१०६ राज्यस्वीकारार्थं पुनर्याचना

षडुत्तरशततमः सर्गः

[भरतप्रार्थना] ॥ २।१०६।१ ॥

एवमुक्त्वा तु १विरते रामे वचनमर्थवत्।

ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ॥ १ ॥

उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः।

अथ भरतेन पुनः क्षत्त्रधर्मावष्टम्भेन रामप्रत्यावृत्तिप्रार्थनम्। एवमुक्त्वेत्यादि। चित्रमिति। उक्तियुक्तिविशेषोपपन्नत्वात् विस्मयावहं लोकस्येत्यर्थः ॥ १ ॥

अस्मिन् सर्गे श्लोकव्यत्यासः सर्गभेदश्च दृश्यते। तच्छुद्धये क्रमेण व्याक्रियतेगो।

१विरतो रामोङ।

निरुत्तरमुक्तवन्तं रामं प्रति मुखान्तरेणोत्तरस्योच्यमानत्वात् चित्रमित्युक्तम्गो।

॥ २।१०६।१ ॥ ॥ २।१०६।२ ॥

को हि स्यादीदृशो लोके यादृशस्त्वं, अरिन्दम ॥ २ ॥

को हि स्यात्न कोऽपीत्यर्थः। यादृशयादृशमहिमा ॥

॥ २।१०६।२ ॥ ॥ २।१०६।३ ॥

न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत्।

सम्मतश्चापि वृद्धानां तांश्च पृच्छसि संशयान् ॥ ३ ॥

सम्मतश्चापिधर्मविषये रामवदेव वर्तितव्यमिति दृष्टान्तभूतोऽपीत्यर्थः। तान्वृद्धान्। संशयान्संशयास्पदधर्मान्। सर्वज्ञोऽपि लोकमर्यादामनुसरन्निति शेषः ॥ ३ ॥

ये वृद्धाः त्वां विषयज्ञं मन्यन्ते, तानपि त्वं संशयान् पृच्छसि, को हि स्यादीदृशो लोके।

॥ २।१०६।३ ॥ ॥ २।१०६।४ ॥

यथा मृतस्तथा जीवन् यथाऽसति तथा सति।

यस्यैष बुद्धिलाभः स्यात् परितप्येत केन सः ॥ ४ ॥

यथा मृत इत्यादि। यथा मृतस्तथा जीवन्ऽ यथा जीवंस्तथा मृतःऽ इति आर्थिको वाक्यशेषः। यथा सति तथा सतिऽ इतीदं वाक्यमेकमेव पदच्छेदात् द्विवाक्यम्। एतदेवाभिप्रेत्य चित्रमित्युक्तं कविना। अयमर्थःयथा मृतःत्यक्तदेह आत्मा तदसम्बद्धः, नित्यशुचिसुखचिदात्मत्वादेव अनित्याशुचिदुःखजडदेहेन परमार्थतोऽसम्बद्ध एव। अथ यथेव जीवन् स्वकर्मानुरूपं संसरति, तथा मृतोऽपि स्वकर्मानुरूपं परत्र च संसरति। अथ यथा असति ज्ञाने तु न मुक्तिः, तथा सत्यप्यनन्तकाम्ये न मुक्तिः। अथ यथा सति ज्ञाने न बन्धः तथा सत्यपि लोकसङ्ग्रहार्थे नित्येऽपि न बन्धः। यस्य तु त्वादृशस्य राजयोगिनः एषःउक्तार्थविषयको बुद्धिलाभः स्यात् सम्भवे स राजयोगी केन परितप्येतन केनापि हेतुना। एतेन श्लोकेन तु आत्मानं चेद्विजानीयादयमस्मीति पूरुषः। किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्ऽ इति श्रुतिः वर्णितार्था, समग्राऽपि भगवद्गीता च। अस्माकं बहुप्रपञ्चविषयोऽयं श्लोकः, अस्मत्सहजबुद्धियोगार्थकत्वात्। मृदुमतिशिष्टार्थव्याख्याने तु तत्प्रपञ्चो न युक्त इति जोषं गम्यते ॥ ४ ॥

पितृवियोगादिजनितदुःखेन मया कथितमिति हि भवतोक्तं, मम तादृशदुःखप्रसङ्ग एव नास्तीत्याहयथा मृत इति। मृतः पुरुषो यथा द्वेषविषयो न भवति। जीवन्नपि तथा। यथा असतिअविद्यमाने वस्तुनि यथा रागो नास्ति, विद्यमाने वस्तुन्यपि तथा। इत्येषः बुद्धिलाभो यस्य स केन हेतुना परितप्येतन केनापीत्यर्थः। भवदुक्तप्रकारेण मम दुःखलेशोऽपि नास्तीति भावःगो। अस्य यथा जीवंस्तथा मृतःऽ इति वाक्यशेष आर्थिकः। यथा मृतः৷৷৷৷त्यक्तदेहः आत्मा देहपुत्रादिभिरसम्बद्धः, तथा जीवन्नपि तैरसम्बद्धः, नित्यशुचिसुखचिदात्मनः नित्याशुचिदुःखजडेन देहेन तदीयैश्चासम्बन्धात्। यथा च जीवन् स्वकर्मानुरूपं संसरति, तथा मृतोऽपि स्वकर्मानुरूपं परत्र। किञ्च यथा जीवन् सर्वैः सम्बद्धः, तथा मृतोऽपि सर्वात्मत्वादस्य। किञ्च यथा असतिअविद्यमाने न रागो जायते, तथा सति विद्यमानेऽपि रागो न युक्तः। यथा वा सतिसाधौ द्वेषो न युक्तः, तथा असतिअसाधावपि द्वेषो न युक्तः। किञ्च यथाऽसतिप्रपञ्चेऽनुरागः, तथा सतिब्रह्मणि युक्तः। किञ्च सतिब्रह्मणि तन्निष्ठस्य यथा न बन्धः, मुक्तिश्च भवति, तथा लोकसङ्ग्रहार्थमसन्निष्ठस्यापि न बन्धः, मुक्तिश्च भवतिति। जननमरणयोः लाभालाभयोर्वा यस्य मतिः समा वर्तते, तस्य लोके न काऽपि परितापप्रसक्तिः इति मूलस्याशयः ॥

॥ २।१०६।४ ॥ ॥ २।१०६।५ ॥

परावरज्ञो यश्च स्यात् १तथा त्वं, मनुजाधिप

स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ ५ ॥

परावरज्ञःकारणकार्यसपरिकरब्रह्मप्रत्यगात्मतत्त्वज्ञः। विषीदितुमित्यार्षम् शिद्विषये किल सदेः सीदादेशः, विषत्तुमिति यावत् ॥

किमर्थं तर्हि शोकमूलवचनं त्वयोक्तमित्याशङ्क्य, भवद्व्यसनासहतयेत्याहपरावरज्ञ इति। यः परावरज्ञःत्रिकालज्ञः आत्मानत्मज्ञः, परमात्मजीवात्मस्वरूपज्ञो वा, स एवं व्यसनं प्राप्यापि व्यथयितुं नार्हति, तथा स्वमपीति सम्बन्धःगो। परावरज्ञःसप्रपञ्चात्मतत्त्वज्ञःति।

१यथाच।

॥ २।१०६।५ ॥ ॥ २।१०६।६ ॥

अमरोपमसत्त्वस्त्वं महात्मा सत्यसङ्गरः।

सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि, राघव ॥ ६ ॥

सत्त्वंसत्त्वोद्रिक्रसर्वप्रकृतिः ॥ ६ ॥

अमरोपमेति पृथक्पदम्। सत्त्वःसत्त्वगुणसम्पन्नःगो।

॥ २।१०६।६ ॥ ॥ २।१०६।७ ॥

न त्वामेवंगुणैर्युक्तं प्रभवा १भवकोविदम्।

अविषह्यतमं दुःखं आसादयितुमर्हति २ ॥ ७ ॥

प्रभवाभवकोविदंसकलभूतप्रभवाप्ययप्रवृत्तिनिवृत्तिमार्गतत्त्वज्ञमित्यर्थः। आसादयितुंअवसादयितुम् ॥ ७ ॥

१भावच।

अविषह्यतममपि, अस्मदादीनामिति शेषःगो।

२एतदनन्तरंएवमुक्त्वा तु भरतः रामं पुनरथाब्रवीत्इत्यधिकम्ङ।

॥ २।१०६।७ ॥ ॥ २।१०६।८ ॥

प्रोषिते मयि यत्पापं मात्रा मत्कारणात् कृतम्।

क्षुद्रया तदनिष्टं मे प्रसीदतु भवान् मम ॥ ८ ॥

मत्कारणात्मत्प्रयोजननिमित्ततः। मे अनिष्टंअसम्मतमेव। अतो भवान् प्रसीदतुमम राज्यं परिगृह्णात्विति यावत् ॥

॥ २।१०६।८ ॥ ॥ २।१०६।९ ॥

धर्मबन्धेन वद्धोऽस्मि तेनेमां नेह मातरम्।

हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ ९ ॥

इहेमां मातरंइहापराधे कैकेयीमित्यर्थः ॥ ९ ॥

॥ २।१०६।९ ॥ ॥ २।१०६।१०,११ ॥

कथं दशरथाज्जातः १शुद्धाभिजनकर्मणः।

जानन् धर्म २मधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥ १० ॥

गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च।

तातं न परिगर्हेयं दैवतं चेति संसदि ॥ ११ ॥

मातृवत् पित्राऽप्यन्याय्यमेवाचरितमित्याहगुरुः क्रियावानित्यादि। क्रियावान्कर्तृश्रेष्ठ इति यावत्। राजा पितेति यत्, तत् तातं संसदि न परिगर्हेयम्। अपि चेदानीं प्रेतस्सन् दैवतं चश्राद्धदैवतं चवस्वादिस्वरूपत्वं च गत इति यत्, ततोऽपि न गर्हेयम् ॥ ११ ॥

१शुभाच।

२मधर्मं चच।

॥ २।१०६।१०,११ ॥ ॥ २।१०६।१२ ॥

को हि धर्मार्थयोर्हीनं ईदृशं कर्म किल्बिषम्।

स्त्रियाः प्रियं चिकीर्षुः सन् कुर्यात्, धर्मज्ञ धर्मवित् ॥

किं तर्हि वस्तुतोऽस्ति गर्ह्यत्वं? अस्त्येवेत्याहको हीत्यादि। को हि धर्मविदिति योजना ॥ १२ ॥

धर्मार्थयोर्हीनंधर्मार्थाभ्यां हीनं, कामप्रधानमिति यावत्गो।

॥ २।१०६।१२ ॥ ॥ २।१०६।१३ ॥

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः।

राज्ञैवं कुर्वता लोके १प्रत्यक्षं सा श्रुतिः कृता ॥ १३ ॥

प्रत्यक्षंप्रत्यक्षार्थम् ॥ १३ ॥

मुह्यन्तिमोहं प्राप्नुवन्तिविपरीतबुद्धिं प्राप्नुवन्तीति यावत्गो।

१प्रत्यक्षाच।

॥ २।१०६।१३ ॥ ॥ २।१०६।१४ ॥

साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात्।

तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ १४ ॥

साध्वर्थंज्येष्ठाभिषेकलक्षणम् ॥ १४ ॥

क्रोधात्विषमद्यैव पास्यामीत्युक्तकैकेयीक्रोधात्। तत्क्रोधभयादिति यावत्ति। मोहात्कैकेयीविषयमोहात्। साहसात्सहसाकरणात्अविमृश्यकारित्वादिति यावत्। तातस्य यदतिक्रान्तंयद्धर्मातिक्रमणं, तत् साध्वर्थमभिसन्धायसमीचीनार्थं स्मृत्वा भवान् प्रत्यहरतुनिवर्तयतुगो।

॥ २।१०६।१४ ॥ ॥ २।१०६।१५ ॥

पितुर्हि १यदतिक्रान्तं पुत्रो यः साधु मन्यते।

तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ १५ ॥

अतिक्रान्तंसाध्वर्थस्याननुष्ठानं, भावे निष्ठा, साधु मन्यतेसम्पादयति, तत् अपत्यंअपतनसाधकत्वात् अपत्यशब्दसम्मतमित्यर्थः ॥ १५ ॥

१समतिच।

साधुमन्यतेसाधुकर्तुं मन्यतेगो।

॥ २।१०६।१५ ॥ ॥ २।१०६।१६ ॥

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः।

१अति यत् तत्कृतं कर्म लोके २धीरविगर्हितम् ॥ १६ ॥

भवान् अपत्यमेवास्तुअन्वर्थापत्यशब्दवाच्य एवास्तु। अतो भवान् पितुः दुष्कृतंमा, अनुमन्यतामिति शेषः। एवञ्च पितृवचसः परिपाल्यत्वाविशेषात् पितुरभिषेकवचनमेव परिपालयेत्युक्तं भवति। तत्कृतंदशरथकृतं धीरैर्विगर्हितम् ॥ १६ ॥

माऽभिपत्ता(पा।)प्राप्तुं नार्हसिगो।

१अभिपत्ता कृतंङ।

२वीरङ।

॥ २।१०६।१६ ॥ ॥ २।१०६।१७,१८ ॥

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः।

पौरजानपदान् १सर्वान् २त्रातु सर्वमिदं भवान् ॥ १७ ॥

क्व चारण्यं क्व च क्षात्त्रं क्व जटाः क्व च पालनम्।

ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ १८ ॥

तथा तत्कृतवनवासस्य गर्हितत्वमेव स्पष्टयतिक्वचेत्यादिना ॥ १८ ॥

१एतान्ङ।

त्रातुं इदं सर्वंमदुक्तं भवाननुमन्यतामिति भावःति।

२त्रातुंच।

॥ २।१०६।१७,१८ ॥ ॥ २।१०६।१९ ॥

एष हि प्रथमो धर्मः क्षत्त्रियस्याभिषेचनम्।

येन शक्यं, महाप्राज्ञ प्रजानां परिपालनम् ॥ १९ ॥

ननु क्षत्त्रियस्याप्यस्ति वानप्रस्थाश्रमजटादिसम्बन्ध इत्याशङ्क्य, नायं प्रथमः कल्प इत्याहएष इत्यादि। येनअभिषेचनेन। परिपालनमिति। तद्रूपधर्मसम्पादनमित्यर्थः ॥ १९ ॥

अभिषेकस्य कथं धर्मत्वम्? इत्यत्राहयेनेति। प्रजापालनं हि क्षत्त्रियस्य प्रथमो धर्मः स च मूर्धाभिषिक्ताधिकारक इति भावः।

॥ २।१०६।१९ ॥ ॥ २।१०६।२० ॥

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम्।

आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ॥ २० ॥

ननु अस्ति वनाश्रमेणापि धर्मसम्पादनमित्यत्राहकश्चेत्यादि। प्रत्यक्षं सुखसाधनधर्मंप्रजापरिपालनं उत्सृज्य संशयस्थंप्रत्यक्षागम्यत्वात् को हि तद्वेद? यद्यमुष्मिन् लोकेऽस्ति वा न वा?ऽ इति श्रुत्याऽभिनीयमानसन्देहास्पदसुखसाधनम्, अलक्षणंअश्रीलक्षणंआयतिस्थं उत्तरः काल आयतिःऽ, उत्तरवयःप्राप्यं अनिश्चितंअनित्यानुष्ठानं न हि क्षत्त्रियस्य परिपालनवत् नित्यप्राप्तो वनवासः। नित्यत्वे तद्रहितदशरथादेरेव पतितत्वप्रसङ्गात्। एतादृशे धर्मकाले क्षत्त्रबन्धुःबन्धुच्प्रत्ययान्तः ब्रह्मक्षत्त्रादिशब्दो निन्दावाची। क्षत्त्राणां बन्धुरिति असमस्तपदं तु क्षत्त्रियकुलसम्मतत्वार्थवाची। कश्चरेत्अनुतिष्ठेत्, न कोऽपि ॥ २० ॥

१स्वधर्मे निधनं श्रेयः परधर्मो भयावहःऽ इति भावं हृदि निधायैवमुच्यते।

२संशयस्थंअप्रत्यक्षं, अङ्गलोपादिसम्भावनया संशयितफलसिद्धिकं, अलक्षणंलक्षणरहितं, क्रियाशक्तिरपूर्वं वेति दुर्निरूपंअनिश्चितंक्षत्त्रियेण प्रथममिदमनुष्ठेयमिति केनापि प्रमाणेनानिश्चितम् गो।

॥ २।१०६।२० ॥ ॥ २।१०६।२१ ॥

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि।

धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २१ ॥

ननु स्वशरीरप्रयाससाधह्य एव धर्मः अन्तरङ्गः, अतस्तदेवानुष्ठेयमिति पक्ष आहअथेत्यादि। अथ शब्दः पक्षान्तरे ॥ २१ ॥

राज्याभिषेकस्य भोगरूपत्वाभिमानवतः प्रत्याहअथेति।

॥ २।१०६।२१ ॥ ॥ २।१०६।२२ ॥

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्।

प्राहुः, धर्मज्ञ धर्मज्ञाः तं कथं त्यक्तुमर्हसि ॥ २२ ॥

ननु शरीरक्लेशजत्वमात्रमप्रयोजकम्। अपि तु श्रुतत्वाद्धर्मत्वं वनाश्रमस्येत्यत्राहचतुर्णामित्यादि। श्रेष्ठमाहुरिति। तेषां गृहस्थो योनिः, अप्रजनत्वादितरेषाम्ऽ इत्यादिभिःगौतमादयो धर्मशास्त्रप्रवक्तार इति शेषः।

यथावद्गार्हस्थ्यानुपपत्तौ वनाश्रमाद्यपेक्षा, न तु तदुपपत्तावितरापेक्षेत्याशयः ॥ २२ ॥

मिच्छसिच।

॥ २।१०६।२२ ॥ ॥ २।१०६।२३ ॥

श्रुतेन बालः १स्थानेन जन्मना २भवतो ह्यहम्।

स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २३ ॥

भवतोऽपेक्षयाऽहं श्रुतेन बालःअवरः। तथा जन्मना सम्पादितेन स्थानेनप्रथमस्थानेन च ॥ २३ ॥

स्थानेनपदेन, प्राप्तिक्रमेणेति यावत्गो। अत्र हेतुः जन्मनाऽ इति भावः।

१ज्ञानेनङ।

२भवतोऽप्यहम्ङ।

॥ २।१०६।२३ ॥ ॥ २।१०६।२४ ॥

हीनबुद्धिगुणो बालः हीनः स्थानेन चाप्यहम्।

भवता च विनाभूतः न वर्तयितुमुत्सहे ॥ २४ ॥

हीनः स्थानेन चापीति। उपलक्षित इति शेषः। वर्तयितुंजीवितुं, वृत्तिर्वर्तनजीवनेऽ ॥ २४ ॥

हीनबुद्धिगुणःसद्गुणबुद्धिरहितःगो। बुद्धया गुणादिभिश्च न्यून इति वा।

॥ २।१०६।२४ ॥ ॥ २।१०६।२५२७ ॥

इदं निखिल १मव्यग्रं राज्यं पित्र्यमकण्टकम्।

अनुशाधि स्वधर्मेण, धर्मज्ञ सह बान्धवैः ॥ २५ ॥

इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह।

ऋत्विजः स्वसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ २६ ॥

अभिषिक्तस्त्वमस्माभिः अयोध्यां पालने व्रज।

विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ २७ ॥

पालनेराज्यपालननिमित्तम्। तरसाबलेन। लोकान् मरुद्भिरिव अस्माभिस्सहेति योजना ॥ २७ ॥

१मप्यग्र्यंच।

सहसम्भूयगो।

विजित्य, स्थित इति शेषःगो।

॥ २।१०६।२५२७ ॥ ॥ २।१०६।२८ ॥

ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन्।

सुहृदस्तर्पयन् कामैः त्वमेवात्रानुशाधि माम् ॥ २८ ॥

ऋणानि त्रीण्यपाकुर्वन्निति। ननु जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायतेऽ (ते। सं, ६३११) इति श्रुतौ सत्यां कथं क्षत्त्रियस्य ऋणसम्बन्धः? ब्राह्मणेन यैः स्वश्रुतर्णत्रयमपाकरणीयं तेषां ब्रह्मचर्यादीनां क्षत्त्रियस्य विधानात् गायत्रीसम्बन्ध इवानुकल्पस्त्रयार्णसम्बन्धः क्षत्त्रियस्यापि। अत्रेति। अयोध्यायां स्थित्वेति शेषः ॥ २८ ॥

॥ २।१०६।२८ ॥ ॥ २।१०६।२९ ॥

अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने।

अद्य भीताः पलायन्तां १दुष्प्रदास्ते दिशो दश ॥ २९ ॥

दुष्प्रदाःदुःखप्रदाः ॥ २९ ॥

१दुर्हृद, अरयङ।

॥ २।१०६।२९ ॥ ॥ २।१०६।३० ॥

आक्रोशं मम मातुश्च प्रमृज्य, पुरुषर्षभ

अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ ३० ॥

आक्रोशंनिन्दाम्। तत्रभवन्तंपूज्यम् ॥ ३० ॥

आक्रोशंशापं, शाप आक्रोश आक्षेपःऽ इति हलायुधः, जनकर्तृकमिति शेषःगो।

॥ २।१०६।३० ॥ ॥ २।१०६।३१ ॥

शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि।

बान्धवेषु च सर्वेषु, भूतेष्विव महेश्वरः ॥ ३१ ॥

त्वात्वाम् ॥ ३१ ॥

महेश्वरःविष्णुःगो। भूतेशत्वात्, पशुपतित्वाच्चशिवो वा।

॥ २।१०६।३१ ॥ ॥ २।१०६।३२ ॥

१अथवा पृष्ठतः कृत्वा वनमेव भवानितः ।

गमिष्यति, गमिष्यामि भवता सार्धमप्यहम् ॥ ३२ ॥

पृष्ठतः कृत्वा–तिरस्कृत्येति यावत्, मत्प्रार्थनामिति शेषः। इतोऽपि वनमेवेति। जनसम्बाधमीत्या अस्माद्वनादपि वनान्तरमित्यर्थः ॥ ३२ ॥

१अथैतत्ङ। झ।

इतःराज्यात् इति वा।

॥ २।१०६।३२ ॥ ॥ २।१०६।३३ ॥

तथा हि रामो भरतेन ताम्यता

प्रसाद्यमानः शिरसा महीपतिः।

न चैव चक्रे गमनाय सत्त्ववान्

मतिं पितुस्तद्वचने १व्यवस्थितः ॥ ३३ ॥

ताम्यताग्लायता ॥ ३३ ॥

गमनाय मतिं इत्यन्वयः।

१प्रतिष्ठितःङ।

॥ २।१०६।३३ ॥ ॥ २।१०६।३४ ॥

तदद्भुतं स्थैर्यमवेक्ष्य राघवे

समं जनो हर्षमवाप दुःखितः।

न यात्ययोध्यामिति दुःखितोऽभवत्

स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ३४ ॥

तत् स्थैर्यंपितृवचनस्थितिस्थैर्यम्। दुःखहर्षयोर्युगपत्प्रवृत्तिनिमित्तं स्वयमेव कविर्व्याकरोतिन यातीत्यादि ॥ ३४ ॥

दुःखितः जनः समंयुगपत् हर्षमवाप।

॥ २।१०६।३४ ॥ ॥ २।१०६।३५ ॥

तमृत्विजो नैगमयूथवल्लभाः

तदा विसंज्ञाश्रुकलाश्च मातरः।

तथा ब्रुवाणं भरतं प्रतुष्टुवुः

प्रणम्य रामं च ययाचिरे सह ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षडुत्तरशततमः सर्गः

निगमेपुरे भवाः नैगमाःपौराः, निगमो निश्चये वेदे पुरे पथि वणिक्पथेऽ वैजयन्ती, नैगमयूथानां वल्लभास्तथा। विसंज्ञाःविचित्ताः, अश्रुकलाःअश्रुप्रचुराश्च तथा। मृग(३५)मानः सर्गः ॥ ३५ ॥

तं भरतमित्यन्वयः।

सहभरतेन सह ययाचिरे।

॥ २।१०६।३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षडुत्तरशततमः सर्गः