११२ पादुकाप्रदानम्

द्वादशोत्तरशततमः सर्गः

[पादुकाग्रहणम्] ॥ २।११२।१ ॥

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्।

विस्मिताः सङ्गमं प्रेक्ष्य १समवेता महर्षयः ॥ १ ॥

अथान्तर्हितदेवगणैः ग्राहितरामवाक्यकरणनियोगेनापि भरतेन पुनश्च प्रार्थितेन रामेण पादुकयोः प्रतिनिधित्वेन प्रदानम्। तमित्यादि। तं सङ्गमं प्रेक्ष्येत्यन्वयः। तत्र स्थले समवेता वसिष्ठाद्या महर्षयो विस्मिता बभूवुः ॥ १ ॥

भ्रातृभ्यां अन्योन्यसौहार्देन कृतं सङ्गमंगो।

१समुपेताङ।

॥ २।११२।१ ॥ ॥ २।११२।२ ॥

अन्तर्हिता १मुनिगणाः २सिद्धाश्च परमर्षयः।

तौ भ्रातरौ ३महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २ ॥

अन्तर्हिताःअदृश्यरूपाः, आकाशस्थाश्चेति शेषः ॥ २ ॥

सप्तमश्लोको द्रष्टव्यः।

१ऋषिङ।

२स्थिताश्चच।

३महाभागौङ।च।

॥ २।११२।२ ॥ ॥ २।११२।३ ॥

१स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञो धर्म २विक्रमौ।

श्रुत्वा वयं हि सम्भाषाम् ३उभाभ्यां स्पृहयामहे ॥ ३ ॥

वयं उभयोः सम्भाषां श्रुत्वा उभाभ्यां स्पृहयामहे–प्रीता भवाम इति यावत् ॥ ३ ॥

१सदाऽऽयौ राजपुत्रौच।

धर्मविक्रमौधर्मशूरौगो।

२वत्सलौङ।

वयं उभयोः सम्भाषां श्रुत्वा स्पृहयामहेपुनःपुनः श्रोतुं वाञ्छामःगो। वस्तुतस्तु स्पृहेरीप्सितःऽ इति चतुर्थी। उभावपि वाञ्छामहे, इत्यर्थः।

३उभयोःङ।

॥ २।११२।३ ॥ ॥ २।११२।४ ॥

ततस्त्वृषिगणाः १सिद्धाः दशग्रीववधैषिणः।

भरतं राजशार्दूलं इत्यूचुः सङ्गता वचः ॥ ४ ॥

सङ्गता ऊचुरिति। एकवाक्यतया ऊचुरित्यर्थः ॥ ४ ॥

१क्षिप्रंच।

सङ्गताःरहसि मिलिता इति वा।

॥ २।११२।४ ॥ ॥ २।११२।५ ॥

कुले जात महाप्राज्ञ १महावृत्त महायशः

ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ ५ ॥

ते ग्राह्यमिति। त्वया ग्राह्यमित्यर्थः। पितरमिति। पितृसङ्गतिमित्यर्थः ॥ ५ ॥

१महाव्रतङ।

यद्यपि भवतो भावः शुद्धः तथाऽपि पितृसद्गतिं यदि वाञ्छसि, तदा रामवचनं कुर्विति भावः।

॥ २।११२।५ ॥ ॥ २।११२।६ ॥

सदाऽऽनृणमिमं रामं वयमिच्छामहे पितुः।

अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ ६ ॥

रामवचोग्राह्यत्वे हेतुमाहुःसदाऽऽनृणमित्यादि। इमं रामं पितुस्सदाऽऽनृणंअनृणस्य भावःआनृणम्, सत्समीचीनानुष्ठितंअप्रतिनिधितयाऽनुष्ठितं आनृणंअनृणत्वं यस्य स तथा, तथैवेच्छामहे, तथाविधादेव कैकेय्या अनृणत्वात्। दशरथोऽद्य स्वर्गं गतः। आनृण्यस्य रामेणाकरणे, उपाधिकरणे च स्वर्गात् भ्रंश एवेति शेषः ॥ ६ ॥

॥ २।११२।६ ॥ ॥ २।११२।७,८ ॥

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः।

राजर्षयश्चैव तथासर्वे स्वां स्वां गतिं गताः ॥ ७ ॥

ह्लादितस्तेन वाक्येन १शुभेन शुभदर्शनः।

रामः संहृष्टवदनः तानृषीनभ्यपूजयत् ॥ ८ ॥

तानभ्यपूजयत्सम्यगनुगृहीतवन्तः अस्मदुपकाराय भगवन्तो देवा इत्युक्तवानित्यर्थः ॥ ८ ॥

१शुशुभेच।

स्वपक्षसंरक्षणादिति भावः।

॥ २।११२।७,८ ॥ ॥ २।११२।९ ॥

१त्रस्तगात्रस्तु भरतः स वाचा सज्जमानया।

कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ ९ ॥

त्रस्तगात्रस्त्विति। दैवतानां रामवनवासस्य पितुरानृण्यार्थं इष्टत्वे, मया मोहात् प्रत्युपवेशनान्तो रामोपरोधः कृत इति भीत्या कम्पितगात्रः, अत एवसज्जमानयेत्यादि ॥ ९ ॥

स्वमनोरथस्य सर्वथाऽसिद्धत्वात् शिथिलगात्रत्वं (पाठान्तरे), सज्जमानवाक्क्त्व चगो।

१स्रस्तङ।

॥ २।११२।९ ॥ ॥ २।११२।१० ॥

राजधर्म १मथ प्रेक्ष्य २कालधर्मांश्च सन्ततम्।

कर्तुमर्हसि, काकुत्स्थ मम मातुश्च याचनाम् ॥ १० ॥

राजधर्मंज्येष्ठस्य राज्यमित्येवंरूपम्। अथअथवा। कालधर्मान्कालधर्मकृतरक्षणशक्तितदभावलक्षणांश्च प्रेक्ष्य–विचार्य मम मातुः कौसल्यायाश्च याचनां वक्ष्यमाणलक्षणां कर्तुमर्हसि ॥ १० ॥

राजधर्मंराज्यपरिपालनधर्मं, कुल (पाठान्तरे)धर्मानुसन्ततिंज्येष्ठाभिषेकरूपकुलधर्मस्यानुस्यूतिंगो।

१मतुङ।

२कुलधर्मानुसन्ततिङ।

॥ २।११२।१० ॥ ॥ २।११२।११ ॥

रक्षितुं सुमहद्राज्यम् अहमेकस्तु नोत्सहे।

पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ ११ ॥

अथकालस्वभावकृतां स्वस्य रक्षणाऽशक्तिं दर्शयतिरक्षितुमित्यादि। एकःअसहायः। तथा नोत्सह इत्यनुकर्षः ॥ ११ ॥

॥ २।११२।११ ॥ ॥ २।११२।१२,१३ ॥

ज्ञातयश्चापि १योधाश्च मित्राणि सुहृदश्च नः।

त्वामेव हि प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥ १२ ॥

इदं राज्यं, महाप्राज्ञ २स्थापय प्रतिपद्य हि।

३शक्तिमानसि, काकुत्स्थ लोकस्य परिपालने ॥ १३ ॥

हियस्मात् त्वामेव प्रतीक्षन्ते, अत इदं राज्यं प्रतिपद्यस्वीकृत्य स्वीयमेव राज्यं पश्चान्मया रक्षणीयत्वेन स्थापय। स्वीकारमात्रेण लोकस्य परिपालने शक्तिमानसि, रामस्य राज्यमित्येतावन्मात्रं लोकस्य परिपालनेऽपेक्षितम् ॥ १२१३ ॥

१पौराश्चङ।

अतः इदं राज्यं प्रतिपद्यस्वीकृत्य अस्मिंश्चित्स्थापय। हियतः सःत्वद्दत्तराज्यः लोकपालने शक्तिमान् भवति। शक्तिमानसिऽ इति पाठे अयं मदीय इति स्वीकारमात्रेण लोकस्य समस्तस्य पालने शक्तिमानसिति।

२पालयङ।

३शक्तिमान् स हिच।

॥ २।११२।१२,१३ ॥ ॥ २।११२।१४ ॥

इत्युक्त्वा न्यपतत् भ्रातुः पादयोः भरतस्तदा।

भृशं सम्प्रार्थयामास १राममेव प्रियंवदः ॥ १४ ॥

इत्युक्त्वाएवं प्रार्थनां कृत्वा ॥ १४ ॥

एवं स्वबुद्धिशक्त्युपन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याहइत्युक्त्वेतिगो।

१राघवेऽतिप्रियं वदन्च।

॥ २।११२।१४ ॥ ॥ २।११२।१५ ॥

तमङ्के १भ्रातरं कृत्वा रामो वचनमब्रवीत्।

श्यामं नलिनपत्राक्षं मत्तहंस २स्वरः स्वयम् ॥ १५ ॥

स्वयं अङ्के कृत्वेति योजना ॥ १५ ॥

स्वप्रपदनस्यामोघत्वात् तदानीं पूर्वकृतदेवसंङ्घशरणागति फलप्रदान प्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरतया तन्निर्वर्तनानन्तरं फलं प्रदित्सुः तावद्विलम्बसहनाय सान्त्वपूर्वमङ्कमारोपयतिगो।

१भरतंङ।

२स्वरंङ।

॥ २।११२।१५ ॥ ॥ २।११२।१६ ॥

आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या।

भृशमुत्सहसे, तात रक्षितुं पृथिवी १मपि ॥ १६ ॥

इयं बुद्धिरिति। मद्वनवासाविरुद्धा स्वीयतया स्थापनविषयिणी येयं बुद्धिरागता, इयमेव ते स्वजास्वाभाविकी, वैनयिकीगुरुसेवया सिद्ध विनयमूला च। अथ या अशक्तिरुक्ता भरतेन स्वस्य, सा नास्त्येवेत्याहभृशमित्यादि ॥ १६ ॥

१मिमाम्ङ।

॥ २।११२।१६ ॥ ॥ २।११२।१७ ॥

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः।

सर्वकार्याणि सम्मन्त्र्य महान्त्यपि च कारय ॥ १७ ॥

कारयेति। मदाज्ञयेति शेषः ॥ १७ ॥

अमात्यैःप्रधानसचिवैः। मन्त्रिभिःउपमन्त्रिभिःगो। वस्तुतस्तुअमात्याःकर्मसचिवाः। मन्त्रिणःधीसचिवाः।

॥ २।११२।१७ ॥ ॥ २।११२।१८ ॥

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्।

अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥ १८ ॥

अथ मातुश्च याचनयाऽपि इदानीमागमनमशक्यमित्याहलक्ष्मीरित्यादि ॥ १८ ॥

॥ २।११२।१८ ॥ ॥ २।११२।१९ ॥

कामाद्वा, तात लोभाद्वा मात्रा तुभ्यमिदं कृतम्।

न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥ १९ ॥

कामात्त्वद्गतस्नेहात्। लोभात्राज्यलोभात्। तुभ्यं मात्रातव मात्रेति यावत्। सर्वथा इह चतुर्थ्यर्थे

बहुलं छन्दसिऽ इति बहुलग्रहणात् षष्ठ्यर्थेऽपि चतुर्थी, यदिदं कृतंत्वदनिष्टमेव कृत्यं कृतं, तन्मनसि न कर्तव्यं दैवाधीनत्वात्। अतः मातृवदेव वर्तितव्यं, तस्यां शुश्रूषा नित्या पतितायामपिऽ इति शास्त्रात् ॥ १९ ॥

तुभ्यंत्वदर्थम्।

॥ २।११२।१९ ॥ ॥ २।११२।२०,२१ ॥

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्।

तेजसाऽऽदित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २० ॥

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते।

एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ २१ ॥

हे आर्य हेमभूषिते पादुके अधिरोह। किं प्रयोजनमित्यपेक्षायामाहएत इत्यादि। राजासनसन्निहिते इति शेषः ॥ २१ ॥

पुण्यदर्शनत्वे दृष्टान्तोऽयम्।

अथ मध्यस्थेन उभयोर्हितपरण वसिष्ठेन नियुक्तो भरतः प्रार्थयते–अधिरोहेत्यादिना। अत एव भरद्वाजं प्रति भरतो वसिष्ठोक्तिमनुवदिष्यति–ऽ एते प्रयच्छ संहृष्टः पादुके हेमभूषितेऽ (११३१२) इतिगो। अनन्तरसर्गस्य १११२ श्र्लोकौ, टिप्पणी च द्रष्टव्या।

॥ २।११२।२०,२१ ॥ ॥ २।११२।२२ ॥

सोऽधिरुह्य नरव्याघ्रः पादुके व्यवमुच्य च।

प्रायच्छत् सुमहातेजाः भरताय महात्मने ॥ २२ ॥

स रामः पादुके अधिरुह्य व्यवमुच्यअवरुह्य भरताय प्रायच्छत्। एवं भरतभद्रासनस्थापनीयपादुकयोः स्वप्रतिनिधिभूतयोः आरोहतः राज्यानुमतेः भरतहस्ते स्थापनात् प्रतिनिधिपुरस्कारेण रामाश्वमेधवत् राज्यरक्षानियोगं च भरतस्य कृतवान् रामः। एवञ्च प्रतिपद्य स्थापयऽ इति चिरं भरतप्रार्थनं च साधितं भगवता ॥ २२ ॥

ह्यवरुह्य चङ।

॥ २।११२।२२ ॥ ॥ २।११२।२३२५ ॥

स पादुके सम्प्रणम्य रामं वचनमब्रवीत्।

चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २३ ॥

फलमूलाशनः, वीर भवेयं, रघुनन्दन

तवागमनमाकाङ्क्षन् वसन् वै नगराद्बहिः ॥ २४ ॥

तव पादुकयो १र्न्यस्य राज्यतन्त्रं, परन्तप

चतुर्दशे हि सम्पूर्णे २वर्षेऽहनि, रघूत्तम ॥ २५ ॥

न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्।

राज्यतन्त्रं–राज्यव्यापारं तव पादुकयोर्न्यस्येति। त्वद्बुध्या विनिवेद्येति यावत् ॥ २५ ॥

१र्न्यस्तराज्यतन्त्रःङ।

एतदनन्तरम् इतिकरणं द्रष्टव्यम्। इत्यब्रवीदित्यन्वयः।

२वर्षे हि रघुनन्दनङ।

चतुर्दशे वर्षे सम्पूर्णे सति अहनिउत्तरवर्षादिमदिनेगो।

॥ २।११२।२३२५ ॥ ॥ २।११२।२६२८ ॥

तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ॥ २६ ॥

शत्रुघ्नं च परिष्वज्य १वचनं चेदमब्रवीत्।

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ॥ २७ ॥

मया च सीतया चैव शप्तोऽसि, २रघुनन्दन

इत्युक्त्वाऽश्रुपरीताक्षः भ्रातरं विससर्ज ह ॥ २८ ॥

शप्तोऽसीति। रोषाकरणायेति शेषः ॥ २८ ॥

१भरतंङ।

२रघुसत्तमङ।

॥ २।११२।२६२८ ॥ ॥ २।११२।२९ ॥

स पादुके ते भरतः १स्वलङ्कृते

महोज्वले सम्परिगृह्य २धर्मवित्।

प्रदक्षिणं चैव चकार राघवं

चकार चैवोत्तमनागमूर्घनि ॥ २९ ॥

उत्तमनागमूर्धनिराजौपवाह्यगजमूर्धनि,तत्कालाभिषिक्तराजाधिरोहणधिया परिषदः प्रख्यापनार्थमिति शेषः ॥ २९ ॥

१प्रतापवान्स्वलङ्कृते सम्परिपूज्यङ।

२राघवःङ।

॥ २।११२।२९ ॥ ॥ २।११२।३०,३१ ॥

अथानुपूर्व्यात् १प्रतिपूज्य तं जनं

गुरूंश्च मन्त्रीन् प्रकृतीस्तथाऽनुजौ।

व्यसर्जयद्राघववंशवर्धनः

२स्थितः स्वधर्मे हिमवानिवाचलः ॥ ३० ॥

तं मातरो बाष्पगृहीतकण्ठ्यः

दुःखेन नामन्त्रयितुं हि शेकुः।

स चैव मातृ़रभिवाद्य सर्वाः

रुदन् कुटीं स्वां प्रतिवेश रामः ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः

पाल(३१)मानः सर्गः ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः।

१प्रतिनन्द्यङ।

२स्थिरः ङ।

रुदन्रुदन्निवति।

॥ २।११२।३०,३१ ॥