१०८ जाबालेः राजनीतिः

अष्टोत्तरशततमः सर्गः

[जाबालिवचनम्] ॥ २।१०८।१ ॥

आश्वासयन्तं भरतं जाबालिः ब्राह्मणोत्तमः।

उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ १ ॥

एवम् उभाभ्यां पितृवचनपरिपालनं कर्तव्यमिति रामेण सिद्धान्तिते पितृवचनसत्यश्रद्धाविघातद्वारा प्रत्यावृत्तिप्रयोजनाय जाबालिर्लोकायतिकमवलम्ब्याह। आश्वासयन्तमित्यादि। धर्मात् अपेतंधर्मापेतम्, अधर्ममार्गमित्यर्थः ॥ १ ॥

ब्राह्मणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनं अहृदयमिति द्योत्यतेगो।

॥ २।१०८।१ ॥ ॥ २।१०८।२ ॥

साधु, राघव मा भूत्ते बुद्धिरेवं निरर्थिका।

प्राकृतस्य नरस्येव १ह्यार्यबुद्धेस्तपस्विनः ॥ २ ॥

साधुसम्यग्युक्तिमत् इदं वच उवाचेत्यन्वयः। इदं शब्दार्थःराघवेत्यादि। तपस्विनःशोच्यस्य (तु) प्राकृतस्यपामरस्य नरस्येव निरर्थिका एवम्बुद्धिःपितृवचनं परिपालनीयमित्येवंरूपिणी आर्यबुद्धेः ते मा भूत् ॥ २ ॥

साधुऽ इति वाक्योपक्रमसूचकं लोक इव। आर्यबुद्धेः, तपस्विनः ते एवं प्राकृतस्य नरस्येव निरर्थिका बुद्धिः मा भूत्इत्यन्वयः।

१महाबुद्धेङ।

॥ २।१०८।२ ॥ ॥ २।१०८।३ ॥

कः कस्य पुरुषो वन्धुः १किमाप्यं कस्य केनचित्।

२एको हि जायते जन्तुः एक एव विनश्यति ॥ ३ ॥

कुतो मा भूत्? इत्यत्र, पितापुत्रसम्बन्धस्यैव मिथ्यात्वादित्याहकः कस्येत्यादि। कस्य च केनचिदिति सम्बन्ध इति शेषः। किं नास्तिकस्य च केनापि न सम्बन्धः? इत्यत्र नेत्येवेत्याहएको हीत्यादि ॥ ३ ॥

१०५ सर्गीयचत्वारः श्लोकाः (२६२९) एतदादिचतुःश्लोकैः तोलनीयाः। अत्र षष्ठश्लोके सज्जनशब्दोऽप्यवधेयः।

आप्यंप्राप्यम्।

१किं कार्यंङ।

२यदेकोङ।

॥ २।१०८।३ ॥ ॥ २।१०८।४ ॥

तस्मान्माता पिता चेति, राम सज्जेत यो नरः।

उन्मत्त इव स ज्ञेयः नास्ति कश्चिद्धि कस्यचित् ॥ ४ ॥

यः सज्जेत, स उन्मत्तवत् ज्ञेयः ॥ ४ ॥

॥ २।१०८।४ ॥ ॥ २।१०८।५,६ ॥

यथा ग्रामान्तरं गच्छन् नरः १कश्चिद्बहिर्वसेत्।

उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ ५ ॥

एवमेव मनुष्याणां पिता माता गृहं वसु।

आवासमात्रं, काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ६ ॥

आवासमात्रंपथ्यावासमात्रम्। यदेवं अतःनात्र सज्जनाः सज्जन्ते ॥ ६ ॥

१कश्चित्क्वचिद्वसेत्।

मार्गस्थसत्रशालादिकं आवासः। तेषां स्मरणस्यापि न आवश्यकता चेत्, किमु तत्प्रीत्यर्थराज्यत्यागादेरित्याशयः।

॥ २।१०८।५,६ ॥ ॥ २।१०८।७ ॥

पित्र्यं राज्यं परित्यज्य स नार्हति, नरोत्तम

आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ ७ ॥

हे नरोत्तम पित्र्यं राज्यं परित्यज्य भवान् बहुकण्टकं कापथं वनमार्गमास्थातुं नार्हति ॥ ७ ॥

॥ २।१०८।७ ॥ ॥ २।१०८।८ ॥

समृद्धायामयोध्यायाम् आत्मानमभिषेचय।

एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते ॥ ८ ॥

एकवेणीधरात्वं विरहिणीलक्षणं अयोध्यायाः स्त्रीसमाधिना वर्णितम् ॥ ८ ॥

॥ २।१०८।८ ॥ ॥ २।१०८।९,१० ॥

राजभोगाननुभवन् महार्हान्, पार्थिवात्मज

विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ ९ ॥

न ते कश्चिद्दशरथः त्वं च तस्य न कश्चन।

अन्यो राजा १त्वमन्यः सः तस्मात् कुरु यदुच्यते ॥ १० ॥

उक्तं पितापुत्रासम्बन्धमुपसंहरतिन ते कश्चिदित्यादि। यदेवं अन्यो राजा, त्वमन्यः, तस्मान्मयोच्यतेमिथ्यापितृवचनाभिनिवेशं मुक्त्वा राज्यं कुर्वितिःतत् कुरु ॥ १० ॥

१त्वमप्यन्यःङ।

॥ २।१०८।९,१० ॥ ॥ २।१०८।११ ॥

बीजमात्रं पिता जन्तौः १शुक्लं रुधिरमेव च।

संयुक्तमृतुमन्मात्रा पुरषस्येह जन्म तत् ॥ ११ ॥

ननु यद्यप्यन्यत्वं सुखदुःखादिवैचित्र्यात् पितापुत्रयोः, अथाप्यसम्बन्धोऽसिद्धः, विना पितरं पुत्रोत्पत्तिप्रसङ्गादित्याशङ्क्यसत्यमस्ति सम्बन्धः, अपि तु निमित्तनिमित्तिमात्रम् नोपादानत्वम्, यतो मृद्घटवत् न कार्यरूपेण पुत्रेण सम्बन्धः। तर्हि किमुपादानं पुत्रस्य? इत्यत्र, मातापितृमलविशेषलवलेशमात्रमेवेत्याहबीजमात्रमित्यादि। निमित्तमात्रवाचिमात्रचा उपादानत्वव्यावृत्तिः। ऋतुमन्मात्रेति पुंवद्भावः सामानाधिकरण्यात्। तया गर्भभावेन धृतमपीति शेषः। तद्गर्भधृतशुक्लशोणितमिह लोके पुरुषस्यपुरुषशरीरस्य जन्मउत्पत्त्युपादानम् ॥ ११ ॥

पिता जन्तोः बीजमात्रंअल्पकारणम्। प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं–धृतं शुक्लं रुधिरमेव चशुक्लशोणितमेव, तत् शुक्लशोणितं पुरुषस्य जन्मकारणम्गो। अत्र बीजमात्रं पिता इतिवत् क्षेत्रमात्रे माताऽ इत्यप्यूह्यम्। बन्धुसामान्याभावस्यैव विवक्षितत्वात्।

१शुक्रं शोणितमेव चच।

॥ २।१०८।११ ॥ ॥ २।१०८।१२ ॥

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै।

प्रवृत्तिरेषा १भूतानां त्वं तु मिथ्या विहन्यसे ॥ १२ ॥

उपपादितमातापितृसम्बन्धसङ्गस्य मोहमूलत्वमुपसंहरतिगत इत्यादि। यत्र गन्तव्यमिति। पथिकेन ग्रामान्तरवत् यत्र लोके गन्तव्यं तत्र गतः। उक्तरूपिणी प्रवृत्तिर्मर्त्यानां स्वभावप्राप्तेति शेषः। अतःत्वं तु मिथ्या विहन्यसे। पुरुषार्थादिति शेषः ॥ १२ ॥

तेननृपेण यत्रयेषु भूतेषु गन्तव्यम्, स नृपतिः तत्र गतःपञ्चभूतेषु लयं प्राप्तः इत्यर्थः (नास्तिकस्य लोकान्तराभावात्)। पञ्चभूतमयत्वान्नरपतिशरीरस्य तदतिरिक्तस्यात्मनोऽभावात्। मर्त्यानांमरणशीलानां एषा प्रवृत्तिःअयं स्वभाव इत्यर्थः। त्वं तु मिथ्या विहन्यसेमिथ्याभूतेन सम्बन्धेन पीड्यसेगो। अर्थधर्मपराःप्रत्यक्षसौख्यं विहाय केवलार्थसम्पादनपराः, धर्मपराश्च। इतरान्केवलप्रत्यक्षसुखानुभवपरान्। अर्थधर्मपरविषयशोकहेतुमाहते हीति। प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धःगो।

१प्रेत्य मेजिरेङ।

॥ २।१०८।१२ ॥ ॥ २।१०८।१३ ॥

१अर्थे धर्मपरा ये ये तांस्तान् शोचामि नेतरान्।

ते हि दुःखमिह प्राप्य विनाशं २प्रतिपेदिरे ॥ १३ ॥

ननु अर्थपुरुषार्थविघातेऽपि धर्मपुरुषार्थो मुख्योऽस्तीत्यत्राहअर्थ इत्यादि। अर्थे प्रत्यक्षसिद्धार्थपुरुषार्थे प्राप्ते तं परित्यज्य ये धर्मपराः तान् शोचामि। ते हि धर्मपराः इह दुःखं प्राप्य अन्ते केवलं विनाशं प्रतिपेदिरे ॥ १३ ॥

अर्थधर्मपराः प्रत्यक्षसौख्यं विहाय केवलार्थसंपादनपराः, धर्मपराश्च। इतरान्केवलप्रत्यक्षसुखानुभवपरान्। अर्थधर्मपरविषयशोकहेतुमाह–ते हीति। प्रेत्यापि विनाशं दुःखं भेजिर इति सम्बन्धःगो।

१अर्थधर्मपराङ।

२प्रेत्य मेजिरेङ।

॥ २।१०८।१३ ॥ ॥ २।१०८।१४ ॥

अष्टका पितृदैवत्यम् इत्येवं प्रसृतो जनः।

अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १४ ॥

ननु धर्मात् परलोकसुखं भविष्यतीत्यत्र, नात्र किञ्चित् प्रमाणमस्तीत्याहअष्टकेत्यादि। अष्टका नाम पितृदैवत्यं कर्मास्तीति तत्र प्रसृतःप्रवृत्तः यो जनः तस्यान्नस्य स्वभोगसाधनस्य केवलं उपद्रवंनाशमेव कुर्वन्ति।

कुत एवम्? इत्यतःमृतो हि किमशिष्यतीति। पश्य स्वानुभवादेव मिथ्याव्यापारत्वम् ॥ १४ ॥

अयं जनः अष्टकाअष्टकाश्राद्धं पितृदैवत्यंप्रतिसांवत्सरिकम् इति यत्कर्म, कर्तुमिति शेषः, प्रकृतःप्रवृत्तः, अत्र तत्सर्वमिति शेषः, अन्नस्य उपद्रवंक्षयं पश्यगो। अद्याष्टका, अद्य पितृदैवत्यम् इत्येवं जनः प्रसृतःप्रवृत्तः, परन्तु अन्नस्य उपद्रव एव तदिति लोकरीत्या वाक्यप्रवृत्तिः।

॥ २।१०८।१४ ॥ ॥ २।१०८।१५ ॥

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति।

दद्यात् १प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ १५ ॥

ननु तु माऽस्तु लोकान्तरगतपित्रादिना दीयमानस्यान्नस्य प्राशनम् अथापि तदुद्देशेन दत्तमन्नं लोकान्तरे तमुपतिष्ठति इहान्येन भुक्तमपीत्यत्र तदपि तर्कहतमित्याहयदीत्यादिना। यद्यन्यभुक्तान्नं अन्यदेहं गच्छेत् तदा प्रवसतःदेशान्तरगतान् उद्दिश्य श्राद्धमेव दद्यात्, प्राप्तकाले लिङ्, तथा दानमेवोचितम्, न तु तत्पथ्यशनंतस्मै दीयमानपाथेयमन्याय्यं भवेत् ॥ १५ ॥

यद्यपि मृतः नाशिष्यति, तथाऽपि तदुद्दशेन तत्प्रतिनिधये दत्तं तं प्राप्नुयादित्यत्रइदमपि अन्ननाशमात्रम्, अन्योदरगतम् अन्यस्य तृप्ति कथं जनयेत्? यद्यपि पुरोवर्तिनरस्य उदरपूरणं दृश्यते, अथापि तदपि स्वतृप्तिसाधनस्य परस्मै वृथा प्रतिपादनमात्रमिति भावः।

१प्रवसतांङ।

॥ २।१०८।१५ ॥ ॥ २।१०८।१६ ॥

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः।

यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ १६ ॥

अर्थरूपपित्रर्थश्राद्धान्नदानदृष्टान्तेन देवार्थप्रदानमपि मिथ्या, तर्हि तत्प्रतिपादकागमप्रामाण्यादेव तदुच्यमानफलं सत्यं भविष्यतीत्याशङ्क्य, अनुभवादेव मिथ्यात्वे सिद्धे वचनं वार्तादिना जीवनोपायाशक्तैः कैश्चिन्मेधाविभिः पामरजनप्रतारणेन जीवनोपायतया कृतं इत्याहदानेत्यादि। संवननंकार्मणं वशीकरणम्। धनिभिः दानार्थं वशीकरणोपाया एव हि केवलं, यजस्वदेवपूजां कुरु, देहिअन्नदानादिदानं कुरु, दीक्षस्वयागं कुरु, तपः तप्यस्वसम्पादय, सन्त्यजप्रव्रज इत्येवं पराः ग्रन्थाःवेदशास्त्रलक्षणाः कैश्चिन्मेधाविभिः मेधाशब्दरपरिश्रमकवित्ववञ्चनाचातुरीसाहसादिभ्यः कृताः ॥ १६ ॥

एवं एकत्र वैदिककर्मणि फलव्यभिचारदर्शनात् सर्वत्रापि वैदिके न फलप्रसक्तिरित्याहदानसंवनना इत्यादिनागो।

सन्त्यजअर्थेषणादीन् सम्यक् त्यजगो। सन्त्यजइत्येते ग्रन्था इत्यन्वयः।

॥ २।१०८।१६ ॥ ॥ २।१०८।१७ ॥

स नास्ति पर १मित्येव कुरु बुद्धिं, महामते

प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १७ ॥

अतःहे महामते स त्वं परंअर्थपुरुषार्थात् परंपरलोकप्रयोजनं किञ्चित् प्रयोजनकं किञ्चित् धर्म इति नास्त्येवेति बुद्धिं कुरु। मथितसिद्धान्तमाहप्रत्यक्षमित्यादि। प्रत्यक्षानुभवसिद्धं यत् सुखसाधनं तदेवानुतिष्ठ। परोक्षंसुखसाधनकल्पितं धर्मं पृष्ठतः कुरुत्यज ॥ १७ ॥

परंपरलोकानुभाव्यम्गो। एतत् परं नास्तीति बुद्धिं कुर्वित्यन्वयः।

१मित्येतत्ङ।

॥ २।१०८।१७ ॥ ॥ २।१०८।१८ ॥

सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्।

राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ १८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः

सतांप्रत्यक्षसिद्धसत्यार्थवादिनां सर्वलोकनिदर्शिनीं सर्वलोकसंवादयित्रीं बुद्धिं पुरस्कृत्य राज्यं प्रतिगृह्णीष्व। दया(१८)मानः सर्गः ॥ १८ ॥

इति श्रीमद्रामायणामृतकतकटीकायाम् अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः

तां बुद्धिंप्रत्यक्षादन्यन्नास्तीति बुद्धिंगो। स इति पृथक्पदं त्वमित्यनेनान्वेति।

॥ २।१०८।१८ ॥