११४ अयोध्याप्रवेशः

चतुर्दशोत्तरशततमः सर्गः

[अयोध्याऽऽगमनम्] ॥ २।११४।१ ॥

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः।

अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ १ ॥

अथ मातृगणस्थापनार्थमयोध्याप्रवेशो भरतस्य। स्निग्धेत्यादि। उपयान्उपगच्छन् ॥ १ ॥

पूर्वसर्गान्तिमश्लोकोक्तं विस्तरेण अत्र दर्शयतिगो।

॥ २।११४।१ ॥ ॥ २।११४।२ ॥

१बिलालोलूकचरितां आलीननरवारणाम्।

तिमिरा २लक्ष्यतांकालीं अप्रकाशां निशामिव ॥ २ ॥

बिलालःमार्जारः, डलाभेदः। चरितासञ्चरिता। आलीननरवारणांसन्तोषाभावात् स्वगृहनिलीनानां नराणां वारणानिकपाटाद्याच्छादनानि यस्यां सा तथा। तिमिरेण अलक्ष्यतां प्राप्तां, अत एव कालीं, अत एव अप्रकाशांअनुज्वलां, अत एव विडालाद्युक्तपञ्चविशेषणवतीं निशामिव स्थिताम् अयोध्यां प्रविवेशेति पूर्वेणान्वयः अग्रिमाणामपि ॥ २ ॥

१बिडालोङ।

२भ्याहतांङ।

कालींकृष्णपक्षसम्बन्धिनीम्गो।

॥ २।११४।२ ॥ ॥ २।११४।३ ॥

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्।

ग्रहेणा १भ्युदितेनैकां रोहिणीमिव पीडिताम् ॥ ३ ॥

राहुः शत्रुः यस्य स तथाचन्द्र इति यावत्। श्रियादिव्यैश्वर्येण युक्ताम्। प्रज्वलिता प्रभा यस्याः सा तथा। अभ्युदितेन ग्रहेणराहुणा पीडितांपीडितभर्तृकाम्, अत एव एकांअसहायां रोहिणीमिव स्थिताम् ॥ ३ ॥

ग्रहेण पीडितां चन्द्रपत्नीं रोहिणीमिवेति यथाश्रुतो वाऽर्थः।

१भ्युत्थितेनैकांङ।

॥ २।११४।३ ॥ ॥ २।११४।४ ॥

अल्पोष्णक्षुब्धसलिलां १धर्मतप्तविहङ्गमाम्।

लिनमीनझपग्राहां कृशां गिरिनदीमिव ॥ ४ ॥

आतपवशात् अल्पोष्णं क्षुब्धंकलुषं च सलिलं यस्याः सा तथा। मन्थनदण्डातिरिक्तेऽपि यस्मिन् कस्मिंश्चित् द्रवद्रव्यक्षोभसाधनमात्रे विवक्षितेऽपि क्षुब्ध इतीण्णिषेधनिपातनं भवत्येव। झषाःमत्स्यविशेषाः ॥ ४ ॥

१धर्मोत्तप्तङ।

॥ २।११४।४ ॥ ॥ २।११४।५ ॥

विधूमामिव हेमाभां १शिखामग्नेः २समुत्थिताम्।

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ ५ ॥

विधूमां, अत एव हेमाभां अग्नेः समुत्थितां शिखामिव पूर्वं रामस्थितिसमये जाज्वल्यमानतया स्थितां, पश्चात् रामविवासकाले हविरभ्युक्षितांपयोहोमाभ्युक्षितांसिक्तां, अत एव विप्रलयं गतां शिखामिव स्थिताम्। एवं पाङ्क्तः पाठः। अन्यस्तु अध्वराग्नेः समुत्थिताम्ऽ इति पठित्वा, महाध्वरान्तर्गततप्ताज्यस्थाग्नेः शिखामिव स्थितामिति व्याकरोति। तप्ताज्यस्थाग्नेस्तु शिखेति मिथ्या ॥ ५ ॥

१अध्वराग्नेःङ।

२समुच्छ्रिताम्ङ।

गोविन्दराजीयेऽप्येवमेव पाठः।

॥ २।११४।५ ॥ ॥ २।११४।६,७ ॥

विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्।

हतप्रवीरामापन्नां चमूमिव महाहवे ॥ ६ ॥

१सफेनसस्वनां २भूत्वा सागरस्य समुत्थिताम्।

प्रशान्त ३मरुतोद्धूतां जलोर्मिमिव निस्वनाम् ॥ ७ ॥

सफेनेत्यादि। प्रबलमारुतेन समुत्थितां, अत एव सफेनां सस्वनां च भूत्वा स्थितां, पश्चात् प्रशान्तमरुता उद्धूतांईषदल्पं कम्पितां, अत एव निस्वनां सागरस्य जलोर्मिमिव स्थिताम् ॥ ७ ॥

१सफेनांङ। झ।

२कालेङ।

प्रशान्ता च सा मारुतोद्धूता चेति विशेषणोभयपदकर्मधारयो वा। प्रशान्तामित्यत्रोपपादकं विशेषणान्तरं मारुतोद्धूतामिति।

३मारुतोद्ध्वातांङ।

॥ २।११४।६,७ ॥ ॥ २।११४।८ ॥

त्यक्तां यज्ञायुधैः सर्वैः अभिरूपैश्च याजकैः।

सुत्याकालेऽभिनिर्वृत्ते वेदिं गतरवामिव ॥ ८ ॥

स्फ्यश्च कपालानि चऽ इत्यादिना उक्तानि दशयज्ञायुधानि। अभिरूपाःप्रशस्ताः। सुत्याकालःयागकालः, संज्ञायां৷৷ऽ इत्यादिना सुञः क्यपि तुक्, क्यबन्तस्य स्त्रियां प्रयोगः समज्यादेः। अभिनिर्वृत्तेसमाप्ते सति ॥ ८ ॥

॥ २।११४।८ ॥ ॥ २।११४।९ ॥

गोष्ठमध्ये १स्थितां मत्तां अचरन्तीं नवं तृणम्।

गोवृषेण परित्यक्तां गवां २पङ्क्तिमिवोत्सुकाम् ॥ ९ ॥

गोष्ठेत्यादि। गोष्ठमध्ये गोवृषेणपुङ्गवेन, गोशब्दः धेनुबलीवर्दसामान्यवाची, तद्व्यावृत्त्यर्थो वृषशब्दः, तेन सह स्थितिकाले मत्तां, पश्चात् तेन परित्यक्तां, अत एव नवं तृणमपि अचरन्तीं, गवांतरुणवत्सानां पङ्क्तिमिव स्थिताम् ॥ ९ ॥

१स्थितामार्तांङ। झ।

नवं तृणमपि अचरन्तींअभक्षयन्तीम्।

२पत्नीङ।

॥ २।११४।९ ॥ ॥ २।११४।१० ॥

प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः।

१वियुक्तां मणिभिः जात्यैः नवां मुक्तावलीमिव ॥ १० ॥

प्रभाकराद्यैःप्रभाकरार्कादिपर्यायः स्फटिकः, स्फटिकादिभिः उच्यमानविशेषणकैः मणिभिः अन्तरालनवरत्नैः वियुक्ताम् ॥ १० ॥

१विमुक्तांङ।

॥ २।११४।१० ॥ ॥ २।११४।११ ॥

सहसा १चलितां स्थानात् महीं पुण्य २क्षयाद्गताम्।

संहृतद्युति ३विस्तारां तारामिव दिवश्च्युताम् ॥ ११ ॥

संहृतः द्युतिविस्तारः यस्यां सा तथा ॥ ११ ॥

स्थानाच्चलितां, दिवः च्युतां, महीं गतां, संहृतद्युतिविस्तारां तारामिव।

१चरितांच।

२क्षयोद्गताम्च।

३विस्तीर्णांङ।

॥ २।११४।११ ॥ ॥ २।११४।१२ ॥

पुष्पनद्धां वसन्तान्ते मत्तभ्रमर १नादिताम्।

२द्रुतं दावाग्निविप्लुष्टां ३क्लान्तां वनलतामिव ॥ १२ ॥

द्रुतंशीघ्रं ॥ १२ ॥

वसन्तान्तेग्रीष्मे द्रुतदावाग्निविप्लुष्टां–वेगवद्दावाग्निना ईषद्दग्धांगो।

१शालिनीम्च।

२द्रुतव।

३लतामिव च दुर्बलाम्ङ।

॥ २।११४।१२ ॥ ॥ २।११४।१३ ॥

सम्मूढनिगमां १सर्वां संक्षिप्तविपणापणाम्।

प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्युताम् ॥ १३ ॥

सम्मूढाःशोकाकुलितचित्ताः निगमाःवणिजः यस्यां सा तथा। अत एव सङ्क्षिप्ताः विपणाःआपणाःपण्यवीथयः यस्यां सा तथा। सर्वां द्यामित्यन्वयः ॥ १३ ॥

सम्मूढनिगमांजनसञ्चाररहितमार्गां, निगमो निश्चये वेदे पुरे पथि वणिक्पथेऽ इति वैजयन्तीगो।

१स्तब्धांङ।

॥ २।११४।१३ ॥ ॥ २।११४।१४ ॥

क्षीणपानोत्तमै १र्भग्नैः शरावैरभिसंवृताम्।

हतशौण्डा २मिव ध्वस्तां पानभूमिमसंस्कृताम् ॥ १४ ॥

क्षीणानि पानोत्तमानिसुराश्रेष्ठानि येषां ते तथा, कृत्यलुटो बहुलम्ऽ इति कर्मणि ल्युडन्तः पानशब्दः। हताः शौण्डाःमद्यपाः यस्यां सा तथा ॥ १४ ॥

१र्भिन्नैःङ।

२मिवाकाशेङ।

॥ २।११४।१४ ॥ ॥ २।११४।१५ ॥

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्।

उपयुक्तोदकां १भग्नां प्रपां निपतितामिव ॥ १५ ॥

वृक्णेति। निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वक्तव्यःऽ इति नत्वस्य सिद्धत्वात् झलिऽ इति षत्वं न भवति, कुत्वं प्रसिद्धमेवेति कुत्वं भवति, ततः सम्प्रसारणादिना रूपम्विध्वस्तभूतलामित्यर्थः। उपयुक्तोदकांउच्छिष्टोदकवतीम्। भग्नांभग्नस्तम्भाम्। अत एवनिपतिताम् ॥ १५ ॥

वृक्णभूमितलांविदीर्णभूमितलांगो।

१भिन्नांङ।

॥ २।११४।१५ ॥ ॥ २।११४।१६ ॥

विपुलां विततां चैव १मुक्तपाशां तरस्विनाम्।

भूमौ बाणैर्विनिकृतां पतितां ज्यामिवायुधात् ॥ १६ ॥

विपुलांविशालाम्। विततांधनुष्यातताम्। मुक्तपाशांधनुष्कोट्याः ज्याबन्धनार्थः पाशोऽस्ति, तद्रहिताम्। तरस्विनां बाणैः विनिकृतांलूनामिति यावत्। अत एव आयुधात्धनुषः पतिताम् ॥ १६ ॥

विततांआरोपितामिति यावत्। युक्तपाशां(पाठान्तरं)युक्तरज्जुंगो।

१भिन्नांङ।

॥ २।११४।१६ ॥ ॥ २।११४।१७ ॥

सहसा युद्धशौण्डेन हयारोहेण वाहिताम्।

१निहतां प्रतिसैन्येन वडवामिव पातिताम्२ ॥ १७ ॥

सहसाबलात्कारेण वाहितांप्रधाव्यमानामित्यन्वयः। युद्धे शौण्डःसमथस्तथा। प्रतिसैन्येन निहतां, अत एव पातिताम्। अत्र द्वित्राः श्लोकाः परेण प्रक्षिप्य व्याकृताः ॥ १७ ॥

निक्षिप्तभाण्डांअवरोपिताश्वभूषाम् उत्सृष्टां (पाठान्तरं) वाहनानर्हां किशोरींबालबडबाम्गो।

१निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम्ङ।

२एतदनन्तरंशुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम्। प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम्। सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम्। प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम्। प्रच्छन्नां नीलजीमूतैः भास्करस्य प्रभामिव ॥ इत्यधिकम्ङ।

॥ २।११४।१७ ॥ ॥ २।११४।१८ ॥

भरतस्तु १ततस्तत्र श्रीमान् दशरथात्मजः।

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ १८ ॥

ततस्तत्रेति। अयोध्यायामित्यर्थः ॥ १८ ॥

१रथस्थः सन्ङ।

॥ २।११४।१८ ॥ ॥ २।११४।१९ ॥

किं नु खल्वद्य गम्भीरः मूर्छितो न निशाम्यते।

यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ १९ ॥

न निशाम्यते खलु, अत्र किं कुर्म इति योजना। मूर्छितःव्याप्तः ॥ १९ ॥

॥ २।११४।१९ ॥ ॥ २।११४।२० ॥

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्छितः।

१चन्दनागरुगन्धश्च न प्रवाति समन्ततः ॥ २० ॥

मदकरः गन्धःमदगन्धः। चन्दनागरुगन्धाःचन्दनादिगन्धद्रव्याणीत्यर्थः ॥ २० ॥

१धूपिताङ।

॥ २।११४।२० ॥ ॥ २।११४।२१२४ ॥

यानप्रवरघोषश्च सुस्निग्धहयनिस्वनः।

प्रमत्तगजनादश्च महांश्च रथनिस्वनः ॥ २१ ॥

नेदानीं श्रूयते पुर्याम् अस्यां रामे विवासिते।

चन्दनागरुगन्धांश्च महार्हाश्च १नवस्रजः ॥ २२ ॥

गते रामे हि तरुणाः सन्तप्ता नोपभुञ्जते।

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा जनाः ॥ २३ ॥

नोत्सवाः सम्प्रवर्तन्ते रामशोकार्दिते पुरे।

२सह नूनं ३मम भ्रात्रा पुरस्यास्य ४गतैव भा ॥ २४ ॥

भाप्रभा ॥ २४ ॥

न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा।

सासारा धारा सम्पात आसारःऽ, प्रवर्षधारेति यावत्। अर्जुनःधवलःशरत्काल इति यावत्।

आर्जुनीशारदीति यावत्। द्रमिडदेशे तस्याः सासारता प्रसिद्धा ॥ २४ ॥

सार्धश्लोकमेकं वाक्यम्।

१वनच।

मम भ्रात्रा सहइत्यन्वयः।

२सा हिच।

३सह भ्रात्राङ।

४द्युतिर्गताङ।

सासारावेगवद्वृष्टिसहिता। अर्जुनीशुक्लाक्षसम्बन्धिनीगो।

॥ २।११४।२१२४ ॥ ॥ २।११४।२५ ॥

कदा नु खलु मे भ्राता महोत्सव इवागतः ॥ २५ ॥

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः।

ग्रीष्म इति। ग्रीष्मान्त इत्यर्थः ॥ २५ ॥

महोत्सव इव, ग्राष्मे अम्बुद इव च आगतः मे भ्राताइत्यन्वयः।

॥ २।११४।२५ ॥ ॥ २।११४।२६ ॥

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ॥ २६ ॥

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः।

उन्नतगामिभिःसन्तोषात् उद्धतगामिभिरित्यर्थः ॥ २६ ॥

॥ २।११४।२६ ॥ ॥ २।११४।२७२९ ॥

१इति ब्रुवन् सारथिना दुःखितो भरतस्तदा ॥ २७ ॥

अयोध्यां सम्प्रविश्यैव विवेश वसतिं पितुः।

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २८ ॥

तदा तदन्तः पुरमुज्झितप्रभं

सुरैरिवो २त्कृष्टमभास्करं दिनम्।

निरीक्ष्य सर्वत्र ३विभक्तमात्मवान्

मुमोच बाष्पं भरतः सुदुःखितः ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः।

सुरैः उत्कृष्टं अभास्करं दिनमिति। रामादिभिस्त्यक्तायाः विनष्टराजकाया अयोध्याया अभूतोपमेयम्, न हि किल मण्डलस्य पातः समस्ति। धरा(२९)मानः सर्गः ॥ २९ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः।

सारथिना सह इतिएवं ब्रुवन्इत्यन्वयः।

१एवं बहुविधं जल्पन् विवेश वसतिं पितुःइति, अर्धद्वयस्थाने एकमेवार्धंङ।

सुरैः उत्सृष्टम् अभास्करं दिनमिव उज्झितप्रभम् अन्तःपुरं निरीक्ष्येति सम्बन्धः। विविक्तंविजनम्। पुरा किल देवासुरयुद्धे असुरैः देवाः पराजिताः, स्वर्भानुना च भानुः पातितः। तदानीं क्रियान् कालो दिवारात्रिविभागरहितोऽभूत्। ततः परं ब्रह्मनियोगात् अत्रिः स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा। अग्निः स्वतेजसेति पाठान्तरम्गो।

२त्सृष्टङ।

विभक्तंविगतसंस्कारंति।

३विविक्तङ।

॥ २।११४।२९ ॥