पञ्चोत्तरशततमः सर्गः
[रामभरतसंवादः] ॥ २।१०५।१ ॥
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः।
शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥ १ ॥
एवं मन्त्रिपुरोहितादिसकलराजकर्तृसमागमे किं वदिष्यतीति जने चोत्सुके सति स्वमात्रा प्रापितं राज्यं रामाय समर्प्य तत्त्वतः प्रत्यावृत्तिं प्रार्थयानमपि भरतं रामः पितृवियोगशोकादेवमयं ब्रूत इति मन्वानः शोकापनोदपूर्वं उभयो पितृवचने स्थितिमेव स्थापयति। ततः पुरुषेत्यादि। एवञ्च प्रस्पष्टायां पूर्वापरसर्गसङ्गत्यां अपरः तं तु रामः समाज्ञायऽ इति सर्गमिह प्रक्षिप्य व्याकरोत्। तदनुचितमिति प्रागेवोक्तम्। सुहृद्गणैः वृतानामिति। पूर्वसर्गान्तोक्तरीत्या शोचतांपितृमरणदुःखेन ॥ १ ॥
एतत्पूर्वं तं तु रामः समाज्ञायऽ इत्यादिस्व पठनीय इति गोविन्दराजः। यद्यपि गोविन्दराजदृशा एतत्पूर्वसर्गे रामभरतसंवादस्योपक्रान्तत्वात् वदतामेव रजनीऽ इति वक्तव्ये शोचतामेव रजनीऽ इत्युक्तिरस्वरसेवतथाऽपि कतकदृष्ट्याऽपि पूर्वसर्गान्ते शोकावर्णनात्, प्रत्युत किमेष वाक्यं भरतोऽद्य वक्ष्यतिऽ इत्येव कथनात् अस्वरसाधिक्यमेव। सान्त्विता मामिका माताऽ (४) इत्यादिकमपि गोविन्दराजपक्ष एव स्वरसम्। अधिकं ३५७ पुटे द्रष्टव्यम्। ४श्लोकटिप्पण्यपि द्रष्टव्या।
॥ २।१०५।१ ॥ ॥ २।१०५।२ ॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः।
मन्दाकिन्यां हुतं जप्यं कृत्वा १द्वारमुपागमन् ॥ २ ॥
मन्दाकिन्यांतत्तीरे। हुतंप्रातरौपासनहोमम्। जप्यंगायत्रीजपम्। द्वारंउटजद्वारम् ॥ २ ॥
द्वारंऽ इति पाठः, उटजद्वारमित्यर्थं इति केचित्तन्नउत्तरसर्गे मन्दाकिनीतीरे राममुवाचेत्युक्तेःति।
१रामसर्वत्र।
॥ २।१०५।२ ॥ ॥ २।१०५।३,४ ॥
तूष्णीं ते समुपासीनाः न कश्चित् किञ्चिदब्रवीत्।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ ३ ॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ ४ ॥
सान्त्वितेत्यादि। मामिकेति। केवलमामकऽ इति ङीपश्छन्दोविषयत्वात् तथात्वस्येहानाश्रयात् टापि मामकनरकयोरुपसङ्ख्यानम्ऽ इति कात्पूर्वस्य इत्मामिका माता प्रथमं राज्ञा राज्यदानेन सान्त्विता सञ्जातसान्त्वा, अनन्तरं मम तया इदं राज्यं दत्तम्। एवं तद्दत्तमिदंतदिदं अहं तवैव ददामि। अतः अकण्टकंउक्तप्रकारेण पितृवचनस्यापि परिपालितत्वात् प्रत्यूहरहितं इदं राज्यं भुङ्क्ष्व ॥ ४ ॥
दत्तमन्यथयितुं न शक्तोऽहमिति रामो वदेदिति मत्वा तस्य परिहारानुगुणं वचनमाहसान्त्वितेतिगो। वस्तुतस्तु गोविन्दराजरीत्या पूर्वसर्गे मातापितृभ्यामुक्तोऽहं (२२) इत्यादिरामदार्ढ्यपरिज्ञानात्तदनुगुणोत्तरदानाशक्तेरेवऽ शोचतामेव रजनीऽ इति शोकदर्शनात्, अपरेऽह्नि तदनुगुणात्तरदानमत्र।
॥ २।१०५।३,४ ॥ ॥ २।१०५।५ ॥
महतेवाम्बुवेगेन १भिन्नः सेतुर्जलागमे।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ ५ ॥
जलागमेवर्षाकाले। दुरावारंआवरीतुमशक्यं, वृञः खल्, अशक्यरक्षणमित्यर्थः। राज्यस्य खण्डःभागः तथा। अत्र खण्डशब्देनाल्पत्वप्रतीतिव्यावृत्त्यै उक्तंमहदिति। महानस्मदीयो देश इत्यर्थः ॥ ५ ॥
जलागमे महताऽम्बुवेगेन भिन्नः सेतुः पुनः जलं यथा न वारयेत्तथेत्यर्थः।
१भिन्नसेतुःङ।
॥ २।१०५।५ ॥ ॥ २।१०५।६ ॥
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्त्रिणः।
अनुगन्तुं न शक्तिर्मे गतिं तव, महीपते ॥ ६ ॥
ननु त्वयैव महावीरेण सुरक्षमेवेत्यत आहगतिमित्यादि। तव गतिंत्वदीयं राज्यपालनसामर्थ्यं अनुगन्तुं मे शक्तिर्नास्ति ॥ ६ ॥
खरेत्यविभक्तिकनिर्देशः, खरस्येत्यर्थः, प्रकृतिभाव आर्षः। पतत्त्रिणःपक्षिमात्रस्य। अश्वस्य गतिमनुगन्तुं खरस्य यथा न शक्तिः, गरुडस्य गतिमनुगन्तुं केवलपक्षिणो यथा च शक्तिर्नास्ति, तथेत्यर्थःगो। अश्वगतिमनुगन्तुं खरो यथा न शक्तः, तार्क्ष्यगत्यनुगमने यथेतरपक्षिणो न शक्ताः तथा तव गतिंत्वदीयां राज्यपरिपालनशक्तिमनुगन्तुं न मे शक्तिः, इवशब्दः यथाऽर्थेति।
॥ २।१०५।६ ॥ ॥ २।१०५।७ ॥
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते।
राम १तस्य तु दुर्जीवं यः परानुपजीवति ॥ ७ ॥
अत्रैव हेतुमाहसुजीवमित्यादि। सुखेन जीवितुं शक्यं सुजीवम्। यः परैर्नित्यश उपजीव्यते तस्यतेनेत्यर्थः न लोकऽ इति निषेधेऽपि कर्तरि षष्ठ्यार्षी। सुजीवं, अनपेक्षत्वात्। हे राम यः परानुपजीवति तेन दुर्जीवं जीवितुमशक्यम् ॥ ७ ॥
तव स्वतः शक्तिर्नास्ति चेत् शक्तपुरुषोपसर्पणादिना राज्यं कुरुइति चेत्तत्राहसुजीवमित्यादि। स्वयं शक्तस्य सुकरत्वाय मन्त्र्याद्यपेक्षणं किल युक्तं, अशक्तस्य नित्यपरोपजीवनं तु हेयमेवेति भावः।
१तेनङ।
॥ २।१०५।७ ॥ ॥ २।१०५।८१० ॥
१यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः।
ह्रस्वकेन दुरारोहः रुढस्कन्धो महाद्रुमः ॥ ८ ॥
२स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्।
स तां नानुभवेत् प्रीतिं यस्य हेतोः ३प्ररोपितः ॥ ९ ॥
एषोपमा, महाबाहो ४तमर्थं वेत्तुमर्हसि।
यदि त्वमस्मान् वृषभः भर्ता भृत्यान् न शाधि हि ॥ १० ॥
अस्त्वेवं लोकस्थितिः प्रकृते किमायातम्? इत्यत्र स्वेषामुपजीवित्वं सदृष्टान्तमन्यापदेशतो दर्शयतियथा त्वित्यादि। यथैव वृक्षः फलार्थिना पुरुषेण आरोपितःकृतवीजावापः अनन्तरं शनैः वर्धितः, अत एव ह्रस्वकेणखर्वेण दुरारोहः, तदनन्तरं रूढस्कन्धः स महाद्रुमः यथा पुष्पितोऽपि भूत्वा यदा फलानि न विदर्शयेत्, तदा सःतदारोपकः यस्य फलस्य हेतोः तद्द्रुमं प्रभावितःउत्पादितवान्, स तां प्रीतिंस्वाभिमतफलप्राप्तिजां प्रीतिंयथा नानुभवेत् हे महाबाहो वृषभःश्रेष्ठः अत एव भर्ता भृत्यान्त्वदपजीविनः न शाधिन शिक्षयसीत्येवंरूपे यत्र मया उपमा वक्तव्या तत्रैषोपमावृक्षोपमोक्ता। तस्य योऽर्थः तं वेत्तुं त्वमेवार्हसि। राज्ञा वृद्धेन स्वोपजीविसर्वजनोपजीविना महावृक्षवत् अफलं साधितेन त्वया त्वदुपजीविनामस्माकं उपजीवनासम्पादनेन निष्प्रयोजनो राज्ञः त्वदुत्पादनरूपोऽर्थः। एवञ्च प्रकृते उपजीवित्वात् उपजीव्यसत्पदवी मनसाऽपि न मया शक्यकक्षीकारेति फलितम् ॥ ८१० ॥
लोकरक्षणार्थं दशरथेनोत्पाद्य वर्धितः सकलसद्गुणसम्पन्नस्त्वं यदि लोकरक्षणं न कुर्याः, तदा तस्य लोकस्य दशरथस्य त्वया न प्रयोजनमिति उपदेशमुखेन फलादर्शनवृक्षौपम्यमाहयथा त्वित्यादिश्लोकत्रयेणती। रोपयितुः दशरथ उपमेयः वर्धितमहावृक्षस्य भवान्, पुष्पदर्शनस्याभिषेचनौन्मुख्यं, फलाननुभवस्य भवतो राज्यपरिपालनम्गो।
१यथा त्वारोपितःङ।
२स यथाङ।
३प्रभावितःङ।
४तदर्थंङ।
॥ २।१०५।८१० ॥ ॥ २।१०५।११ ॥
श्रेणयस्त्वां, महाराज पश्यन्त्यग्र्याश्च सर्वशः।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ ११ ॥
नानाजातीयाः सङ्घाःश्रेणयः ॥ ११ ॥
राज्ये स्थितं पश्यन्त्वित्यन्वयः।
॥ २।१०५।११ ॥ ॥ २।१०५।१२,१३ ॥
तवानुयाने, काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः।
अन्तःपुर १गता नार्यः नन्दन्तु सुसमाहिताः ॥ १२ ॥
तस्य २साध्वित्यमन्यन्त नागरा विविधा जनाः।
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ १३ ॥
तस्य साध्विति। वचः श्रुत्वा तस्य साध्वित्यमन्यन्तेति योजना ॥ १३ ॥
१चराङ।
तस्य भरतस्य वचः श्रुत्वेत्यन्वयः।
२साध्वनुमन्यन्तङ।
॥ २।१०५।१२,१३ ॥ ॥ २।१०५।१४ ॥
तमेवं दुःखितं १प्रेक्ष्य विलपन्तं यशस्विनम्।
रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥ १४ ॥
तमेवमित्यादि। एवं विलपन्तं तं दुःखितं प्रेक्ष्यदुःखवशादेवं वक्तीत्यालक्ष्य तावद्दुःखादाश्वासयत् ॥ १४ ॥
१वीक्ष्यङ।
कृतात्मासुशिक्षितबुद्धिः, धैर्यवान् वागो। कृतः आत्मावनगमनाय प्रयत्नः येन स रामःरा।
॥ २।१०५।१४ ॥ ॥ २।१०५।१५ ॥
नात्मनः १कामकारो हि पुरुषोऽयमनीश्वरः।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ १५ ॥
तस्यैव प्रकारःनात्मन इत्यादि। आत्मनःप्रत्यगात्मनः कामकारःस्वेच्छया स्वोपग्रहसृष्टिधृतिसंहृतिप्रवर्तनसामर्थ्यं नास्ति। हियस्मात् अयं पुरुषः अनीश्वरःईश्वरवत् स्वोपाधिकसृज्यादिस्वतन्त्रशक्तिरहितः, तस्मात् एनं इतश्चअस्मद्देहलोकाच्च इतरतश्चपरस्माद्देहलोकाच्च कर्मानुरूपं कृतान्तः कालः कर्षति ॥
आत्मनःचेतनस्य जीवस्य कामकारःस्वेच्छाचरणं नास्ति। यतोऽयमनीश्वरःपरतन्त्रः। कृतान्तः दैवं दैवे कृतान्तः৷৷৷৷ऽ इति वैजयन्ती, एनं इतस्ततः स्वेच्छया परितः कर्षति। तस्य सम्पूर्णस्वातन्त्र्याभिप्रायेण इतश्चेतरतश्चऽ इत्युक्तिः।
१कामकारोऽस्तिङ।
॥ २।१०५।१५ ॥ ॥ २।१०५।१६ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ताः मरणान्तं च जीवितम् ॥ १६ ॥
न केवलं पुरुषस्य कालवशादनित्यत्वं, अपि तु सर्वस्यापीत्याहसर्व इत्यादि। क्षयान्ताःनाशपर्यवसानाः। निचयाःसङ्ग्रहाः। समुच्छ्रयाःविद्यैश्वर्यादिकृतमौन्नत्यम्। मरणान्तं च जीवितमिति। सर्वत्र कालवशादिति शेषः। अतः कालगतिं गतो राजा न शोचनीय इत्यनुकर्षः ॥ १६ ॥
निचयाःधनसञ्चयाः सर्वे क्षयान्ताःक्षयपर्यवसायिनःचोरेण कामेन राज्ञा वा नश्यन्तीत्यर्थः৷৷৷৷।अस्मिन् श्लोके पादत्रयोक्तार्थत्रयं दृष्टान्तार्थं, तुरीयपादश्च दार्ष्टान्तिकंगो।
॥ २।१०५।१६ ॥ ॥ २।१०५।१७ ॥
यथा फलानां पक्वानां नान्यत्र पतनात् भयम्।
एवं नरस्य जातस्य नान्यत्र मरणात् भयम् ॥ १७ ॥
पतनादन्यत्र न भयमिति। पतनस्यैवाशक्यपरिहारत्वात् भयम्। एवं जातस्य तत एव हेतोः अशक्यपरिहारं मरणभयमित्यर्थः ॥
प्रथमश्लोके वनगमनं न मया स्वतन्त्रेण कृतं, अपि त्वीश्वरकृतमित्युक्तम्। द्वितीयश्लोके दशरथमरणं च कालकृतं, अतः तत्रापि न शोचनीयमित्युक्तम्। अथ द्वितीयश्लोकोक्तं सदृष्टान्तं प्रपञ्चयतियथेत्यादिनागो। यथा पक्वानां फलानांतालादिजन्यानां पतनादन्यत्रअन्यस्मिन् काले भयंकाकादिपक्षिभक्षणभीतिर्नास्ति, तथा जातस्य नरस्य मरणात्मर्त्यलोकादन्यत्र भयं नास्ति। एतेन मर्त्यलोकादन्यत्र नयते यत्नः कर्तव्य इति सूचितम्रा।
॥ २।१०५।१७ ॥ ॥ २।१०५।१८ ॥
यथाऽगारं दृढस्थूणं जीर्णं १भूत्वाऽवसीदति।
२तथैव सीदन्ति नराः जरामृत्युवशं गताः ॥ १८ ॥
कालवशात् क्षये दृष्टान्तान्तरंयथाऽगारमित्यादि ॥ १८ ॥
१भूत्वोपसीदतिच।
२तथाऽवसीदन्तिच।
॥ २।१०५।१८ ॥ ॥ २।१०५।१९ ॥
१अतीता रजनी या तु सा न प्रतिनिवर्तते।
यात्येव यमुना २पूर्णा ३समुद्रमुदकार्णवम् ॥ १९ ॥
अतीता रजनी न प्रतिनिवर्तत इत्यत्र यमुनादृष्टान्तः। यात्येवेति। न प्रतिनिवर्तत इत्यर्थः। उदकार्णवमित्यनेन पयोदध्यादिसमुद्रव्यावृत्तिः ॥ १९ ॥
१अत्येतिङ।
२पूर्णंच।
समुद्रस्योदकाकुलत्वविशेषणं यमुनायाः सर्वथाऽनिवर्त्यत्वायगो
३समुद्रमुदकाकुलम्, समुद्रं लवणार्णवम्ङ।
॥ २।१०५।१९ ॥ ॥ २।१०५।२० ॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जल १मिवाशये ॥ २० ॥
गच्छन्तिऽ इति शत्रन्तम्। आशयेजलाशये ॥ २० ॥
जलमिवांशवः(पा।)अंशवः, सूर्यस्येति शेषःगो।
१मिवांशवःङ। च।
॥ २।१०५।२० ॥ ॥ २।१०५।२१ ॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि।
१आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २१ ॥
यदेवं कालवर्गो दुर्वारः, अतः आत्मानंत्वामेव प्रति त्वमनुशोच मृत्युर्दुर्वार आयाति, का मे गतिरिहामुत्र?ऽ इति चिन्तय। अन्यंराजानम्। स्वस्यैव शोचनीयत्वमस्तीत्याहआयुस्त्वित्यादि। यस्येति। यस्य कस्यापीत्यर्थः ॥ २१ ॥
१आयुस्तुच।
स्थितस्य गतस्य च यस्य ते इति वाऽन्वयः।
॥ २।१०५।२१ ॥ ॥ २।१०५।२२ ॥
सहैव मृत्युर्व्रजति सह मृत्युर्निपीदति।
गत्वा १सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ २२ ॥
सह व्रजति, सह निषीदति, सह मृत्युर्निवर्तत इति। न तु दूरे देशे मृत्युं स्थापयित्वा स्वेनागन्तुं शक्यमित्यर्थः ॥ २२ ॥
अन्तर्यामिण एव मृत्युरूपत्वात् अपरिहार्यः स इति भावःति।
एवं मृत्योरविनाभावात् सुदूरगमनेऽपि मृत्युर्नं निवर्तत इत्याशयः।
१सुदूरङ।
॥ २।१०५।२२ ॥ ॥ २।१०५।२३ ॥
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २३ ॥
वलयः जराकृताः। किं हि कृत्वाकिं बलं प्राप्य प्रभावयेत्प्रभुत्वं भावयेत् ॥ २३ ॥
किं हि कृत्वापूर्वोक्तोपद्रवपरिहारत्वेन कमुपायं कृत्वा आत्मानं प्रभुं कुर्यात् इत्यर्थःगो। केन वोपायेन जरादिकं वारयेत्, न केनापीति भावः।
॥ २।१०५।२३ ॥ ॥ २।१०५।२४,२५ ॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते १रवौ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २४ ॥
२हृष्यन्त्यात्ममुखं दृष्ट्वा नवं नवमिहागतम्।
ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः ॥ २५ ॥
नवं नवमिवप्रागप्राप्तमिव आत्ममुखंस्वस्वाभिमुखागतं ऋतूनां परिवर्तनं दृष्ट्वा मोहात् हृष्यति, नेदं युक्तमित्याहऋतूनामित्यादि। परिवर्तःपुनःपरिवृत्तिः ॥ २५ ॥
आदित्ये उदिते नन्दन्तिअर्थार्जनकालोऽयमागत इति। रवौ अस्तमितेऽपि नन्दन्तिकामोपभोगकालोऽयमागत इतिगो। अथवा अजामित्वादिना कथं क्षपयितव्यं अहःऽ कथं वेयं रजनी क्षपयितव्याऽ इत्यादिभावनया सूर्योदयं सूर्यास्तमयं च जनाः सानन्दं प्रतीक्षन्ते, जीवितक्षयं तु न जानत्यपि, अहो इति तात्पर्यकं वचनमिदम्।
१ऽहनिच।
हृष्यन्त्यृतुमुखं(पा।) ऋतुमुखंऋत्वागमंगो।
२हृष्यन्त्यृतुमुखंङ।च।
॥ २।१०५।२४,२५ ॥ ॥ २।१०५।२६,२७ ॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २६ ॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च १धनानि च।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ २७ ॥
काष्ठं च काष्ठं चेति। पोतद्वयमित्यर्थः। कञ्चन कालंवायुम्। विनाभवःविप्रयोग इति यावत् ॥ २७ ॥
१वसूनि चच।
काष्ठंदारुखण्डो वा। अवशपतितं दारुखण्डद्वयं कदाचित् समेति, कदाचित् विभजते च, तथैव भार्यांपुत्रादिसमागमवियोगाविति भावः।
॥ २।१०५।२६,२७ ॥ ॥ २।१०५।२८ ॥
नात्र कश्चिद्यथाभावं प्राणी १समतिवर्तते।
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २८ ॥
नात्रेत्यादि। अत्रसंसारे कश्चिदपि संसारिप्राणी यथाभावंयथाप्राप्तिस्वभावंजनिमृतिमृतिजनिलक्षणं नातिवर्ततेन लङ्घयति, तेनहेतुना, प्रेतस्यानुशोचतः इति षष्ठ्यार्षी, प्रेतमनुशोचतश्चापि तस्मिन् स्वकप्रेतभावनिवर्तने सामर्थ्यं नास्त्येव ॥ २८ ॥
अत्रअस्मिन् लोके कश्चिदपि प्राणी यथाभावं न समभिवर्ततेयथाभिलाषं बन्धुभिस्सह न वर्तते। तेनकारणेन प्रेतस्यमृतस्य हेतोः अनुशोचतः पुरुषस्य तस्मिन्मरणनिवारणे सामर्थ्यं नास्ति। यद्वा अस्मिन् लोके कश्चिदपि जन्तुः यथाभावंयथाभिलाषंअप्रतिहतसङ्कल्पतयेत्यर्थः, न समभिवर्तते৷৷৷৷ तेन एवमप्रतिहतसङ्कल्पत्वाभावेन प्रेतस्यमृतस्य हेतोःगो। अत्रसंसारे कश्चिदपि प्राणी यथाभावंयथाप्राप्तं स्वभावं मृतिजनिलक्षणं न समतिवर्ततेन लङ्घयति। तेन हेतुना प्रेतस्य, सम्बन्धसामान्ये षष्ठी, प्रेतमनुशोचतोऽस्य तस्मिन्स्वीयप्रेतभावनिवर्तने सामर्थ्यं नास्तिति।
१समभिवर्ततेङ।
॥ २।१०५।२८ ॥ ॥ २।१०५।२९,३० ॥
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २९ ॥
एवं पूर्वैर्गतो मार्गः १पितृपैतामहो ध्रुवः।
तमापन्नः कथं शोचेत् यस्य नास्ति व्यतिक्रमः ॥ ३० ॥
पूर्वगतिसमानगतित्वे दृष्टान्तःयथा हीत्यादि। सार्थःवणिक्समूहः। गच्छन्तमिति। पुरतो गच्छन्तमित्यर्थः। उक्ताया लोकस्थितेः प्रकृतोपयोगदर्शनंएवमित्यादि। पितृपैतामहैः, वृद्धिः छान्दसी, पितृपितामहैरित्यर्थः। ध्रुवःअवश्यम्भावी। तं अवश्यप्राप्यं मार्गं, यस्ययन्मार्गगमनस्य व्यतिक्रमःलङ्घनं कस्यापि नास्ति, स्वयमपि तन्मार्गमापन्नःकथं पूर्वं गतं प्रति शोचेत्? अतः पितृशोको निष्प्रयोजनः ॥ २९३० ॥
सार्थंपथिकसमूहंगो।
१पितृपैतामहैःङ। पैतृपितामहैःच।
॥ २।१०५।२९,३० ॥ ॥ २।१०५।३१ ॥
वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥
अनुष्ठेयं त्वेतावदित्याहवयस इत्यादि। स्रोतसो वागङ्गादिप्रवाहस्येव अनिवर्तिनःप्रत्यावृत्तिरहितस्य पतमानस्यगच्छतः वयसः मध्ये आत्मा सुखेतत्साधने च नियोक्तव्यः। अतः सुखभाजः सुखतत्साधनाप्तिनिमित्तजन्मभाजः स्मृताः ॥ ३१ ॥
सप्तम्यर्थे षष्ठी। वाशब्द इवार्थः। अनिवर्तिनि स्रोतसीव वयसि पतमानेअनिवर्तितया गच्छति सति आत्मा सुखेसुखहेतौ धर्मे नियोक्तव्यः, परलोकचिन्तयेति शेषः। यतः प्रजाः सुखभाजःधर्मसाध्यसुखासक्ताः स्मृताःगो। पतमानस्यगच्छतः वयसः, नाशं दृष्ट्वेति शेषःति। वयस इति अनादरे वा षष्ठी। सांसारिकं परिणामं अलक्षीकृत्य उत्तरभाविनिरतिशयसुखरूपपरमपुरुषार्थे आत्मा नियोक्तव्यःयथा मुक्तः स्यात् तथा प्रयतितव्यम्। यतः प्रजानां जनिरेव तदर्था इति वा अर्थः।
॥ २।१०५।३१ ॥ ॥ २।१०५।३२ ॥
धर्मात्मा स शुभैः१ कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः।
२[धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः।
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ॥
अर्थाऽऽदानाच्च धर्मेण पिता नः त्रिदिवं गतः।
कर्मभिस्तु शूभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ॥
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः।
इष्ट्वा बहुविधैर्यज्ञैः भोगांश्चावाप्य पुष्कलान् ॥
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः।
आयुरुत्तममासाद्य भोगानपि च राघवः ॥ ]
स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ ३२ ॥
यदेवं, अतःधर्मात्मेत्यादि। सतां सत्कृतःसद्भिः पूज्यमान इति यावत् ॥ ३२ ॥
धर्मात्मा स्वर्गतः स नः पिता न शोच्य इत्यन्वयः।
१सर्वैः, कृत्यैःङ
२कुण्डलीकृतः पाठः गोविन्दराजसम्मतः।
॥ २।१०५।३२ ॥ ॥ २।१०५।३३ ॥
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः।
१दैवीमृद्धिमनुप्राप्तः ब्रह्मलोकविहारिणीम् ॥ ३३ ॥
ब्रह्मलोकविहारिणींब्रह्मलोकविहारार्हां दैवीं ऋद्धिंभूमानन्दपदविद्यैश्वर्यपरिकरमित्यर्थः ॥ ३३ ॥
दैवीमृद्धिंदेवसम्बन्धिसम्पदं दिव्यदेहादिलाभरूपांगो।
१दैवीं सिद्धिं, देवीं वृत्तिंङ।
॥ २।१०५।३३ ॥ ॥ २।१०५।३४ ॥
तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति।
१तद्धिधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥ ३४ ॥
श्रुतवान्अधीतवेदवेदान्तलक्षणविद्यावान् ॥ ३४ ॥
श्रुतवान् बुद्धिमत्तरश्च यद्विधोऽसि तद्विध इत्यर्थःगो।
१त्वद्विधो मद्विधच।
॥ २।१०५।३४ ॥ ॥ २।१०५।३५ ॥
एते बहुविधाः शोकाः विलापरुदिते तथा।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ३५ ॥
शोकः मानसः। तत्कार्ये विलापरुदेति वाक्कायस्थे ॥ ३५ ॥
विलापरुदितेप्रलापाश्रुमोचनेगो।
॥ २।१०५।३५ ॥ ॥ २।१०५।३६ ॥
१स स्वस्थो भव मा २शोकः यात्वा चावस तां पुरीम्।
तथा पित्रा नियुक्तोऽसि वशिना, ३वदतां वर ॥ ३६ ॥
स स्वस्थ इति। एवं शोचन्नित्यर्थः। मा शोकःशोको मा स्तु। तां पुरीं यात्वागत्वास्वस्थः त्वं वस। कथमेवं नियोग इत्यतःतथेत्यादि। वशिनासत्यवशगेन ॥ ३६ ॥
मद्विवासनं त्वयाऽपि मान्यमित्याहस स्वस्थ इत्यादिनागो।
१तत्ङ।
२शोचीःङ।
३ददतांङ।
॥ २।१०५।३६ ॥ ॥ २।१०५।३७ ॥
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा।
तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥ ३७ ॥
यत्रयस्मिन् कृत्ये। तत्रैवाहमिति। तत्रैव प्रवृत्तः तत् करिष्यामि ॥ ३७ ॥
यत्रवनरूपे स्थानेगो।
॥ २।१०५।३७ ॥ ॥ २।१०५।३८,३९ ॥
न मया शासनं तस्य त्यक्तुं न्याय्यं, अरिन्दम
१तत् त्वयाऽपि सदा २मान्यं स वै बन्धुः स नः पिता ॥
तद्वचः पितुरेवाहं सम्मतं धर्म३ चारिणः।
कर्मणा पालयिष्यामि वनवासेन, राघव ॥ ३९ ॥
पितुर्वच एवाहं कर्मणातदुचितव्यापारेण ॥ ३९ ॥
१सच
२मान्यःच।
३चारिणाम्च।
॥ २।१०५।३८,३९ ॥ ॥ २।१०५।४० ॥
धार्मिकेणानृशंसेन नृपेण १गुरुवर्तिना।
भवितव्यं, नरव्याघ्र परलोकं जिगीषता ॥ ४० ॥
नृपेणक्षत्त्रियेण परलोकं जिगीषताधार्मिकत्वादिस्वभाववता भवितव्यम् ॥ ४० ॥
१गुणवर्तिनाङ।
॥ २।१०५।४० ॥ ॥ २।१०५।४१ ॥
आत्मानमनुतिष्ठ त्वं स्वभावेन, नरर्षभ
निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ ४१ ॥
आत्मानमित्यादि। नः पितुः वृत्तं शुभं निशाम्यपर्यालोच्य, पिता नः परमां गतिं गत इति च पर्यालोच्य, त्वं स्वभावेनप्रागुक्तधार्मिकत्वादिलक्षणनृपस्वभावेन उपलक्षितः सन् तव आत्मानं अनुतिष्ठअनुचिन्तयत्वदात्मनः परलोकहितं चिन्तयेत्यर्थः ॥ ४१ ॥
स्वभावेनात्मानं अनुतिष्ठराजभावेन भवन्तं योजयगो। आत्मानंआत्मनः परलोकहितं अनुतिष्ठ चिन्तयति।
॥ २।१०५।४१ ॥ ॥ २।१०५।४२ ॥
इत्येवमुक्त्वा वचनं महात्मा
पितुर्निदेशप्रतिपालनार्थम्।
यवीयसं भ्रातरमर्थवच्च
प्रभुर्मुहूर्ताद्विरराम रामः ॥ ४२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः
रवि(४२)मानः सर्गः ॥ ४२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः।
॥ २।१०५।४२ ॥