचनं श्रुत्वा यथाऽभिलषितं प्रियम्।

अब्रवीत् सारथिं वाक्यं रथो मे युज्यतामिति ॥ ७ ॥

यथाऽभिलषितंस्वाभिलषितमनतिक्रम्य प्रवृत्तम् ॥ ७ ॥

यथाऽभिलषितं, अत एव प्रियम् अत एव प्रहृष्टवदनः (अनन्तरश्लोके)।

॥ २।११५।७ ॥ ॥ २।११५।८१० ॥

प्रहृष्ट १वदनः सर्वाः मातृ़ः समभिभाष्य च।

आरुरोह रथं २श्रीमान् शत्रुघ्नेन समन्वितः ॥ ८ ॥

आरुह्य तु रथं ३क्षिप्रं शत्रुघ्नभरतावुभौ।

ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ ९ ॥

अग्रतो गुरवः सर्वे वसिष्ठप्रमुखाः द्विजाः।

प्रययुः प्राङ्मुखाः सर्वे ४नन्दिग्रामो यतो भवेत् ॥ १० ॥

नन्दिग्रामो यतो भवेदिति। येन मार्गेण प्राप्तो भवेत् तेन प्रययुरित्यर्थः ॥ १० ॥

१मनसःङ।

२शीघ्रंङ।

३शीघ्रं, दीप्तंङ।

प्राङ्मुखगमने उद्देशमाहनन्दिग्रामो यतो भवेदिति।

४नन्दिग्रामं समन्ततःङ।

॥ २।११५।८१० ॥ ॥ २।११५।११ ॥

१बलं च तदनाहूतं गजाश्वरथसङ्कुलम्।

प्रययौ भरते याते सर्वे च पुरवासिनः ॥ ११ ॥

तदनाहूतमिति। तेन भरतेनाकृताह्वानमपि स्नेहवशादिति शेषः ॥ ११ ॥

१तद्बलं च यथाभूतङ।

॥ २।११५।११ ॥ ॥ २।११५।१२१४ ॥

रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः।

नन्दिग्रामं ययौ तूर्णं शिरस्यादाय पादुके ॥ १२ ॥

भरतस्तु ततः क्षिप्रं नन्दिग्रामं प्रविश्य सः।

अवतीर्य रथात्तूर्णं गुरूनिदमभाषत ॥ १३ ॥

एतद्राज्यं मम भ्रात्रा दत्तं सन्न्यास १वत् स्वयम्।

योगक्षेमवहे २चेमे पादुके हेमभूषिते ॥ १४ ॥

एतदिति। एतदयोध्याराज्यं मम भ्रात्रा स्वयंसाक्षात् सन्न्यासवत्समीचीननिक्षेपवत् मयि दत्तंस्थापितम्।

कालान्तरे ग्रहणाय स्वविस्रम्भास्पदपुरुषे रक्षणार्थं स्थापितस्तु निक्षेपः। एवं निक्षेपभूतस्य रामराज्यस्य रक्षणमप्यचिन्त्यवैभवभगवत्पादुकाधीनमित्याहयोगेत्यादि। पादुके एव योगक्षेमवहे चेत्युवाचिति पूर्वेणान्वयः ॥ १४ ॥

१मुत्तमम्च।

निक्षेपवत् दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि नास्तीति दर्शयतियोगक्षेमवहे चेतिगो।

२तस्यङ।

॥ २।११५।१२१४ ॥ ॥ २।११५।१५ ॥

भरतः शिरसा कृत्वा १स न्यासं पादुके ततः।

अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ॥ १५ ॥

भरत इत्यादि। स भरतः पादुके न्यासं, वेदाः प्रमाणमितिवत्, पादुकात्मकन्यासं शिरसा कृत्वा अङ्गीकृत्य, प्रणम्येति यावत् ॥ १५ ॥

१सन्न्यासंङ।

॥ २।११५।१५ ॥ ॥ २।११५।१६ ॥

छत्रं धारयत क्षिप्रं आर्यपादाविमौ मतौ।

आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ १६ ॥

इमौ आर्यपादाविति। विधेयाभिप्रायेण पादुकावाचिन इदं शब्दस्य पुल्लिङ्गनिर्देशः शैत्यं हि यत् सा प्रकृतिर्जलस्यऽ इतिवत्। पादशब्दः पूज्यवाची। आर्य इति रामः, परमपूज्यरामभावनास्पदभूते इमे पादुके इत्यर्थः। अत एवानयोरेव राज्येऽपेक्षितो धर्मः व्यवहारश्च स्थितःप्रतिष्ठितः। अत आभ्यां पादुकाभ्यां क्षिप्रं छत्रं धारयत ॥ १६ ॥

छत्रमित्येतत् चामरादीनामप्युपलक्षणम्। अत एव धारयतेति बहुवचनम्। पादुकाभ्यामिति हेतौ तृतीयागो।

॥ २।११५।१६ ॥ ॥ २।११५।१७ ॥

१भ्रात्रा तु मयि सन्न्यासः निक्षिप्तः सौहृदादयम् ।

तमिमं पालयिष्यामि २राघवागमनं प्रति ॥ १७ ॥

अयमिति। देश इत्यर्थः ॥ १७ ॥

१मम भ्रात्रा हि ङ।

अयंसन्न्यासःपादुकारूपप्रतिनिधिःगो।

२भ्रातुरागमनंङ।

॥ २।११५।१७ ॥ ॥ २।११५।१८ ॥

क्षिप्रं संयोजयित्वा तु राघवस्य पुनः १स्वयम्।

चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ १८ ॥

पुनः संयोजयित्वेति। मयि न्यासीकृतदेशमिति शेषः। पादुकाभ्यामाभ्यां सहितौ सहपादुकौ ॥ १८ ॥

१स्त्वहम्ङ।

॥ २।११५।१८ ॥ ॥ २।११५।१९ ॥

ततो निक्षिप्त १भारोऽहं राघवेण समागतः।

निवेद्य गुरवे राज्यं भजिष्ये २गुरुवृत्तिताम् ॥ १९ ॥

गुरौपितरि कर्तव्या वृत्तिः यस्य स तथा, तस्य भावः, ताम् ॥ १९ ॥

१पादोऽहंङ।

राघवेण समागतःसङ्गतःगो।

गुरवेरामाय राज्यं निवेद्यप्रत्यर्प्यगो।

२गुरुवर्तिताम्च।

॥ २।११५।१९ ॥ ॥ २।११५।२० ॥

राघवाय च सन्न्यासं दत्त्वेमे वरपादुके।

राज्यं चेद १मयोध्यायां धूतपापो भवाम्यहम् ॥ २० ॥

सन्न्यासंराज्यं, इमे पादुके चायोध्यायां दत्त्वा ॥ २० ॥

१मयोध्यां चङ।

॥ २।११५।२० ॥ ॥ २।११५।२१ ॥

स वल्कलजटाधारी मुनिवेषधरः प्रभुः।

नन्दिग्रामेऽ१वसद्धीरः ससैन्यो भरतस्तदा २ ॥ २१ ॥

अवसत् धीरःधीमान् ॥ २१ ॥

१वसद्वीरःङ।

२एतदनन्तरंरामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः। भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा। पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदाइत्यधिकम्ङ।

॥ २।११५।२१ ॥ ॥ २।११५।२२२४ ॥

१सवालव्यजनं छत्रं धारयामास स स्वयम्।

भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २२ ॥

ततस्तु भरतः श्रीमान् अभिषिच्यार्यपादुके।

तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २३ ॥

तदा हि यत्कार्यमुपैति किञ्चित्

उपायनं चोपहृतं महार्हम्।

स पादुकाभ्यां प्रथमं २निवेद्य

चकार पश्चात् भरतो यथावत् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्गः।

यथावदिति। विनियोगमिति शेषः। वीर(२४)मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्गः

१इदमर्धमधिकंङ।

तदापादुके पुरस्कृत्य राज्यपालनसमयेगो।

२निवेदयन्च।

॥ २।११५।२२२४ ॥