१०७ रामस्य पित्राज्ञापालनकथनम्

सप्तोत्तरशततमः सर्गः

[रामप्रतिवचनम्] ॥ २।१०७।१ ॥

पुनरेवं ब्रुवाणं तं भरतं १लक्ष्मणाग्रहजः।

प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽ२भिसत्कृतः ॥ १ ॥

अथ भरतोक्तं राजनि अधर्मं परिहरन् रामः राजनियोग एव परमो धर्म इति पुनश्च प्रतिष्ठापयति। पुनरित्यादि ॥ १ ॥

१भरताग्रजःङ।

२तिसत्कृतःङ।

॥ २।१०७।१ ॥ ॥ २।१०७।२ ॥

उपपन्नमिदं वाक्यं यत् त्वमेवमभाषथाः।

जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २ ॥

उपपन्नमिति। ज्येष्ठपुत्रप्रतिपत्तिमूलम् उक्तवचनजातमित्यर्थः ॥

जातः पुत्रः त्वमित्यन्वयः।

॥ २।१०७।२ ॥ ॥ २।१०७।३ ॥

पुरा, भ्रातः पिता नः सः मातरं ते समुद्वहन्।

मातामहे समाश्रौषीत् राज्यशुल्कमनुत्तमम् ॥ ३ ॥

तर्ह्यागन्तव्यमित्यत्राहपुरेत्यादि। हे भ्रातः भरत नः पिता मातामहेकेकये त्वन्मातृपरिग्रहाय राज्यशुल्कम् अश्रौषीत्, पथि देये शुल्कमस्त्री जामात्रा यच्च दीयतेऽ, त्वद्दौहित्रस्य राज्यं दास्यामीति राज्यमेव शुल्कत्वेन प्रतिज्ञातवानित्यर्थः। ननु कैकेय्या वरणं किमर्थमुपात्तं राज्याय? राज्यस्य स्वशुल्कत्वमेव कुतो न स्मारितम्? उच्यते स्त्रूषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे। गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम्ऽ इति स्मृतेः कौसल्यायां प्रधानमहिष्यां स्थितायां स्वविवाहस्य नर्मार्थविवाहमात्रत्वात् एतन्निमित्तवचनं राज्ञा न दीयेतापि इत्याशङ्कया, साक्षात् स्वोपकारप्रत्युपकारदत्तं वरमेव स्वप्रयोजनाय वृतवती ॥ ३ ॥

काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामः मोहहेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेत्वन्तरमाहपुनरित्यादिनागो।

उमासंहितायां पार्वतीं प्रति शिववचनं पट्टाभिषेकसमये भवेयं स्मारितो ह्यहम्। त्वया वाऽन्येन भूपाल तथा चेत् करवाण्यहम्। इत्थं प्रतिज्ञामकरोत् आहिताग्न्यग्रणीर्नृपःऽ इति कैकेयीविवाहसमये केकयदशरथसङ्केतस्य विद्यमानत्वाच्चादोषःती। अत्रेदमवधेयम्दशरथस्य पत्न्यः सार्धत्रिशतमिति सुविदितम्। (अयो। ३४१३)। महिष्यस्तु तिस्र एव, कौसल्यासुमित्राकैकेय्यः। अत एव एताभ्य एव पायसदानम्, न सर्वाभ्यः। एतेन कैकेयीविवाहस्य नर्मविवाहत्वं न स्वरसम्। किन्तु कौसल्यायाम् अप्राप्तपुत्रस्य दशरथस्य पुत्रार्थमेव सुमित्राविवाहः। तस्यामपि पुत्रादर्शनात् कैकेयीविवाहः। तदा च, कैकेयीविवाहानन्तरं यदि दैवात् कौसल्यासुमित्रयोः पुत्रोत्पत्तिं शङ्कमानेन कैकेयीपित्रा कैकेयीपुत्राय राज्यशुल्कं प्रार्थितम्। परन्तु कैकेय्यामपि पुत्रो न जात एव। तेन च दशरथश्चिन्ताकुलो बभूव (बाल ८१)। ततः पुत्रकामेष्ट्या देवानुग्रहबलात् सुतानवाप। एवञ्च यथामनीषितं कैकेय्यां पुत्रालाभात्, पुत्रकामेष्ट्या पुत्रप्राप्तेः महिषीत्रयसाधारण्यात्कैकेयीविवाहकालिकी शुल्कप्रतिज्ञा स्वयं दुर्बला जातैव। अत एव कैकेयी न तत् स्मारितवतीति ज्ञायते। अत्रापि रामः अत एव अनन्तरश्लोक एव दैवासुरे च संङ्ग्रामेऽ इति हेत्वन्तरं वदतीति प्रतीयते। किञ्च विवाहकाले भरताभिषेकमात्रस्यैव प्रतिज्ञातत्वेन, तेन रामविवासनं प्रार्थयितुमशक्यमेव। रामविवसनाभावे भरतराज्यप्रतिष्ठा न सम्भाविनी। अतश्च वरद्वयम् अत्यावश्यकमिति जानन्ती मन्थरा न वैवाहिकप्रतिज्ञां बोधितवती, कैकेय्यपि तथैव आचरितवतीति च ज्ञायते ॥

॥ २।१०७।३ ॥ ॥ २।१०७।४ ॥

१देवासुरे च संङ्ग्रामे जनन्यै तव पार्थिवः।

सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ ४ ॥

देवासुरेतत्सम्बन्धिनि तच्छब्द औपचारिकः ॥ ४ ॥

१दैवासुरेङ।

॥ २।१०७।४ ॥ ॥ २।१०७।५,६ ॥

ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी।

अयाचत १नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ ५ ॥

तव राज्यं, नरव्याघ्र मम प्रव्राजनं तथा।

तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ ६ ॥

नियुक्तःवरबलेन नियोजितः ॥ ६ ॥

१नराधीशंङ।

॥ २।१०७।५,६ ॥ ॥ २।१०७।७ ॥

तेन पित्राऽहमप्यत्र नियुक्तः, पुरुषर्षभ

चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ ७ ॥

वरदाननिमित्तरूपं निमित्तमस्यास्तीति वरदानिकम् ॥ ७ ॥

॥ २।१०७।७ ॥ ॥ २।१०७।८ ॥

सोऽहं वनमिदं प्राप्तः निर्जनं लक्ष्मणान्वितः।

सीतया चाप्रतिद्वन्द्वः १सत्यवादे स्थितः पितुः ॥ ८ ॥

अप्रतिद्वन्द्वःकिञ्चित्प्रतिस्पर्धारहितः ॥ ८ ॥

१तस्य वाक्येङ।

कामक्रोधादिरहित इति यावत्।

॥ २।१०७।८ ॥ ॥ २।१०७।९ ॥

भवानपि तथेत्येव पितरं सत्यवादिनम्।

कर्तुमर्हति, १राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ ९ ॥

तथेत्येवेति। तथैवेतिपितृनियुक्त एवेति कृत्वा ॥ ९ ॥

१राजेन्द्रंङ।

॥ २।१०७।९ ॥ ॥ २।१०७।१० ॥

ऋणान्मोचय राजानं मत्कृते, भरत प्रभुम्।

पितरं १चापि धर्मज्ञं मातरं चापि नन्दय ॥ १० ॥

मत्कृतेमत्प्रीत्यर्थमेवेत्यर्थः। नन्दय, न तु निन्दय ॥ १० ॥

१त्राहि धर्मज्ञच।

॥ २।१०७।१० ॥ ॥ २।१०७।११ ॥

श्रूयते हि पुरा, तात श्रुतिर्गीता यशस्विना।

गयेन यजमानेन गयेष्वेव पितृ़न् प्रति ॥ ११ ॥

श्रूयत इत्यादि। पितृ़न् प्रतिपितृप्रीतिमुद्दिश्य अहं यक्ष्य इति सङ्कल्प्य गयायां पितृ़णां गतिं प्रति यजता यजमानेन यशस्विना गयेन पुरा गीता श्रूयते। हिः प्रसिद्धौ ॥ ११ ॥

गयेनगयाख्येन। गयेषुगयाख्येषु प्रदेशेषुगो।

॥ २।१०७।११ ॥ ॥ २।१०७।१२ ॥

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः।

तस्मात् पुत्त्र इति प्रोक्तः पितृ़न् यत् पाति वा सुतः ॥

का सा? इत्यतःपुन्नाम्न इत्यादि। पुतः त्रायत इति पुत्त्रः सुपि स्थःऽ इत्यत्र सुपिऽ इति योगविभागेनाकर्मण्यपि सुपि आदन्तात् कः, सुतः। पितृ़न् पातीति वा पुत्र इति। अत्र पितृशब्दस्य अदादेशः पृषोदरादित्वात् ॥ १२ ॥

पितृ़न् पातितदुद्देशकृतेष्टापूर्तादिना स्वर्गलोकं प्रापय्य रक्षतीत्यर्थःगो। व्युत्पत्त्यन्तरमाहपितृ़नितिति।

॥ २।१०७।१२ ॥ ॥ २।१०७।१३ ॥

एष्टव्या बहवः पुत्राः गुणवन्तो बहुश्रुताः।

तेषां वै समवेतानां यदि कश्चित् गयां व्रजेत् ॥ १३ ॥

गयां व्रजेदिति। गयांपितृमुक्तिपरमसाधनवृतगयाक्षेत्रे व्रजेत्, तदा मद्यत्नः सार्थो भवेदिति शेषः। इदं वचनं पितृत्राणं पुत्रेण कर्तव्यमित्यंशे सम्मतम् ॥ १३ ॥

तेषां वै समवेतानांतत्समुदायमध्य इति यावत्।

॥ २।१०७।१३ ॥ ॥ २।१०७।१४ ॥

एवं राजर्षयः सर्वे प्रतीताः, १राजनन्दन

तस्मात् त्राहि, नरश्रेष्ठ पितरं नरकात्, प्रभो ॥ १४ ॥

एवं सर्व इति। पितृरक्षका इत्यर्थः ॥ १४ ॥

१रघुनन्दनच।

॥ २।१०७।१४ ॥ ॥ २।१०७।१५१७ ॥

अयोध्यां गच्छ, भरत प्रकृतीरनुरञ्जय।

शत्रुघ्नसहितः, वीर सह सर्वैः द्विजातिभिः ॥ १५ ॥

प्रवेक्ष्ये दण्डकारण्यम् अहमप्यविलम्बयन्।

आभ्यां तु सहितः, १राजन् वैदेह्या लक्ष्मणेन च ॥ १६ ॥

त्वं राजा, भरत भव स्वयं नराणां

वन्यानामहमपि राजराण्मृगाणाम्।

गच्छ त्वं पुरवरमद्य सम्प्रहृष्टः

संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ १७ ॥

राजराडिति पृथक्पदम्। राडिति सत्सू৷৷।ऽ इत्यादिना अनुपसर्गेऽपि क्विप्। मृगाणां राट्दुष्टभृगाणां शिक्षक इति यावत् ॥ १७ ॥

१वीरच।

अत्र मृगशब्देन तत्तुल्या मुनयो लक्ष्यन्ते। यद्वा भाविसुग्रीवरञ्जनवालिवधादी। बीजन्यासोऽयम्गो।

॥ २।१०७।१५१७ ॥ ॥ २।१०७।१८ ॥

छायां ते दिनकरभाः प्रबाधमानं

वर्षत्रं, भरत करोतु मूर्ध्नि शीताम्।

एतेषामहमपि काननद्रुमाणां

छायां तामतिशयिनीं १सुखी श्रयिष्ये ॥ १८ ॥

शीतां छायामित्यन्वयः ॥ १८ ॥

दिनकरभा इति द्वितीयाबहुवचनान्तम्।

तामतिशयिनींछत्रच्छायाऽपेक्षयापि उत्तमां द्रुमच्छायाम्।

१सुखंङ।, शनैःच।

॥ २।१०७।१८ ॥ ॥ २।१०७।१९ ॥

शत्रुघ्नः १कुशलमतिस्तु ते सहायः

सौमित्रिर्मम विदितः प्रधानमित्रम्।

चत्वारस्तनयवरा वयं नरेन्द्रं

सत्यस्थं, भरत चराम मा २विषादम् ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥

नरेन्द्रं सत्यस्थं चराम, विधौ लोट्, सम्पादयाम। मा विषादं चराम। धैर्य(१९)मानः सर्गः ॥ १९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तोत्तरशततमः सर्गः

॥ २।१०७।१९ ॥