एकादशोत्तरशततमः सर्गः
[भरतप्रायोपवेशः] ॥ २।१११।१ ॥
स वसिष्ठः तदा रामम् उक्त्वा राजपुरोहितः।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ १ ॥
पुनश्च वसिष्ठेन भरतेन च धर्मन्यायावलम्बनेनैव प्रवर्त्यमानप्रतिनिवर्तनोऽपि रामः स्वसत्यमेव परिगृह्णाति। स वसिष्ठ इत्यादि ॥ १ ॥
॥ २।१११।१ ॥ ॥ २।१११।२ ॥
पुरुषस्येह जातस्य भवन्ति गुरवः १त्रयः।
आचार्यश्चैव, काकुत्स्थ पिता माता च, राघव ॥ २ ॥
गुरव इति। उपास्या इत्यर्थः ॥ २ ॥
एवं कुलधर्मोपपादनेऽपि सर्वं तत् पितृनियोगव्यतिरिक्तविषयमिति मत्वा तूष्णीं स्थितस्य रामस्याशयं जानन् वसिष्ठः पुनः निवर्तनहेत्वन्तरमाह–पुरुषस्येत्यादिनागो।
१सदाच।
॥ २।१११।२ ॥ ॥ २।१११।३ ॥
पिता ह्येनं जनयति पुरुषं, पुरुषर्षभ
प्रज्ञां ददाति चाचार्यः तस्मात् स गुरुरुच्यते ॥ ३ ॥
प्रज्ञां ददातीति। उपनयनसंस्कारपूर्वं ब्राह्मीं विद्यां मूलविद्यासाधनां ददाति। यदेवम् आचार्यः ब्राह्मीं विद्यातनुं जनयति, तस्मादाचार्य एव गुरुसमवाये गुरुच्यते। तथा आपस्तम्बः आचार्यः श्रेष्ठो गुरूणाम्ऽ इति। पित्रपेक्षया आचार्यस्यैव गौरवाधिक्येऽपि स एव हेतुमाह स हि विद्यातस्तं जनयति। तच्छ्रेष्ठं जन्मऽ इति। पित्रोर्गौरवन्यूनतायामप्याह शरीरमेव मातापितरौ जनयतःऽ इति शीर्यत्स्वभावं सर्वयोनिसुलभं प्राकृतं मलशरीरं मलमूलकं जनयतः, न तु परमदुर्लभशाश्वतब्राह्मविद्यादेहम्। ॥ ३ ॥
पितेति मातुरप्युपलक्षणम्। शरीरमेव मातापितरौ जनयतः इत्यर्थःगो।
स हि विद्यातस्तं जनयति, तच्छ्रेष्ठं जन्म। शरीरमेव मातापितरौ जनयतः शीर्यत्स्वभाव सर्वयोनिसुलभं प्राकृतं मलजं शरीरम्ऽ इति सूत्रशेषः।
॥ २।१११।३ ॥ ॥ २।१११।४ ॥
सोऽहं ते पितुराचार्यः तव चैव, परन्तप
मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥ ४ ॥
उक्ताया लोकस्थितेः प्रकृतोपयोगः प्रदर्श्यतेस इत्यादि। नातिवर्तेरिति। नातिवर्तेथा इति यावत्। सद्गतिभ्रंशो न ते इत्याशयः ॥ ४ ॥
॥ २।१११।४ ॥ ॥ २।१११।५७ ॥
इमा हि ते परिषदः १ज्ञातयश्च नृपास्तथा।
एषु, तात चरन् धर्मं नातिवर्तेः सतां गतिम् ॥ ५ ॥
वृद्धाया धर्मशीलायाः मातुर्नार्हस्यवर्तितुम् ।
२तस्या हि वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥ ६ ॥
भरतस्य वचः कुर्वन् याचमानस्य, राघव
आत्मानं नातिवर्तेस्त्वं, सत्यधर्मपराक्रम ॥ ७ ॥
आत्मानं याचमानस्यत्वां स्वराज्याधिपत्यपणपूर्वकं प्रतिनिवृत्तिं याचमानस्येत्यर्थः। अत्र आत्मानं नातिवर्तेथाःऽ इति यथापाङ्क्तमेवान्वीय, यद्वाकश्मलान्यन्वभूत् परः ॥ ७ ॥
१श्रेणयश्च द्विजास्तथाङ।
एषुएतेषां विषये एतदर्थं इति यावत्।
अवर्तितुंशुश्रूषामकर्तुं नार्हसिगो।
२अस्यास्तुच।
आत्मानंआत्मभूतं भरतं नातिवर्तेथा इत्युदारधीः। सत्यधर्मनिष्णातत्वस्वभावमित्यपरे। स्वासाधारणधर्मत्वादाश्रितपारतन्त्र्यं नातिवर्तेथा इत्याचार्याःगो। वस्तुतःन स्वमर्यादातिक्रमणं भवेदिति वा, न स्वरूपातिक्रमणंस्वरूपनाशः भवेदिति वाऽर्थः स्वरसः।
॥ २।१११।५७ ॥ ॥ २।१११।८,९ ॥
एवं मधुरमुक्तः सः गुरुणा राघवः स्वयम्।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ ८ ॥
यन्मातापितरौ वृत्तं तनये कुरुतः सदा।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत् कृतम् ॥ ९ ॥
यत् वृत्तं तनये कुरुत इति। यादृशं पुत्रस्योपकारमित्यर्थः। कृतं न सुप्रतिकरमिति। खलन्तोऽयम्, अशक्यप्रत्युपकारमित्यर्थः। यत् कृतमिति। यच्छब्दः प्रसिद्धिवाची, किं कृतमिति ॥ ९ ॥
मधुरमुक्तःऽ इत्यनेन आदेशरूपत्वं वार्यते। तेन रामस्य न गुर्वाज्ञातिलङ्घनदोषः। उक्तवसिष्ठवाक्यं तु अनुज्ञारूपमेव एवं करणेऽपि न दोषप्रसक्तिःऽ इत्येवम्। दशरथवाक्यं तु आज्ञारूपं (११ श्लो।) अतो न दोष इति भावः। स याच्यमानो गुरुणाऽ (११३९) इत्युत्तरत्र वचन चात्र स्वरसम्।
सति धर्मिणि धर्माश्चिन्त्यन्तेऽ इति न्यायेन सर्वधर्मसम्पादनबीजभूतशरीरोत्पादकत्वात्, अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणेन बहुविधोपकारकत्वाञ्च आचार्यवचनादपि पितृवचनं अवश्यं कर्तव्यम्। अत एव मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भवऽ इति चरमपर्वण्याचार्य उपात्त इत्यभिप्रायेणाहयन्मातेत्यादि श्लोकद्वयेनगो।
॥ २।१११।८,९ ॥ ॥ २।१११।१० ॥
यथाशक्तिप्रदानेन स्नापनोच्छादनेन च।
नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ १० ॥
अतःयथाशक्तीत्यादि। यथाशक्ति बालस्य जीवनार्थपदार्थस्वीकारशक्त्यनुरोधतः प्रदानेन तैलक्षीरान्नादिप्रदानेन। उच्छादनंउद्वर्तनंलेपपिष्टादिना ॥ १० ॥
यथाशक्तिप्रदानेनस्तन्यान्नादिप्रदानेनगो।
॥ २।१११।१० ॥ ॥ २।१११।११ ॥
स हि राजा दशरथः पिता जनयिता मम।
१आज्ञापयन्मां यत्तस्य न तन्मिथ्या भविष्यति ॥ ११ ॥
जनयिताउत्पादकः पितापातेस्तृचि औणादिकमित्वम्, उक्तरीत्या रक्षिता चेत्यर्थः ॥ ११ ॥
जनयिता पिताऽ इति गौणपितृव्यावृत्तिःगो।
१आज्ञातं यन्मया तस्यङ।
॥ २।१११।११ ॥ ॥ २।१११।१२ ॥
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम्।
उवाच १परमोदारः सूतं परमदुर्मनाः ॥ १२ ॥
प्रत्यनन्तरंआसन्नम् ॥ १२ ॥
१विपुलोरस्कःच।
॥ २।१११।१२ ॥ ॥ २।१११।१३,१४ ॥
इह तु स्थण्डिले शीघ्रं कुशानास्तर, सारथे
आर्यं प्रत्युपवेक्ष्यामि यावन्मे १सम्प्रसीदति ॥ १३ ॥
निराहारो निरालोकः धनहीनो यथा द्विजः।
२शेष्ये पुरस्ताच्छालाया ३यावन्मां प्रतियास्यति ॥ १४ ॥
आर्यं प्रत्युपवेक्ष्यामीति। आर्यमुद्दिश्य प्रत्युपवेशनकर्म करिष्य इत्यर्थः। तच्च उपरोद्धव्यस्य गृहद्वारपुरः कुशेषु यावत्कार्यसिद्धि निराहारतया एकपाश्वेनैव पार्श्वान्तरपरिवृत्तिराहित्येन शयनम् ॥ १३१४ ॥
प्रत्युपवेक्ष्यामिप्रतिरोत्स्यामीत्यर्थःगो।
१न प्रसीदतिङ।
एतदुत्तरं निराहारःऽ इत्यादिपद्यं प्रक्षिप्तमिति कतकः स्वरसःति। परन्तु सर्गान्ते श्लोकसङ्ख्या इति कतक एवोक्तं विमृष्टव्यम्।
निरालोकःअवकुण्ठिताननः। धनहीनःवृद्ध्यर्थं ऋणप्रदानान्नर्धनःगो।
२शयेच।
३यावन्नङ।
॥ २।१११।१३,१४ ॥ ॥ २।१११।१५ ॥
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः।
कुशोत्तरमुपस्थाप्य भूमावेवा १स्थित स्वयम् ॥ १५ ॥
स तुभरत इत्यर्थः। राममवेक्षन्तमिति। रामनियोगं प्रतीक्षमाणं, तद्वशात् कुशानयने विलम्बमानमित्यर्थः। कुशोत्तरंकुशश्रेष्ठं स्वयमेवोपस्थाप्य भूमौ आस्थितलिङ्, स्थाघ्वोरिच्चऽ इतित्त्वम्, प्रत्युपवेशनमनुष्ठितवानित्यर्थः ॥ १५ ॥
कुशोत्तरंकुशास्तरणम् उपस्थाप्यआनीय स्वयमेवास्तरत्आस्तृणात्शयनं कृतवानित्यर्थःगो।
१स्तरत्ङ।
॥ २।१११।१५ ॥ ॥ २।१११।१६ ॥
तमुवाच महातेजाः रामो राजर्षिसत्तमः।
किं मां, भरत कुर्वाणं तात प्रत्यु १पवेक्ष्यसि ॥ १६ ॥
किं कुर्वाणमिति। किमन्याय्यं कुर्वाणमित्यर्थः ॥ १६ ॥
किं कुर्वाणंकिमपकारं कुर्वाणम्गो।
१पवेक्ष्यसेच।
॥ २।१११।१६ ॥ ॥ २।१११।१७१९ ॥
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति।
न तु मूर्धा १भिषिक्तानां विधिः प्रत्युपवेशने ॥ १७ ॥
उत्तिष्ठ, नरशार्दूल हित्वैतद्दारुणं व्रतम्।
पुरवर्यामितः क्षिप्रम् अयोध्यां याहि, राघव ॥ १८ ॥
आसीनस्त्वेन भरतः पौरजानपदं जनम्।
उवाच सर्वतः प्रेक्ष्य २किमार्यं नानुशासथ ॥ १९ ॥
आसीनस्त्वेवेति। प्रत्युपवेशकर्मणीति शेषः। नानुशासथेति। नानुशिष्टेति यावत् ॥ १९ ॥
एकपार्श्वेनएकपार्श्वशयनेनगो।
१वसिक्तानांङ।
इदं भरतवचनंअतः इतिकरणं द्रष्टव्यम्।
२किमर्थंङ।
॥ २।१११।१७१९ ॥ ॥ २।१११।२०,२१ ॥
ते तदोचु १र्महात्मानं पौरजानपदा जनाः।
काकुत्स्थ २मपि जानीमः ३सम्यग्वदति राघवः ॥ २० ॥
एषोऽपि हि ४महाभागः पितुर्वचसि तिष्ठति।
अत एव न शक्ताः स्म व्यावर्तयितुमञ्जसा ॥ २१ ॥
राघवःभरतः भवानपि काकुत्स्थंराघवं प्रति सम्यग्वदतीति जानीमः। महाभाग एष रामश्च पितुर्वचसि तिष्ठति, तदपि सम्यगेव। यदेवंअत एवेत्यादि ॥ २०२१ ॥
१र्महात्मानःङ।
काकुत्स्थंरामम् अभिजानीमःअभितो जानीमः, सत्यसन्धं जानीम इत्यर्थःगो।
२मभिङ।
३सत्यं वदतिङ।
सम्यग्वदतीत्येतदुपपादयतिएष इत्यादिनागो।
४महाबाहुःङ।
अञ्जसाशीघ्रंगो। तत्त्वत इति वा।
॥ २।१११।२०,२१ ॥ ॥ २।१११।२२,२३ ॥
तेषामाज्ञाय वचनं रामो वचनमब्रवीत्।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २२ ॥
१एतच्चैवोभयं श्रुत्वा सम्यक् २सम्पश्य, राघव
उत्तिष्ठ त्वं ३महाबाहो मां च स्पृश तथोदकम् ॥ २३ ॥
रामो वचनमब्रवीदिति। भरतं प्रतीति शेषः। एवमित्यादि। धर्मचक्षुषांधर्मदर्शिनां सुहृदां एवंउक्तरूपं युष्मदस्मद्विषयकं वचनं निबोधशृणु। एतदुभयंत्वद्विषयकं मद्विषयकं च वचनं श्रुत्वा ततः परं कर्तव्यं सम्यक् पश्यचिन्तय। कर्तव्यं निश्चेतुमशक्यश्चेत् उच्यते मया। उत्तिष्ठ, मां च स्पृशमद्विषयकप्रत्युपवेशदोषविमोचनार्थं मां, अज्ञानतः कृतप्रत्युपवेशनप्रायश्चित्तम् उदकं च स्पृशशुद्धाचमनं कुर्विति यावत् ॥ २२२३ ॥
१ततश्चैवोङ।
२त्वं पश्यङ।
३महाभागङ।
क्षत्त्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थः।
॥ २।१११।२२,२३ ॥ ॥ २।१११।२४ ॥
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत्।
शृण्वन्तु मे परिषदः मन्त्रिणः १श्रेणयस्तथा ॥ २४ ॥
परिषदःसभ्याः ॥ २४ ॥
१शृणुयुच।
॥ २।१११।२४ ॥ ॥ २।१११।२५ ॥
न याचे पितरं राज्यं नानु १शासामि मातरम्।
२आर्यं परमधर्मज्ञं ३नानुजानामि राघवम् ॥ २५ ॥
न याच इति। नायाचिषमित्यर्थः। अथापि तदर्थप्रवृत्तां मातरमपि नानुशासामिसर्वत्रात्र शासिरार्षः
शब्विकरणः ॥ २५ ॥
नानुशासामि एवं कुरुऽ इति नानुशिष्टवान्गो।
१शंसामिङ।
२एवंच।
नानुजानामिवनवासाय नानुज्ञातवानस्मीत्यर्थःगो। वस्तुतस्तु अनन्तरश्लोकानुसारात् रामवनगमनं न सहेयमेवऽ इत्यर्थः स्वरसः।
३नाभिजानामिङ।
॥ २।१११।२५ ॥ ॥ २।१११।२६,२७ ॥
यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः।
अहमेव निवत्स्यामि चतुर्दश वने समाः ॥ २६ ॥
धर्मात्मा तस्य १सत्येन भ्रातुर्वाक्येन विस्मितः।
उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥
तस्यभरतस्य ॥ २७ ॥
त्वत्प्रतिनिधितयेति शेषः।
१तथ्येनङ।
॥ २।१११।२६,२७ ॥ ॥ २।१११।२८ ॥
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २८ ॥
विक्रीतमित्यादि। जीवता मम पित्रा यत् विक्रीतंस्वीयस्य वस्तुनः किञ्चिन्मूल्यं गृहीत्वा दानं विक्रयः। क्रयस्तु अन्यदीयवस्तुनो मूल्यं दत्त्वा आदानम्। आधिरूपेण निहितं क्षेत्रादिकंआहितम्। तत्सर्वं मया भरतेन वा लोपयितुं न शक्यम् ॥ २८ ॥
॥ २।१११।२८ ॥ ॥ २।१११।२९ ॥
उपाधिर्न मया कार्यः वनवासे जुगुप्सितः।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ॥
अस्तु, किं तत इत्यतःउपाधिरित्यादि। पित्रा अनुष्ठेयविहिते वनवासे क्रीतादितुल्ये मया जुगुप्सित उपाधिःस्वाशक्यानुष्ठानेन प्रतिनिध्यनुष्ठापनम् उपाधिः, मुख्ये पक्षे सम्भवति गौणाश्रयणतो न मया सम्पाद्यः। कैकेय्या च युक्तमेवोक्तम्, वररूपर्णापाकरणार्थत्वात् मत्पितुः। मया च तद्वचनमेव कार्यं, तस्याःमातुः, तस्य पितुश्चेत्यर्थः ॥ २९ ॥
अल्पेन व्यजेन स्वीकृतभरात् प्रच्युतिः न युक्तेत्यर्थः। तदिदं मद्दौर्बल्यहेतुकमेव किल स्यात्। अतः जुगुप्सितमिदम् इति भावः।
॥ २।१११।२९ ॥ ॥ २।१११।३० ॥
जानामि भरतं १क्षान्तं गुरुसत्कारकारिणम्।
सर्वमेवात्र कल्याणंसत्यसन्धे महात्मनि ॥ ३० ॥
क्षान्तं–क्षमायुक्तम्। अत्रभरते ॥ ३० ॥
१शान्तंङ।
कल्याणं जानामीत्यनुकर्षः।
॥ २।१११।३० ॥ ॥ २।१११।३१,३२ ॥
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ ३१ ॥
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्।
अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकादशोत्तरशततमः सर्गः।
मोचयानेनेति। मोचयमानेनेति यावत्। राग(३२)मानः सर्गः ॥ ३२ ॥
इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे एकादशोत्तरशततमः सर्गः।
धर्मशीलेनानेन भ्रात्रा सहेति अन्वयः।
पितरं अनेनराज्यपरिपालनेन अनृतान्मोचयेत्यर्थःगो।
॥ २।१११।३१,३२ ॥