११३ भरतस्य प्रतिनिवर्तनम्

त्रयोदशोत्तरशततमः सर्गः

[भरतप्रत्यागमनम्] ॥ २।११३।१ ॥

ततः शिरसि कृत्वा तु पादुके भरतस्तदा।

आरुरोह रथं १हृष्टः शत्रुघ्नसहितस्तदा ॥ १ ॥

अथ पादुकादानेन कृतराज्यनियोगस्य भरतस्य अयोध्यां प्रति निवृत्तिः। तत इत्यादि ॥ १ ॥

पादुके शिरसि कृत्वाशत्रुञ्जयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्निवाधायेत्यर्थः। पादुके शिरसि कृत्वा हृष्टः यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यतिऽ इति स्वप्रार्थितानुगुणकिरीटधारणं कृत्वा हृष्टःगो। यद्वा शिरसीत्यस्य गजशिरसीत्येवार्थःति। अत्र ११५१२ श्लोको इष्टव्यः।

१शीघ्रंङ।

॥ २।११३।१ ॥ ॥ २।११३।२,३ ॥

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः।

अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ २ ॥

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा।

प्रदक्षिणं च कुर्वाणाः चित्रकूटं महागिरिम् ॥ ३ ॥

मन्दाकीनींचित्रकूटोत्तरपार्श्ववर्तिनीं, प्राप्येति शेषः। प्रदक्षिणं च कुर्वाणा इति। उत्तरपार्श्ववर्तिमन्दाकिनीं प्राप्य प्राङ्मुखतया गमनादेव सिद्धं प्रदिक्षिणतया गमनम् ॥ ३ ॥

मन्त्रपूजिताःअमोघकार्यविचारनैपुण्यात् पूजिताःगो।

॥ २।११३।२,३ ॥ ॥ २।११३।४ ॥

पश्यन् १धातुसहस्राणि रम्याणि विविधानि च।

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ ४ ॥

पार्श्वेनेति। उत्तरपार्श्वेनेति यावत् ॥ ४ ॥

अनेन आगमनकाल इव त्वराभावः सूच्यते।

१सानुङ।

॥ २।११३।४ ॥ ॥ २।११३।५७ ॥

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा।

आश्रमं यत्र स मुनिः भरद्वाजः कृतालयः ॥ ५ ॥

स तमाश्रम १मागम्य भरद्वाजस्य २बुद्धिमान्।

अवतीर्य रथात् पादौ ववन्दे ३भरतस्तदा ॥ ६ ॥

ततो हृष्टो भरद्वाजः भरतं वाक्यमब्रवीत्।

अपि कृत्यं कृतं, तात रामेण च ४समागतम् ॥ ७ ॥

कृत्यंकर्तव्यं कर्म कृतमपि? अपिः प्रश्ने। तदपि कृत्यमाहरामेणेत्यादि ॥ ७ ॥

अदूरादिति। चित्रकूटसौन्दर्यदर्शनाकृष्टचित्ततया अदूरादिव भासमानम्गो। यत्रयमुनादक्षिणकूले, अत एव चित्रकूटस्यादूरादिति। अनेन यमुनादक्षिणतटेऽपि क्वचित् भरद्वाजाश्रम इति ज्ञायते। अत एवाग्रे भरद्वाजामन्त्रणोत्तरं ततस्ते यमुनां तीर्त्वाऽ इति वक्ष्यतिति। उत्तरत्र २१ श्लोकटिप्पणी द्रष्टव्या।

१मासाद्यङ।

२वीर्यवान्च।

३कुलनन्दनःच।

किं रामेण समागतम्? भवदिष्टं च साधितम्? इति प्रश्नद्वयं वा।

४समागतःङ৷৷

॥ २।११३।५७ ॥ ॥ २।११३।८,९ ॥

एवमुक्तः स तु १ततः भरद्वाजेन धीमता।

प्रत्युवाच भरद्वाजं भरतो २भ्रातृवत्सलः ॥ ८ ॥

स याच्यमानो गुरुणा मया च दृढविक्रमः।

राघवः परमप्रीतः वसिष्ठं वाक्यमब्रवीत् ॥ ९ ॥

परमप्रीत इति। पितुः सत्यपरिपालनविषय इति शेषः ॥ ९ ॥

१तदाङ।

२धर्मवत्सलःच

रामनिष्ठायाः न्याय्यत्वात् आज्ञातुमशक्त्या गुरुणा याच्यमानःऽ इति।

॥ २।११३।८,९ ॥ ॥ २।११३।१०,११ ॥

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः।

चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ १० ॥

एवमुक्तो महाप्राज्ञः वसिष्ठः प्रत्युवाच ह।

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ ११ ॥

एवमुक्त इति। रामेणेति शेषः ॥ ११ ॥

॥ २।११३।१०,११ ॥ ॥ २।११३।१२ ॥

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते।

अयोध्यायां, महाप्राज्ञ योगक्षेम १करो भव ॥ १२ ॥

प्रयच्छेति। प्रतिनिधित्वेनेति शेषः। भवेति। एतत्प्रतिनिधिद्वारेति शेषः ॥ १२ ॥

हेमभूषितेऽ इत्यनेन रामाय प्रीत्या समर्पयितुम् अभिनवतया निर्माय नगरात् भरतेनानीते इति गम्यतेगो। वने सज्जीकृतायाः पादुकाया हेमभूषितत्वं न स्वरसमिति भावः। केचित्तु यदि त्वार्थं न शक्ष्यामि विनिवर्तयितुं वनात्ऽ (८२१८) इत्याद्युक्त्या रामपुनरावृत्तिं सन्दिहानो भरतः उद्देशपूर्वकमेव हेमभूषिते पादुके सज्जाकृत्याऽऽददौ इत्यप्याहुः। परन्तु रामेण वनवासप्रस्थानकाले सहैवानीतत्वमेव स्वरसम्। एते प्रयच्छऽ इति च तदैव स्वरसम्। अधिरोहार्य पादाभ्यांऽ इति च सभासमक्षं तादात्विकभावपूर्वकपादसंयोगप्रदशनाय। मुनिवृत्त्या वनं गच्छतः हेमभूषितपादुकाऽऽनयनं कथमिति चेत्, अङ्गुलीयकवत् (किष्कि। ४४१२) सम्भवः द्रष्टव्यः। नगरादानीतत्वराजार्हत्वादिकमेव वा हेमभूषितेऽ इति सूचयति।

१करे तवङ।

॥ २।११३।१२ ॥ ॥ २।११३।१३ ॥

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः।

पादुके १हेमविकृते मम राज्याय ते ददौ ॥ १३ ॥

हेम्ना विचित्रतया कृते तथा। ते इति स्त्रीलिङ्ग द्वितीयाद्विवचनान्तम्। मम राज्यायेति। राज्यरक्षाशक्त्यनुग्रहार्थमित्यर्थः ॥

१अधिरुह्यैतेङ।

मममयि न्यासत्वेन मह्यम्।

॥ २।११३।१३ ॥ ॥ २।११३।१४१६ ॥

निवृत्तोऽहमनुज्ञातः रामेण सुमहात्मना।

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ १४ ॥

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः।

भरद्वाजः १शुभतरं मुनिर्वाक्यमुदाहरत् ॥ १५ ॥

नैतच्चित्रं, २नरव्याघ्र शीलवृत्तविदां वरे।

यदार्यं त्वयि तिष्ठेत्तु ३निम्ने वृष्टमिवोदकम् ॥ १६ ॥

नैतदित्येतच्छाब्दार्थःयदार्यमित्यादि। आर्यंशोभनचरित्रम्। आर्यं त्वयि तिष्ठेदिति यत् तदेतत्तु वृष्टमुदकं निम्न इव न चित्रमित्यन्वयः ॥ १६ ॥

१तु भरतंङ।

२नरव्याघ्रेच।

आर्यंज्येष्ठानुवर्तनरूपं श्रेयःगो।

३निम्ने सृष्टङ। निम्नोत्सृष्टच।

॥ २।११३।१४,१६ ॥ ॥ २।११३।१७,१८ ॥

१अनृणः स महाबाहुः पिता दशरथस्तव।

यस्य त्वमीदृशः पुत्रः २धर्मात्मा धर्मवत्सलः ॥ १७ ॥

तमृषिं तु ३महात्मानम् उक्तवाक्यं कृताञ्जलिः।

आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥ १८ ॥

उक्तवाक्यमिति। उक्तरीत्येति शेषः। आमन्त्रयितुमारेभ इति। आमन्त्रणं कृतवानित्यर्थः ॥ १८ ॥

प्रजामनु प्रजायसे। तदु ते मर्त्यामृतम्ऽ इति श्रुत्युक्तरीत्या सत्पुत्रलाभात् मृतोऽपि दशरथः अमृतःऽ (पाठान्तरं) इत्याहगो।

१अमृतङ।

२धर्मज्ञोङ।

३महाप्राज्ञंच।

आमन्त्रयितुमारेभेविनयेन आमन्त्रणोद्युक्त इव स्थित इत्यर्थःगो।

॥ २।११३।१७१८ ॥ ॥ २।११३।१९२१ ॥

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः।

भरतस्तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः ॥ १९ ॥

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः।

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २० ॥

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्।

ददृशुस्तां पुनः सर्वे गङ्गां १शिवजलां नदीम् ॥ २१ ॥

यमुनां तीर्त्वा गङ्गां ददृशुरिति। यमुनां तीर्त्वा, तस्मिन्नेव दिवसे भरद्वाजं च दृष्ट्वा गङ्गां च ददृशुरित्यर्थः ॥ २१ ॥

अत्र पुनःपुनरित्यनेन एकं प्रदक्षिणं न कार्यमित्युक्तम्। प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्याः। केचित्तु एकहस्तप्रणामैकप्रदक्षिणयोरिव एकप्रणामस्यापि निषिद्धत्वात् पुनःपुनरितिविशेषणस्य अत्र आर्थिके वा पूर्वश्लोकोक्ताभिवादनबललब्धे वा प्रणामेऽप्यन्वयेन न कोऽपि विरोध इत्याहुःगो।

भरतमनुसृत्य सेनानुयानप्रकारमाहतत इति। यमुनां तीर्त्वा गच्छन्तस्ते सर्वे गङ्गां ददृशुरिति सम्बन्धःगो। यमुनां तीर्त्वा तस्मिन्नेव दिने भरद्वाजं दृष्ट्वा गङ्गां ददृशुरित्यर्थ इति कश्चित्। तत्तु पूर्वोक्तरीत्या असामञ्जस्यात् हेयम्ति।

१शुभजलांङ।

॥ २।११३।१९२१ ॥ ॥ २।११३।२२ ॥

१तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः।

शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥

शृङ्गिबेरपुरात् भूयः अयोध्यां सन्ददर्श ह।

भूय अयोध्यामिति छान्दसम् ॥ २२ ॥

१रम्यां तां जलंङ।

॥ २।११३।२२ ॥ ॥ २।११३।२३,२४ ॥

अयोध्यां तु तदा दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ॥ २३ ॥

भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत्।

सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते ॥ २४ ॥

निराकारा निरानन्दा दीना प्रतिहतस्वना।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः।

विध्वस्ताविध्वस्तशोभा। निराकारानिरलङ्कारा। अवर (२४ १२)मानः सर्गः ॥ २४ १२ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः।

निराकारानिर्गतशोभनाकारागो।

॥ २।११३।२३,२४ ॥