दशोत्तरशततमः सर्गः
[रामसान्त्वनम्] ॥ २।११०।१ ॥
क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ १ ॥
१निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत्।
अथ वसिष्ठो भगवान् जाबालिविषयकं रामकोपमुपशमयन्, ब्रह्माणमारभ्य प्रवृत्तकुलाचारो ज्येष्ठाभिषेकः अतस्त्वयाऽभिषेकः स्वीकार्य इति बोधनशेषतयाभगवन्तमारभ्य कुलक्रमं कथयति। क्रुद्धमित्यादि। अस्य लोकस्येति। आहन्तसंसक्तस्रोतसामित्यर्थः। गतागतिमिति। गतिपूर्विका आगतिःगतागतिः, प्रवृत्तिनिवृत्ती इत्यर्थः ॥ १ ॥
१निवर्तनार्थं तव तुङ।
कुलमाहात्म्यस्मारणेन मनःप्रसादनार्थं चइत्यप्यूह्यम्।
गतंगमनंपरलोकप्राप्तिं तत इहागतिं चगो।
॥ २।११०।१ ॥ ॥ २।११०।२ ॥
इमां लोकसमुत्पत्तिं, लोकनाथ निबोध मे ॥ २ ॥
लोकसमुत्पत्तिं कथयिष्यन् सर्वज्ञो भगवान् वसिष्ठस्तु रामं लोकनाथावतारमेव जानानः लोकनाथेति सम्बोधयति। अज्ञास्तु तदर्थं सभावर्तिजनेश्वरमिति गृह्णन्ति ॥ २ ॥
॥ २।११०।२ ॥ ॥ २।११०।३ ॥
सर्वं सलिलमेवासीत् पृथिवी १यत्र निर्मिता।
ततः समभवत् ब्रह्मा स्वयम्भूर्दैवतैः सह ॥ ३ ॥
सर्वं सलिलमेवासीदिति। अहरादौ पूर्वाह्णान्तेऽपहृतस्रोतःपुनस्सर्गकाले सर्वंवैराजत्रिस्रोतोजातं सलिलमेवासीत्सलिलसत्त्वभूतविराड्विग्रहब्रह्मात्मकसोपादानात्मनाऽवस्थितमभूत्। यत्रसलिले तस्यैव विराजःप्रजापतेःविष्ण्वाकारप्रयोजिका पृथिवी निर्मिताप्रतिष्ठिताऽपि तादृक्सलिलप्रधानविराड्ब्रह्मस्वरूपैवाभूदित्यर्थः। सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाःऽ इतिन्यायेन कालात्मकेन सम्राजस्तावद्रात्रिजालक्षपणानन्तरं चिदाकाशमयो भगवान् स्वयम्भूः स्वेच्छया स्वभूमत्र्युपग्रहेषु सन्निधानवान् ब्रह्माहिरण्यगर्भः, वयमस्मत्स्थूलदेह इव अग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ इति, वायुः प्राणो भूत्वा नासिके प्राविशत्ऽ इत्याद्युपदिष्टभूमविराट्पुरुषाधिष्ठात्र्यग्न्यादिदैवतैस्सह विराडात्मना समभवत्तद्रूपग्रहमनुगृह्णाति स्म ॥ ३ ॥
१तत्रङ।
॥ २।११०।३ ॥ ॥ २।११०।४ ॥
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम्।
असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः ॥ ४ ॥
अथ विराडुपग्रहः स भगवान् ब्रह्मा वराहःस्वपरमूर्तिपृथिवीतत्त्वप्रधानधरणीवराहविष्ण्वात्मकः सन् वसुन्धरां प्रोज्जहारउद्धृतवान्। कृतात्मभिः पुत्रैः निजानुग्रहसम्प्राप्तसृष्ठ्यादिशक्तिमद्भिः सप्तर्षिदक्षादिभिः पुत्रैः सह यथायोगं सर्वं जगदसृजत्। तथा हि महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाताः येषां लोक इमाः प्रजाःऽ इति ॥ ४ ॥
॥ २।११०।४ ॥ ॥ २।११०।५ ॥
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।
तस्मान्मरीचिः सञ्जज्ञे मरीचेः कश्यपः सुतः ॥ ५ ॥
अथ यो भगवान् ब्रह्मा विराडुपग्रहमाविश्य तत्स्थमर्त्यसर्वस्रोतांस्यसृजत् सोऽसौ स्वयंभूरपि किमात्मना सर्वादौ स्वयमेव वा भवतीत्यत्राहआकाशप्रभव इत्यादि। स्वराडान्तरभूमविग्रहभूमहृदयहेमकोशान्तरा १काशात्मना शुद्धब्रह्मश्रीहिरण्यगर्भात्मना प्राभवदित्यर्थः। तथा हि हिरण्यगर्भः समवर्तताग्रेऽ इत्यादि। सोऽसौ भगवान् सर्वसंसारसाक्षात्पञ्चकृत्यप्रवर्तकत्वात् शाश्वतःनित्यजाग्रन्निस्तुलाधिकसहजसमग्रभूमविद्यैश्वर्यानन्तशक्तित्वात् वैराजसकलसंहारोपादानादिस्वभावोऽपि स्वयं शाश्वतो भवतिसततोदितैकरूपो भवति। तथा नित्यश्च भवतिसकलसंसारसाक्षादनित्यत्वसाधकभूमसम्राडात्मत्वात् स्वस्यानित्यत्वसाधकवस्त्वन्तराभावात् स्वयं नित्यः। स्वसम्पादितकालत्रयाननुयायिसंसारे स्वयमेक एव सर्वकालानुस्यूतः। तथा अव्ययःविविधं विकारं षड्भावलक्षणमयमाने सर्वास्मिन्नपि संसारे स्वयमेक एवाविकारः सकलविकारोत्पत्तिज्ञप्तिसाक्षात्साधकनित्यजाग्रद्भूमलिङ्गज्योतिरात्मकत्वात्। एवं स्वभावात्तस्मात् भगवतः भूमविराडुपग्रहप्रधानात् मरीचिःसप्तर्षिलक्षणभगवत्प्रधानपुत्रेषु एकः मरीचिः। तथा हि सप्तर्षयो मरीच्यत्रिमुखाःऽ इति। मरीचिकश्यपविवस्वन्तः क्रमात् भगवतः पुत्रपौत्रप्रपौत्ररूपाः। मनुपर्यन्तास्तु मरीच्याद्युपहितब्रह्मणः मानसपुत्राः। तथा प्रागेवोक्तं महर्षयः सप्तऽ इत्यादिश्लोकेन ॥ ५ ॥
आकाशशब्दः परब्रह्मपरः। इत्थमेव अव्यक्तप्रभवो ब्रह्माऽ इति बालकाण्डोक्तमपिगो।
१काशशुद्धट।
॥ २।११०।५ ॥ ॥ २।११०।६,७ ॥
विवस्वान् कश्यपात् जज्ञे मनुर्वैवस्वतः १सुतः।
२स तु प्रजापतिः पूर्वं इक्ष्वाकुस्तु मनोः सुतः ॥ ६ ॥
३यस्येयं प्रथमं दत्ता समृद्धा मनुना मही।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ ७ ॥
स मनुस्तु प्रजापतिःरेतोमूलमर्त्यप्रजासर्गाधिकारी। तेन स्वरेतसा प्रजाः सृषाः। तस्मान्मनोः क्षत्त्रक्षेत्रे इक्ष्वाकुः। सोऽसौ साक्षात् क्षत्त्रियः। अस्य चतुस्समुद्रवसना इयं महीसर्वाऽपि भूमिरित्यर्थः। दत्ता, पित्रा मनुनेति शेषः ॥ ६७ ॥
वैवस्वतःविवस्वत्सम्बन्धी। तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयतिस त्वित्यादिना। मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्ऽ (बाल। ५६) इति तस्यायोध्यानिर्मातृत्वोक्तिःगो।
१स्मृतःङ, स्वयम्च।
२एतदर्धस्थानेस तु प्रजापतिः पूर्वम् इक्ष्वाकूणां महात्मनाम्। जजनाङ्गिरसं ब्रह्मा प्रचेतसमथाङ्गिराः। मनुः प्रचेतसः पुत्रः इक्ष्वाकुस्तु मनोः सुतःइत्यर्धत्रयम्ङ।
३तस्येयंङ।
॥ २।११०।६,७ ॥ ॥ २।११०।८ ॥
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव १विश्रुतः।
कुक्षेरथात्मजो २वीरः विकुक्षिरुदपद्यत ॥ ८ ॥
विश्रुतःप्रसिद्धः ॥ ८ ॥
१नः श्रुतम्ङ।
२वीरच।
॥ २।११०।८ ॥ ॥ २।११०।९,१० ॥
विकुक्षेस्तु महातेजाः बाणः पुत्रः प्रतापवान्।
बाणस्य च महाबाहुः अनरण्यो १महायशाः ॥ ९ ॥
२नानावृष्टिः बभूवास्मिन् न दुर्भिक्षं सतां वरे।
अनरण्ये महाराजे तस्करो ३वाऽपि कश्चन ॥ १० ॥
सतां वरेश्रेष्ठे अनरण्ये महाराजे राज्यं कुर्वाणे सति अनावृष्टिः, दुर्भिक्षं, तन्मूलः कश्चन तस्करोऽपि न बभूव ॥ १० ॥
१महातपाःच।
२न चावृष्टिःङ।
३नापिङ।
॥ २।११०।९,१० ॥ ॥ २।११०।१११३ ॥
अनरण्यान्महा १बाहुः पृथू राजा बभूव ह।
तस्मात् पृथोर्महा २तेजाः त्रिशङ्कुरुदपद्यत ॥ ११ ॥
स सत्यवचना ३द्वीरः सशरीरो दिवं गतः।
त्रिशङ्कोरभवत् सूनुः धुन्धुमारो महायशाः ॥ १२ ॥
३धुन्धुमारान्महातेजाः युवनाश्वो व्यजायत।
युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ॥ १३ ॥
सःत्रिशङ्कुः सत्यवचनात् स्वीयात्, भगवतो विश्वामित्रस्य सत्यप्रतिज्ञानाच्चेत्यर्थः। त्रिशङ्कोः धुन्धुमारः, धुन्धुमारात् युनाश्वःइत्यादिकमिहोच्यमानपरम्परावैलक्षण्यम्। अन्यत्र श्रूयमाणं कल्पान्तरविषयम् इति द्रष्यव्यम् ॥ १२१३ ॥
१तेजाःङ।, राजच।
२राजःङ।
३द्धीरःङ।
युवनाश्व एव महातेजःप्रभावेन महाबलधुन्धुतामकासुरमारणात् धुन्धुमारसञ्ज्ञामलभतेत्यर्थःगो। (धुन्धुमारो महातेजाःइति पाठः) त्रिशङ्कुसुतो युवनाश्वः इत्यन्यत्र श्रूयमाणं कल्पान्तरविषयम्। यद्वा त्रिशङ्कोः सूनुरित्यत्र तत्पौत्र इत्यर्थः इति केचित्।
४धुन्धुमारो महाङ।
॥ २।११०।१११३ ॥ ॥ २।११०।१४ ॥
मान्धातुस्तु १महातेजाः सुसन्धिरुदपद्यत।
सुसन्धेरपि पुत्रौ द्वौ २ध्रुवसन्धिः प्रसेनजित् ॥ १४ ॥
यशस्वी २ध्रुवसन्धेस्तु भरतो ३रिपुसूदनः।
ध्रुवसन्धिः ज्येष्ठः। अतस्तत्पुत्रावलम्बनेन अयोध्याराजपरम्परोच्यते—-ध्रुवसन्धेस्तु भरत इति ॥ १४ ॥
१सुतः श्रीमान्ङ।
२दृढङ।
३रघुनन्दनङ।
॥ २।११०।१४ ॥ ॥ २।११०।१५,१६ ॥
भरतात्तु १महाबाहोः असितो नाम जायत ॥ १५ ॥
यस्यैते प्रतिराजानः उदपद्यन्त शत्रवः।
हैहयास्तालजङ्घाश्च शूराश्च २शशबिन्दवः ॥ १६ ॥
यस्यअसितस्येत्यर्थः। यस्योदपद्यन्त, सोऽभवदित्यन्वयः ॥
१महाबाहुःङ।
प्रतिराजानःसामन्ताःगो।
२शशिङ।
॥ २।११०।१५,१६ ॥ ॥ २।११०।१७ ॥
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ १७ ॥
तांस्त्विति। हैहयादिचतुर्विधशत्रून् युद्धे प्रतिव्यूह्यप्रतिस्पर्धितया कृतस्वबहुव्यूहतयाऽवस्थितोऽपि असौ शत्रुप्राबल्यात् अशक्यार्थधिया प्रवासितःसञ्जातप्रवासो बभूव। पुरं च त्यक्त्वा हिमवद्गिरिं शत्रुजयादिरेतवे तपसे जगामेत्यर्थः। शैलवरःहिमवान् ॥
मुनिस्सन्नभिरतो बभूव। अन्यथा तस्मादपि शैलात् प्रवासयेयुरिति भावःगो।
॥ २।११०।१७ ॥ ॥ २।११०।१८ ॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति १श्रुतिः।
२तत्र चैका महाभाग भार्गवं देववर्चसम् ॥ १८ ॥
ववन्दे पद्मपत्राक्षी काङ्क्षिणी पुत्रमुत्तमम्।
तत्र चेत्यादिश्लोकाः बालकाण्डजेन गतार्थाः ॥ १८ ॥
इति श्रुतिरिति। इति प्रसिद्धिरित्यर्थः ॥
१श्रुतम्ङ।
२अयं श्लोकः ङ। पुस्तके कुण्डलितः।
॥ २।११०।१८ ॥ ॥ २।११०।१९२५ ॥
एका १गर्भविनाशाय सपत्न्यै गरलं ददौ ॥ १९ ॥
भार्गवश्च्यवनो २नाम हिमवन्तमुपाश्रितः।
तमृषिं ३साऽभ्युपागम्य कालिन्दी त्वभ्यवादयत् ॥ २० ॥
स तामभ्यवदत् ४प्रीतः वरेप्सुं पुत्रजन्मनि।
पुत्रस्ते भविता, देवि महात्मा लोकविश्रुतः ॥ २१ ॥
धार्मिकश्च ५सुशीलश्च वंशकर्ताऽरिसूदनः।
६श्रुत्वा प्रदक्षिणं ७कृत्वा मुनिं ८तमनुमान्य च ॥ २२ ॥
पद्मपत्र ९समानाक्षं पद्मगर्भसमप्रभम्।
ततः सा गृहमागम्य १०पत्नी पुत्रमजायत ॥ २३ ॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया।
गरेण सह तेनैव ११जातः स सगरोऽभवत् ॥ २४ ॥
स राजा सगरो नाम यः समुद्रमखानयत्।
इष्ट्वा पर्वणि वेगेन त्रासयान इमाः प्रजाः ॥ २५ ॥
अखानयदिति। स्वपुत्रैरिति शेषः। पर्वणि इष्ट्वादीक्षितो भूत्वा। वेगेनखननवेगेन। त्रासयानःउद्वेजयन् ॥ २५ ॥
१पुत्रङ।
२रामङ।
३समुपागम्यङ।
४विप्रःङ।
५सुभीमश्चच।
६कृत्वाङ।
७स्तुत्वा, हृष्टाङ।
८तमभिवाद्यङ।
९समानाक्षी, विशालाक्षीङ।
१० देवीङ।
११तस्मात्च।
॥ २।११०।१९२५ ॥ ॥ २।११०।२६२८ ॥
असमज्जस्तु पुत्रोऽभूत् सगरस्येति नः श्रुतम्।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ २६ ॥
१अंशुमानपि पुत्रोऽभूत् असमञ्जस्य वीर्यवान्।
दिलीपोंऽशुमतः पुत्रः दीलीपस्य भगीरथः ॥ २७ ॥
भगीरथात् ककुत्स्थश्च काकुत्स्था येन तु स्मृताः।
काकुत्स्थस्य तु पुत्रोऽभूत् रघुः, येन तु राघवाः ॥ २८ ॥
येन तु स्मृता इति। येन तु कूटस्थेन सर्वे तद्वंश्याः काकुत्स्थाः स्मृताः, सोऽभूदित्यर्थः। राघवा इति। राघवशब्दवाच्या इत्यर्थः ॥ २८ ॥
पापकर्मकृत्एव इवार्थेपापकर्मकृदिवरा।
१अंशुमानस्यङ।
॥ २।११०।२६२८ ॥ ॥ २।११०।२९ ॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः।
कल्माषपादः सौदासः इत्येवं प्रथितो भुवि ॥ २९ ॥
रघोस्तु तेजस्वी प्रवृद्धादिनामवत्तया चतुष्पर्यायनामवत्तया प्रथितः पुत्रोऽभूत् ॥ २९ ॥
प्रवृद्धनामकः वसिष्ठशापात् पुरुषादकःराक्षसो भूतः, वसिष्ठशापायोद्धृतजलस्य स्वभार्यानुनयनात् स्वपादे प्रक्षेपेण पादयोः दाहात् कल्माषपादः जातः। अथवा नाम्ना सौदास एव प्रवृद्धःइत्यन्वयः।
॥ २।११०।२९ ॥ ॥ २।११०।३० ॥
कल्माषपादपुत्रोऽभूत् शङ्खणस्त्विति नः श्रुतिः।
१यस्तु तद्वीर्यमासाद्य सहसैन्योऽप्यनीनशत् ॥ ३० ॥
कल्माषपादस्य पुत्रः शङ्खण इति नःअस्माकं श्रुतिः–प्रसिद्धिः अस्तीत्यर्थः, तस्यापि पुरोऽतीतत्वात्।
यस्तु शङ्कणः तद्वीर्यंतत्तादृशपराक्रमं युद्धे प्राप्यापि दैवाद्युद्धे सहसैन्योऽप्यनीनशत्आर्षः स्वार्थणिः, नाशं गतोऽभूदित्यर्थः ॥ ३० ॥
तद्वीर्यंवसिष्ठशापात् राक्षसत्वं प्राप्तस्य कल्माषपादस्य पराक्रमं आसाद्य व्यनीनशत्विनाशं
प्राप्तवान्। राक्षसत्वात् कल्माषपादेन स्वपुत्र एव विनाशित इत्यर्थःगो।
१स तु दैवेन विधिना ससैन्योऽभ्यनशत्पुराङ।
॥ २।११०।३० ॥ ॥ २।११०।३१ ॥
शङ्खणस्य तु पुत्रोऽभूत् शूरः श्रीमान् सुदर्शनः।
सुदर्शनस्याग्निवर्णः अग्निवर्णस्य शीघ्रगः ॥ ३१ ॥
शूरःशौर्यगुणयुक्तः ॥ ३१ ॥
॥ २।११०।३१ ॥ ॥ २।११०।३२,३३ ॥
शीघ्रगस्य मरुः पुत्रः मरोः पुत्रः प्रशुश्रुवः।
प्रशुश्रुवस्य पुत्रोऽभूत् अम्बरीषो १महाद्युतिः ॥ ३२ ॥
अम्बरीषस्य पुत्रोऽभूत् नहुषः सत्यविक्रमः।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ ३३ ॥
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ।
अजः नाभागस्य ज्येष्ठः पुत्रः ॥ ३३ ॥
१महामतिःच।
॥ २।११०।३२,३३ ॥ ॥ २।११०।३४,३५ ॥
अजस्य चैव धर्मात्मा राजा दशरथः १सुतः ॥ ३४ ॥
तस्य ज्येष्ठोऽसि दायादः राम इत्यभिविश्रुतः।
तद्गृहाण स्वकं राज्यं अवेक्षस्व २जगत्, नृप ॥ ३५ ॥
दायादःपुत्रः, दायादौ सुतबान्धवौऽ। यस्मात् ज्येष्ठः तत्तस्मात् इत्यर्थः। स्वकंजनम्इक्ष्वाकुमुखस्ववंशानुष्ठानमित्यर्थः ॥ ३५ ॥
१स्मृतःङ।
दायादःसुतःगो। राज्यस्य न्यायप्राप्तत्वसूचनाय एवमुक्तिः।
२जनं नृप, गतं नृपङ।
॥ २।११०।३४,३५ ॥ ॥ २।११०।३६ ॥
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः।
पूर्वजे नावरः पुत्रः ज्येष्ठो १राज्येऽभिषिच्यते ॥ ३६ ॥
तमेवार्थं विवृणोतिइक्ष्वाकूणामित्यादि। पूर्वजे स्थिते अवरः पुत्रो नाभिषिच्यते ॥ ३६ ॥
१राजाच।
॥ २।११०।३६ ॥ ॥ २।११०।३७ ॥
स राघवाणां कुलधर्ममात्मनः
सनातनं नाद्य १विहन्तुमर्हसि।
प्रभूतरत्नामनुशाधि मेदिनीं
प्रभूतराष्ट्रां पितृवन्महायशाः ॥ ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे दशोत्तरशततमः सर्गः।
सः त्वं कुलक्रमागतज्येष्ठाभिषेकधर्मं विहन्तुंविघ्नितुम्। प्रभूतराष्ट्रांप्रभूतावान्तरदेशवतीम्। सर्ग(३७)मानः सर्गः ॥ ३७ ॥
इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे दशोत्तरशततमः सर्गः।
१विहातुङ।
प्रभूतराष्ट्रांबहुविधावान्तरजनपदयुक्ताम्गो।
॥ २।११०।३७ ॥