नवोत्तरशततमः सर्गः
[जाबालिवचननिराकरणम्] ॥ २।१०९।१ ॥
जाबालेस्तु वचः श्रुत्वा रामः १सत्यपराक्रमः।
उवाच परया २सूक्त्या बुद्ध्या विप्रतिपन्नया ॥ १ ॥
एवं जाबालोक्तं भगवान् रामः पृष्ठीकरोति। जाबालेरित्यादि। सत्यःसत्यमूलः सत्यप्रधानः पराक्रमःप्रतापः यस्य स तथा। इदं साभिप्रायं विशेषणं वक्ष्यमाणार्थम्। विप्रतिपन्नयाजाबालोक्तार्थे प्रतिपत्तिरहितया बुध्या युक्तः सन् सूक्त्यावेदशास्त्रलक्षणसुवचनावलम्बनेन उवाच ॥ १ ॥
सत्यात्मनांसत्यबुद्धीनाम्। भक्त्यावैदिकधर्मश्रद्धया अविपन्नयाजाबालि वचनैः सांदृष्टिकैरप्यचलितयागो।
१सत्यात्मनां वरःङ।
२भक्त्या स्वबुद्ध्या चाविपन्नयाङ।
॥ २।१०९।१ ॥ ॥ २।१०९।२ ॥
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान्।
अकार्यं कार्यसङ्काशं अपथ्यं पथ्य १सन्निभम् ॥ २ ॥
प्रियकामार्थंप्रीतिहेतुकामभोगसम्पादनार्थमित्यर्थः। अकार्यंपरमार्थतया कर्तुमनुचितं, पामरदृशा कार्यसङ्काशंप्रमाणाभासोपपत्तिमत्त्वात् कार्यवत् भासमानम्। तथाऽग्रेपि ॥ २ ॥
प्रियकामार्थंअनुवर्तनार्थमिति भावः। अत्र उत्तरार्धे तदिति पूरणीयम्।
पथ्यसम्मितंपथ्यवदवभासमानम्गो।
१सम्मितम्ङ।
॥ २।१०९।२ ॥ ॥ २।१०९।३ ॥
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः।
मानं न लभते सद्भिः भिन्नचारित्रदर्शनः ॥ ३ ॥
निर्मर्यादःवेदशास्त्रमर्यादालङ्घी। अथ एव कामकारात् पापाचारसमन्वितः, अत एव भिन्नचारित्रदर्शनः साधुसम्मतचारित्रप्रतिपादकशास्त्रात् वेदादिलक्षणात् विपरीतव्यवहारप्रतिपादकलोकायतशास्त्रप्रसक्तः, अत एव सद्भिः मानं न लभते ॥ ३ ॥
एवं वचनं दूषितं, अथ वक्तारं दूषयतिनिर्मर्याद इत्यादिनागो।
दर्शनंमतं वेदविहितात् भिन्नाचारप्रतिपादकमतप्रवर्तक इत्यर्थः। एवंभूतः पुरुषः सत्सु मानंपूजां न लभतेगो।
॥ २।१०९।३ ॥ ॥ २।१०९।४ ॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम्।
चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ ४ ॥
इदानीं स्वस्वजातिवर्णाश्रमोचिताचारलक्षणं चारित्रमेव साकल्यवैकल्यतः पुंसाम् इहामुत्रसन्मानासन्मानहेतुरित्याहकुलीनमित्यादि। चारित्रं सम्पन्नं सत् तद्वन्तं कुलीनं ख्यापयति, असम्पन्नं सत् अकुलीनम्। तथाऽग्रेऽपि। वीरमिति पदम्। तथा पुरुषमानिनंमिथ्यावीरपुरुषत्वाभिमानिनमपि व्याख्यातिख्यापयति ॥ ४ ॥
पुरुषमानिनंअतिधीरमित्यर्थःगो। वस्तुतस्तु अत्रापि वाकारः अध्याहार्यः। वीरं पुरुषमानिनं वाकेवलं तादृशाभिमानवन्तंअवीरमिति यावत् एतादृशं चारित्रमेव व्याख्यातिइत्यर्थो युक्तः।
॥ २।१०९।४ ॥ ॥ २।१०९।५,६ ॥
अनार्यस्त्वार्य १संस्थानः शौचाद्धीनस्तथा शुचिः।
लक्षण्यवदलक्षण्यः दुश्शीलः शीलवानिव ॥ ५ ॥
अधर्मं धर्मवेषेण २यद्यहं लोकसङ्करम्।
अभिपत्स्ये शुभं हित्वा ३क्रियां विधिविवर्जिताम् ॥ ६ ॥
अस्त्वेवं लोकस्थितिः, किं प्रकृते? इत्यत्रअर्थवदनर्थं त्वद्दर्शनसम्मतं चरित्रं यद्यभिपत्स्ये, तदाऽनर्थमेव सर्वथाऽपि प्राप्ताऽस्मीत्याहअनार्य इत्यादि। संस्थानंविशेषः। सदा शुचिरिवशुद्ध इव प्रविभासमानः। लक्षण्यःलक्षणोपेतः धर्मवेषेण कञ्चुकितः अधर्ममहं यदीमं त्वदुपदिष्टं लोकसङ्करकारकं मार्गमभिपत्स्ये, तदा विधिविवर्जितांश्रुतिस्मृतिविधानरहितां क्रियांकर्म कृत्वा तत एव हेतोः शुभं हित्वा अशुभं प्राप्नुयाम् यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्ऽ इत्यादिस्मृतेरित्यर्थः ॥ ६ ॥
एतादृशपुरुषोपदेशश्रवणे स्वस्यानर्थं दर्शयति श्लोकत्रयेण ৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷त्वदुक्तमधर्मं धर्मवेषेणधर्मत्वेन अभिपत्स्येस्वीकरिष्यामि यदि, दुर्वृत्तं मां चेतयानःज्ञानवान् कः पुरुषः लोके बहुमंस्यतिगो।
१सङ्काशःङ।
आर्यसंस्थानःतत्सदृशःति।
२यदीमंङ।
३क्रियाविधिङ।
अशुभं प्राप्नुयामिति शेषःति।
॥ २।१०९।५,६ ॥ ॥ २।१०९।७ ॥
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः।
१बहुमन्येत मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥
उक्ताशुभप्राप्तिरेव प्रकाश्यतेकश्चेतयान इत्यादि। विद्वानिति यावत्। लोकदूषणंपरलोकदूषणमार्गावलम्बिनम् ॥ ७ ॥
१बहुमंस्यतिङ।
॥ २।१०९।७ ॥ ॥ २।१०९।८ ॥
कस्य १यास्याम्यहं २वृत्तं केन वा स्वर्गमाप्नुयाम्।
अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया ॥ ८ ॥
कस्य यास्याम्यहं वृत्तमिति। त्वदुपदिष्टमार्गावलम्बन इति शेषः न कस्यापि, केनापीत्यर्थः। अनया त्वदुपदिष्टया अर्थपरयेति यावत्। हीना सत्यपरिपालनविषयिणी प्रतिज्ञा यस्यां सा तथा, अनया वृत्त्या ॥ ८ ॥
न केवलं बहुमानहानिः, परलोकहानिश्चेत्याहकस्येत्यादिना। अहं हीनप्रतिज्ञयावनवासप्रतिज्ञारहितया अनया वृत्त्यापरोक्षं पृष्ठतः कुरुऽ इति त्वदुक्त्या वृत्त्या वर्तमानः सन् वृत्तंत्वदुक्ताचरणं कस्य धास्यामिआधास्यामिउपदेक्ष्यामीत्यर्थः। दास्यामीति पाठान्तरम्गो।
१धास्याम्यहंङ।
२वृत्तिङ।
॥ २।१०९।८ ॥ ॥ २।१०९।९ ॥
१कामवृत्तोऽन्वयं लोकः कृत्स्नः समुपवर्तते।
यद्वृत्ताः सन्ति राजानः तद्वृत्ताः सन्ति हि प्रजाः ॥ ९ ॥
प्रथमतः स्वयमहं कामवृत्तःयथेष्टचारित्रं सम्पत्स्ये, अनन्तरं कृत्स्नोऽप्ययं लोकः कामवृत्तः समुपवर्ततेवर्तेतेति यावत्। कुत एवं निर्बन्ध इत्यतःयद्वृत्ता इत्यादि ॥ ९ । ॥
१कामवृत्तस्त्वयंङ।
॥ २।१०९।९ ॥ ॥ २।१०९।१० ॥
सत्यमेवानृशंसं च राजवृत्तं सनातनम्।
तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥
यदेवं स्वपरनाशहेतुः त्वदुपदिष्टमार्गः, तस्मादिमं पृष्ठीकृत्य तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसिऽ इत्युपदेशावलम्बनेन शास्त्रीयं सत्यमेव मार्गमेवावस्थापय इत्याहसत्यमेवेत्यादि। सनातनंअनादिशास्त्रसिद्धम्। यस्मात् राज्ञां वृत्तं सत्यात्मकं, तस्मात् तेषां राज्यमपि सत्यात्मकंसत्यैकप्रतिष्ठमित्यर्थः। न केवलं राज्यमात्रमेवं, अपि तु सर्वोऽपि लोकः सत्ये प्रतिष्ठितः ॥ १० ॥
अनृशंसंभूतानुकम्पाप्रधानंगो।
॥ २।१०९।१० ॥ ॥ २।१०९।११ ॥
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे।
सत्यवादी हि लोकेऽस्मिन् १परमं गच्छति क्षयम् ॥ ११ ॥
सत्यमेव हि मेनिर इति। सत्यलोकान्तसकललोकविजयार्थमिति शेषः। क्षयःनिवासः। परमं क्षयंब्रह्मलोकमिति यावत् ॥ ११ ॥
मेनिरेउत्कृष्टमिति शेषःगो।
१परं गच्छति चाङ।
॥ २।१०९।११ ॥ ॥ २।१०९।१२ ॥
उद्विजन्ते यथा सर्पात् नरादनृतवादिनः।
धर्मः १सत्यपरो लोके मूलं २सर्वस्य चोच्यते ॥ १२ ॥
सत्यं परंश्रेष्ठं रूपं यस्य धर्मस्य स तथा ॥ १२ ॥
यथा सर्पात्सर्पादिव।
१सत्यंङ।
२स्वर्गस्यङ।
॥ २।१०९।१२ ॥ ॥ २।१०९।१३ ॥
सत्यमेवेश्वरो लोके १सत्ये २पद्मा सदाऽऽ ३श्रिता।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥
ईश्वर इति। आश्रित इति विपरिणामः। पद्माराजलक्ष्मीः। पदंशाश्वतपदप्रतिष्ठासाधनमित्यर्थः ॥ १३ ॥
ईश्वरःनियन्ताव्यवस्थापक इति यावत्गो।
१सत्यंङ।
२धर्मःच।
३श्रितःङ।
॥ २।१०९।१३ ॥ ॥ २।१०९।१४ ॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च।
वेदाः सत्यप्रतिष्ठानाः तस्मात् सत्यपरो भवेत् ॥ १४ ॥
सत्यं प्रतिष्ठानंआधारः येषां ते तथा। सत्यपरःसत्यतत्पर इत्यर्थः ॥ १४ ॥
॥ २।१०९।१४ ॥ ॥ २।१०९।१५ ॥
एकः पालयते लोकं एकः पालयते कुलम्।
मज्जत्येको हि १निरये एकः स्वर्गे महीयते ॥ १५ ॥
अथ न केवलमागममात्रात् सत्यपरत्वमेव, अपि तु अनुभवादपीत्याहएक इत्यादि। एकः पुमान् कृत्स्नं लोकं पालयते। एकस्तु स्वीयं कुलमात्रं पालयते। एतेन पालनसाधनधर्मस्य इह लोके तारतम्यानुभव उक्तः। अथ परलोके तदन्वयव्यतिरेकसाध्यफलप्रदर्शनंमज्जतीत्यादि। निरयस्वर्गौ दुःखसुखार्थाश्रयौ ॥ १५ ॥
१नरकेङ।
॥ २।१०९।१५ ॥ ॥ २।१०९।१६,१७ ॥
सोऽहं पितु १र्निदेशं तु किमर्थं नानुपालये।
सत्यप्रतिश्रवः सत्यं सत्येन समयी २कृतम् ॥ १६ ॥
नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः।
सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७ ॥
इहाप्युक्तफलप्रदर्शनंसोऽहमिति। एवं विवेकवानित्यर्थः। ननु पितृनियोगस्यासत्यतः कथमनुष्ठेयत्वमित्यतःसत्येत्यादि। स्वप्रतिज्ञातसत्यस्यैव प्रतिश्रवःअङ्गीकारः यस्य स तथा।
समयीसदाचारवान्, तादृशेन राज्ञा सत्यपरिपालनेन हेतुना सत्यमेव कृतं, न तु लोभाद्युपाधिना अकार्षीत्। नापि च तमोऽन्वितः अकार्षीत्। अतः पारमार्थिकस्य गुरोः सत्यस्य सेतुंमर्यादां सत्यप्रतिश्रवः वने वत्स्यामिऽ इति कृतसत्यप्रतिश्रववानहं न भेत्स्यामि ॥ १६१७ ॥
१र्नियोगंङ।
२ कृतःङ।
लोभात्राज्यलोभात् मोहात्विप्रलम्भवाक्यजनितचित्तविभ्रमात्गो।
॥ २।१०९।१६,१७ ॥ ॥ २।१०९।१८ ॥
असत्यसन्धस्य सतः चलस्यास्थिरचेतसः।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८ ॥
एवं सत्यदृढस्थितौ हेतुमाहअसत्येत्यादि। सतःसम्पन्नस्य। प्रतीच्छन्तीति। हव्यकव्यमिति शेषः ॥ १८ ॥
चलस्यचलस्वभावस्यगो।
॥ २।१०९।१८ ॥ ॥ २।१०९।१९ ॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं १ध्रुवम्।
भारः सत्पुरुषा २चीर्णः तदर्थमभि ३नन्द्यते ॥ १९ ॥
प्रत्यगात्मंप्रत्यगात्मनि भवं, प्रत्यगित्यव्ययं, विभक्त्यर्थेऽव्ययीभावः, अनश्चऽ इति टच् समासान्तः, स्वप्रतिष्ठितं वनवासनियोगात्मकं धर्मं सत्यमेव पश्यामिवास्तवमेव पश्यामि। भारःगुरुःमहानिति यावत्। सत्पुरुषाचीर्णः, सत्यरूपधर्म इति शेषः। तदर्थंतादृशसत्यरूपधर्मसिध्यर्थं योऽसौ अभिनन्द्यतेउपश्लोक्यते ॥ १९ ॥
प्रत्यगात्मं स्वयं पश्यामि, आत्मानं प्रत्यविनाभूतत्वेन प्रवृत्तं पश्यामि इत्यर्थः। सत्पुरुषाचीर्णःसत्पुरुषैराचरितःसम्पादित इति यावत्, भारःजटावल्कलादिभारः तदर्थंसत्यरूपधर्मार्थं अभिमन्यतेअभिमतो भवतिगो
१स्वयंङ।
२कीर्णःक।
३मन्यतेङ।
॥ २।१०९।१९ ॥ ॥ २।१०९।२० ॥
क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्।
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥
ननु स्वधर्मः किमिति नाभिनन्द्यते राज्यपरिपालनात्मा? इत्यत्राहक्षात्त्रमित्यादि। धर्मसंहितंधर्मयुक्तवत् प्रतिभातः वस्तुतो ह्यधर्मभूतो यः क्षात्त्रधर्मः, तादृशं क्षुद्रादिभिः सेवितं त्वहं त्यक्ष्ये, अपि तु शुद्धमेव क्षात्त्रधर्मं सेविष्य इत्यर्थः ॥ २० ॥
अधर्मप्रचुरधर्मलेशयुक्तक्षत्त्रियधर्मं अहं त्यक्ष्य इत्यर्थःगो। ईदृशं क्षात्त्रधर्मपित्राज्ञाभङ्गेन राज्यकरणरूपंति।
॥ २।१०९।२० ॥ ॥ २।१०९।२१ ॥
कायेन कुरुते पापं मनसा १सम्प्रधार्यते।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥
इदानीं वाचिकपापप्रसङ्गात् क्षात्त्रधर्मो नाश्रीयते इत्याशयेन पापभेदत्रैविध्यमुपन्यस्यतिकायेनेत्यादि। कायेन हत्यादिलक्षणं क्रियापापं कुरुते। परदाराद्यभिध्यानरूपं पापं मनसा सम्प्रधार्यतेसाध्यत इति यावत्। अनृतं जिह्वया साध्यते। उक्तरूपमिदं पातकं कर्म एवं त्रिविधं भवति ॥ २१ ॥
अस्य पापस्य शरीरसाध्यत्वेऽपि कायिकवाचिकमानसिकसकलपापप्रसक्तिरित्याहकायेनेतिति।
१सम्प्रधार्यं चङ।
॥ २।१०९।२१ ॥ ॥ २।१०९।२२ ॥
भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि।
१सत्यं समनुवर्तन्ते सत्यमेव भजेत्ततः ॥ २२ ॥
अथ सत्यस्य सर्वार्थसाधनत्वोपदेशःभूमिरित्यादि। प्रार्थयन्तीति। सत्यवन्तमिति शेषः। यदेवं तत् सत्यमेव भजेत् ॥ २२ ॥
कीर्तिःवितरणजनिता प्रथा। यशःपौरुषनिबन्धनम्। अनुपश्यन्तिअनुसृत्य पश्यन्तिअनुबध्नन्तीति यावत्गो।
१स्वर्गस्थं चानुपश्यन्ति, स्वर्गस्थं चानुबध्नन्तिङ।
॥ २।१०९।२२ ॥ ॥ २।१०९।२३ ॥
श्रेष्ठं ह्यनार्यमेव स्यात् यत् भवानवधार्य माम्।
आह युक्तिकरैर्वाक्यैः इदं भद्रं कुरुष्व ह ॥ २३ ॥
एतावतोक्तं जाबालवचः पृष्ठीकारमुपसंहरतिश्रेष्ठमित्यादि। यत् भवान् मामवधार्यलक्षीकृत्य युक्तिकरैःयुक्त्यैव केवलं करणंसम्पादनं येषां तानि तथा, तादृशैर्वाक्यैःवचेर्ण्यत्, ततः कुत्ववृद्धी, वचनैः इदं भद्रं वाक्यस्वीकाररूपं कुरुष्वेति श्रेष्ठं हिश्रेष्ठमिवाह, इदम् अनार्यंअनार्यमेव स्यात्भवेत् ॥ २३ ॥
श्रेष्ठमिति अवधार्यनिश्चित्य इदं भद्रं कुरुष्वेति भवान् युक्तिकरैः वाक्यैः यदाह तदनार्यमेव स्यात्गो। अवधार्ययुक्तत्वेन निश्चित्यति।
॥ २।१०९।२३ ॥ ॥ २।१०९।२४ ॥
कथं ह्यहं प्रतिज्ञाय वनवासमिमं १गुरोः।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २४ ॥
तदेव प्रकाश्यतेकथमित्यादि। गुरोः वनवासं, गुरोर्वच इत्यन्वयः ॥ २४ ॥
गुरोःपितुः वनवासं प्रतिज्ञाय, तस्य गुरोः वचः हित्वा भरतस्य वचः कथं करिष्यामि।
१गुरौङ।
॥ २।१०९।२४ ॥ ॥ २।१०९।२५ ॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ।
१नाप्रहृष्टा च सा देवी कैकेयी चाभवत्तदा ॥ २५ ॥
नाप्रहृष्टाप्रहृष्टेति यावत्, परिपालन इत्यर्थः ॥ २५ ॥
मया स्थिरादृढा प्रतिज्ञा प्रतिज्ञाताकृता, पाकं पचतीतिवत्।
१प्रहृष्यमाणाङ।
॥ २।१०९।२५ ॥ ॥ २।१०९।२६,२७ ॥
वनवासं वसन्नेव शुचिर्नियतभोजनः।
मूलपुष्पफलैः पुण्यैः १पितृ़न् देवांश्च तर्पयन् ॥ २६ ॥
सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये।
अकुहः श्रद्धधानः सन् कार्याकार्यविचक्षणः ॥ २७ ॥
पञ्चवर्गःपञ्चेन्द्रियवर्गः। लोकयात्रालोकसामान्यप्राप्ता यात्राव्यवहारःदेहरक्षेत्यर्थः। अकुहःअकुहबुद्धिः। श्रद्धधानःआस्तिक इति यावत् ॥ २७ ॥
१पितृदेवांश्चङ।
॥ २।१०९।२६,२७ ॥ ॥ २।१०९।२८ ॥
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्।
अग्निर्वायुश्च सोमश्च कर्मणां फल १भागिनः ॥ २८ ॥
कर्मभूमिमिमां प्राप्य स्थितेन मया यत् शुभं कर्म, तदेव कर्तव्यम्। कर्मणांस्वकृतपुण्यकर्मणां फलभागिनः अग्न्यादिपदं प्राप्येति शेषः। तथात्वं अग्निर्वा अकामयत। अन्नादो देवानां स्याम्ऽ इत्यादिश्रुतिप्रसिद्धम् ॥ २८ ॥
अष्टकोदाहरणेन वैदिककर्मणां निष्फलत्वं यदुक्तं तत्र परिहारमाहकर्मभूमिमित्यादिना। यच्छुभं कर्म तत् कर्तव्यं, जनैरिति शेषः। तत्र फलवदनुष्ठानं दर्शयतिअग्निरित्यादि। कर्मणां कर्मभूमिकृतस्वस्वकर्मणां फलभागिनःअग्नित्वादिफल प्राप्तवन्तःगो।
१गामिनःङ।
॥ २।१०९।२८ ॥ ॥ २।१०९।२९,३० ॥
शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः।
तपांस्युग्राणि चास्थाय दिवं प्राप्ता महर्षयः ॥ २९ ॥
अमृष्यमाणः पुनरुग्रतेजसा
निशम्य तन्नास्तिक १वाक्यहेतुम्।
अथाब्रवीत्तं नृपतेस्तनूजः
विगर्हमाणो वचनानि तस्य ॥ ३० ॥
नास्तिकवाक्यहेतुंनास्ति परलोक इति वचनोपपादकं यदि भुक्तमिहान्येनऽ इत्याद्युक्तशुष्कतर्करूपमित्यर्थः, तममृष्यमाणः। तस्येति। जाबालस्येत्यर्थः ॥ ३० ॥
भावफलाववक्षया देवराडिति निर्देशः। व्यासः वेदान् विभक्तवानितिवत्। वेदविभागकरणानन्तरं हि व्यासनामप्राप्तिः।
१हेतुवाक्यम्ङ।
विगर्हमाणःमनसि विगर्हमाणःगो।
॥ २।१०९।२९,३० ॥ ॥ २।१०९।३१ ॥
सत्यं च धर्मं च पराक्रमं च
भूतानुकम्पां प्रियवादितां च।
द्विजातिदेवातिथिपूजनं च
पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ ३१ ॥
सन्त आहुरिति। विशिष्य क्षत्त्रियस्येति द्रष्टव्यम् ॥ ३१ ॥
॥ २।१०९।३१ ॥ ॥ २।१०९।३२ ॥
तेनैवमाज्ञाय यथावदर्थं
एकोदयं सम्प्रतिपद्य विप्राः।
धर्मं चरन्तः सकलं यथावत्
काङ्क्षन्ति लोकागममप्रमत्ताः ॥ ३२ ॥
तेनेत्यादि। एवमुक्तरूपेण तेन पथैव एकोदयंमुख्यफलं यथावदर्थंपरमार्थं मोक्षरूपं पुरुषार्थं प्राप्यं आज्ञायज्ञात्वा तमेव धर्ममार्गं सम्प्रतिपद्यपरिगृह्य धर्मं चरन्तः अप्रमत्ता विप्राः सकलं यथावत्परमार्थं लोकागमंसालोक्यादिसायुज्यान्ताशेषमुक्तिप्राप्तिं काङ्क्षन्ति ॥ ३२ ॥
तेन हेतुना विप्राः एवमर्थं यथावत् आज्ञायज्ञात्वा एकोदयं सम्प्रतिपद्यऐककण्ठ्यं प्राप्य सकल धर्मंस्वस्ववर्णाश्रमोचितधर्मं अप्रमत्ताःसावधानाः यथावत् चरन्तःअनुतिष्ठन्तः लोकागमंस्वर्गादिलोकप्राप्तिं काङ्क्षन्तिगो।
॥ २।१०९।३२ ॥ ॥ २।१०९।३३ ॥
निन्दाम्यहं कर्म कृतं पितुस्तत्
१यत्त्वामगृह्णात् २विषमस्थबुद्धिम्।
बुध्याऽनयैवंविधया चरन्तं
सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥
विषमस्थबुद्धिंदुर्मार्गप्रतिष्ठितबुद्धिं त्वां अगृह्णात्याजकत्वेन पर्यगृह्णादिति यत्, तत् पितुः कर्म निन्दामि, अपि चार्यः परिगृहीतवानिति शोचामीत्यर्थः। विषमस्थबुद्धित्वमेव स्पष्टीक्रियतेबुध्येत्यादि। एवंविधयाऽनया बुध्या चरन्तं लोकनाशाय सञ्चरन्तं उच्यमानविशेषणं त्वां पर्यगृह्णादिति पूर्वेण सम्बन्धः ॥ ३३ ॥
१यस्त्वा ङ।
विषमस्थबुद्धिंअवैदिकमार्गनिष्णातबुद्धिं৷৷।निन्दामिवैदिककर्मभ्यो बहिष्करोमिगो। वस्तुतस्तुभवान्नात्र निन्द्यः, भवन्तं मन्त्रित्वे पुरोहितत्वे चागृह्णात् खलु दशरथः, तत्कर्मैव निन्द्यं इति नर्मोक्तिरियम्।
२विषयङ।
॥ २।१०९।३३ ॥ ॥ २।१०९।३४ ॥
यथा हि चोरः स तथा हि बुद्धः
तथागतं नास्तिकमत्र विद्धि।
तस्माद्धि यः शक्यतमः प्रजानां
१न नास्तिकेनाभिमुखो बुधः स्यात् ॥ ३४ ॥
अथ अतिकोपात् नास्तिकोऽपि बौद्धवद्दण्डार्हो राज्य इत्याहयथा हीत्यादि। यथा हि चोरो दण्ड्यः प्रसिद्धः, बुद्धोऽपि तथा दण्ड्यः प्रसिद्धः। नास्तिकं चार्वाकमपि अत्रवेदमार्गविषये तथागतमेव विद्धि, तेनापि वेदप्रामाण्यं न स्वीक्रियते, तथा नास्तिकेनापीति। तस्माद्धितत एव हेतोः प्रजानां अनुग्रहाय राज्ञा चोरवदेव दण्डयितुं शक्यतमः, द्विजोऽपीति शेषः। ततश्च कथाऽपि खलु पापानाम् अलमश्रेयसे यतःऽ इति न्यायेन बुधःविद्वान् नास्तिकेनाभिमुखो न स्यात्। एवञ्च दण्डाशक्तैर्ब्राह्मणैः नास्तिकः सम्भाषणीयो न भवतीत्युक्तं भवति ॥ ३४ ॥
यथा हि चोरः प्रजानां बाह्यं धनं अपहरति, तथा केवलबुद्धिवादरतोऽपि जनानाम् उत्तमसंस्कारादिरूपम् आन्तरं धनम् अपहरति। अतः तादृशः बुद्धिवादरतः शून्यवादी यावच्छक्ति दूरतः परिहरणीय इत्यर्थः। अधिकं रामायणभूमिकायां स्पष्टीभविष्यति।
१सङ।
॥ २।१०९।३४ ॥ ॥ २।१०९।३५ ॥
१त्वत्तो जनाः पूर्वतरे २द्विजाश्च
शुभानि कर्माणि बहूनि चक्रुः।
३छित्त्वाऽऽसतेमं च परं च लोकं
तस्मात् द्विजाः स्वस्ति कृतं हुतं च ॥ ३५ ॥
अथ सर्वात्मना तिरस्करोतित्वत्त इत्यादि। अन्य इत्यध्याहार्यः। त्वत्तोऽन्ये ये द्विजा जनाः पूर्वतरेपराः श्रेष्ठाः बहूनि शुभानि कर्माणि चक्रुः, त एते इमं च परं च लोकं छित्वा आसतआसेर्लङ्, स्थितवन्त इति यावत्। तस्मात् अद्यापि द्विजाः स्वस्तिअहिंसासत्यादिकं, हुतंयज्ञादिकं, कृतंपरोपकारादिलक्षणं धर्मं च कुर्वते, वेदप्रामाण्यात् ॥ ३५ ॥
त्वत्तः पूर्वतरेपुरातनाश्च वराश्चज्ञानतपःश्रेष्ठाश्च जनाः बहूनि शुभानि कर्माणि चक्रुः। ते इमं परं च लोकं जित्वा सदा वर्तन्त इति शेषः। सदा वर्तमानत्वं च ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात्, सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणिऽ इति श्रुतेः। तस्मात् कर्मानुष्ठानस्य ऐहिकामुष्मिकसकलफलसाधनत्वात् द्विजाः स्वस्तिमङ्गलात्मकं कर्म हुतंयज्ञादि कृतं चतपोदानादिकं च कुर्वन्तीति शेषःगो।
१वृत्ताः पराःङ।
२वराश्च ङ, जनाश्चच।
इमं लोकं परं च लोकं छित्वाऐहिकामुष्मिकफलकामनां त्यक्त्वाऽपिति।
३छित्वा सदेमंङ, जित्वा सदेमंङ।
॥ २।१०९।३५ ॥ ॥ २।१०९।३६ ॥
धर्मे रताः सत्पुरुषैः समेताः
तेजस्विनो दानगुणाः प्राधानाः।
अहिंसका वीतमलाश्च लोके
भवन्ति पूज्या मुनयः प्रधानाः ॥ ३६ ॥
यस्मादेवं तस्मात् धर्मरतत्वादिस्वभाववन्तः प्रधानाःश्रेष्ठा वसिष्ठाद्या मुनय एव लोके अस्मदादिभिः पूज्याः, न त्वादृशा इत्यर्थः ॥ ३६ ॥
गुणङ।
॥ २।१०९।३६ ॥ ॥ २।१०९।३७ ॥
इति ब्रुवन्तं वचनं १सरोषं
रामं महात्मानमदीनसत्त्वम्।
उवाच २तथ्यं पुनरास्तिकं च
सत्यं वचः सानुनयं न विप्रः ॥ ३७ ॥
एवं धिक्कृतो जाबालिः स्वविषयं कोपं रामस्य शमयतिइति ब्रुवन्तमित्यादि। तथ्यंपरमार्थम्। विप्रःजाबालिः ॥ ३७ ॥
१सदोषंच।
तथ्यंयथार्थं, सत्यंसद्भ्यो हितम्गो।
२पथ्यंच।
॥ २।१०९।३७ ॥ ॥ २।१०९।३८ ॥
न नास्तिकानां वचनं ब्रवीम्यहं
१न नास्तिकोऽहं न च नास्ति किञ्चन।
समीक्ष्य कालं पुनरास्तिकोऽभवं
भवेय काले पुनरेव नास्तिकः ॥ ३८ ॥
नास्तिकानां वचनमहं न ब्रवीमि, निर्निमित्तमिति शेषः। न च नास्ति किञ्चनेति। मे प्रयोजनं नास्तिकवादेनेति शेषः। कथमेवं प्रत्यक्षापलाप इत्यत्राहसमीक्ष्येत्यादि। कालं समीक्ष्येति। पारलौकिकव्यवहारकालं समीक्ष्येत्यर्थः। काल इति। परलोकाविरोधिलौकिकव्यवहारप्रयोजनकाल इत्यर्थः ॥ ३८ ॥
धर्मसङ्कटे प्राप्ते सर्वमतज्ञेन विदुषा यत्किञ्चिन्मतमवलम्ब्यापि तस्य परिहरणीयत्वात् महतो राज्यस्यानायकत्वरूपसङ्कटपरिहाराय त्वां निवर्तयितुं मया नास्तिकमुपन्यस्तं, न त्वहं वस्तुतो नास्तिक इत्याहन नास्तिकानामित्यादिना। किञ्चनपरलोकादिकं नास्तीति नअस्त्येव। समीक्ष्य कालं पुनरास्तिकोऽभवंयदा वादिनाऽन्येन नास्तिकमतमवलम्ब्यते तं कालं समीक्ष्य अहं पुनरास्तिकमतावलम्ब्यभवम्। अन्यैः वादिभिः नास्तिकमतमवलम्ब्य कुतर्कोद्घाटने तदानीमहमेव त्वदुक्तरीत्या शतशस्तत्खण्डनमकार्षमित्यर्थः। तर्हीदानीं नास्तिकमतं कुतोऽवलम्बितवानसीत्यत्राहभवेय काले पुनरेव नास्तिक इति। काले—- धर्मसङ्कटकालेगो।
१न चास्तिकोऽहंङ।
प्रमाणानुगुणत्वात् पुरुषव्यापारस्य तत्तत्प्रमाणप्रवृत्तिकालानुगुणं आस्तिकत्वनास्तिकत्वादिकं वर्तत
एवेत्याशयः। अधिकं अन्यत्र ॥
॥ २।१०९।३८ ॥ ॥ २।१०९।३९ ॥
स चापि कालोऽयमुपागतः शनैः
यथा मया नास्तिकवागुदीरिता।
निवर्तनार्थं तव, राम कारणात्
प्रसादनार्थं च मयैतदीरितम् ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे नवोत्तरशततमः सर्गः
स चापि काल इति। लौकिकव्यवहारप्रयोजन इत्यर्थः। किं तल्लौकिकं प्रयोजनमित्यत्र निवर्तनार्थमित्यादि। हे राम तव निवर्तनप्रयोजनमुद्दिश्य तस्य कारणात् तव प्रसादनार्थं च मयैतन्नास्तिकवचनमीरितमित्यर्थः। देव(४३)मानः (?) सर्गः ॥ ३९ ॥
इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे नवोत्तरशततमः सर्गः
निवर्तनार्थंतव निवृत्तिज्ञापनार्थंतव वेदमार्गादविचाल्यत्वस्य लोकानां प्रकटीकरणार्थमित्यर्थः। कारणात्भरतकारणात्। भरतमुखोल्लासाय तव प्रसादनार्थं चेत्यर्थःगो। निवर्तनार्थं नास्तिक्यमुक्तम्। अद्य तु प्रसादनार्थं एतत् आस्तिक्यमुक्तमिति वा ॥
॥ २।१०९।३९ ॥