चतुरुत्तरशततमः सर्गः
[कौसल्यादिदर्शनम्] ॥ २।१०४।१ ॥
वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च।
अभिचक्राम तं देशं रामदर्शन १तर्षितः ॥ १ ॥
अथ भरतेन रामाश्रमगमनसमये मातृगणानयनप्रहितवसिष्ठेन तासामानयनम्। वसिष्ठ इत्यादि। दारान् पुरतः कृत्वा ॥ १ ॥
पूर्वं ऋषिं वसिष्ठं संदिश्य मातृ़र्मे शीघ्रमानय। इति त्वरितमग्रे स जगामऽ (९९२) इत्युक्तं स्मर्तव्यमत्र।
१कर्शितःङ।
॥ २।१०४।१ ॥ ॥ २।१०४।२ ॥
राजपत्न्यश्च गच्छन्त्यः मन्दं मन्दाकिनीं प्रति।
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २ ॥
तीर्थंपुण्यतीर्थम् ॥ २ ॥
तदानीमेव रामेण पिण्डप्रदानादिकं निर्वर्त्य गतत्वात्तत्परिज्ञानेन एवं कथनम्।
॥ २।१०४।२ ॥ ॥ २।१०४।३,४ ॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता।
सुमित्रामब्रवी १द्दीना याश्चान्या राजयोषितः ॥ ३ ॥
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम्।
वने २प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः ॥ ४ ॥
इदमित्यादि। ये ते प्रसिद्धाः रामादयः, अक्लिष्टकर्मणां अनाथानां तेषां क्लिष्टंक्लेशावहं वनेवनवासे प्राक्कलनंबहुव्रीहिरयं, प्रथमपरिग्रहवत् तीर्थंपुण्यतीर्थं आगङ्गायमुनं देशीयमेव तीर्थम्। एवं पाङ्क्ते पाठे प्राक्केवलं तीर्थंऽ इति पठित्वा असङ्गतान् यद्वापक्षानाहान्यः ॥ ४ ॥
१द्दीनांच।
राजयोषित इति द्वितीयाबहुवचनान्तम्।
ते प्रसिद्धाः ये रामादयः प्राक् निर्विषयीकृताःराज्यान्निष्कासिताःनिराश्रयीकृता वा, तेषां क्लिष्टंउपमर्दितं तीर्थंअवतरणस्थलमित्यर्थः, केवलं निश्चितं৷৷। इदं रामादीनां स्नानादिभिव्यवहितस्थलं नूनमिति भावःती।गो। क्लिष्टंअहो क्लिष्टमित्यर्थे भावार्थको वा। वने अनाथानामित्यत्रेव हेतुःये ते निर्विषयीकृता इति।
२प्राक्केवलंङ।
॥ २।१०४।३,४ ॥ ॥ २।१०४।५,६ ॥
इतः, सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः।
स्वयं हरति सौमित्रिः मम पुत्रस्य कारणात् ॥ ५ ॥
जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः।
भ्रातुर्यदर्थ १सहितं सर्व २तद्विहितं गुणैः ॥ ६ ॥
जघन्यंहीनमपि जलाहरणादिकं ते पुत्रः कृतवान्। अथाप्यसौ न गर्हितः। कृत इत्यतःभ्रातुरित्यादि। यत् यस्मात् अर्थसहितंप्रयोजनसहितं भ्रातुः गुणैःज्यैष्ठ्यसौभ्रात्रपरमधार्मिकत्वादिगुणैः हेतुभिः विहितम् ॥ ६ ॥
अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च तेऽ इति वदतो लक्ष्मणस्य स्वभावं जानन्ती कौसल्या एवं वदति।
भ्रातुःज्येष्ठभ्रातुः अर्थसहितंप्रयोजनसहितं यत् कर्म, तत्सर्वं गुणैर्विहितं ज्येष्ठभ्राता पितृसमःऽ इति वचनात् पितृशुश्रूषावद्गुणाय कल्पत इत्यर्थःगो। यत्यस्मात् भ्रातुर्गुणैः विहितं तत् सर्वं जलाहरणादि अर्थसहितंअर्थवद्भवति। गुणैर्दास्यमुपागतःऽ (किष्कि।४१२) कृतार्थोऽहं भविष्यामिऽ (अयो।३१।२४) इत्ययं खलु लक्ष्मणस्य स्वभाव इति भावः।
१रहितंङ।
भ्रातुरर्थरहितं यत् तदेव सर्वं गुणैः–गुणवद्भिः गर्हितंरा।
२तद्वर्हितंङ।
॥ २।१०४।५,६ ॥ ॥ २।१०४।७ ॥
१अद्यायमपि ते पुत्रः क्लेशानामतथोचितः।
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ ७ ॥
तस्मादेवअद्येत्यादि। क्लेशानांअनुभूयमानानां अतथोचितःयथानुभवमुचितो न भवतीत्यतथोचितः, तेऽयं पुत्रोऽपि नीचःनीचार्हःदासार्हः अनर्थःक्लेशावहः समाचारःअनुष्ठानं यस्मिन् भ्रातृशुश्रूषाकर्मणि तत्तथा, सज्जंप्रस्तुतं कर्म यथोक्तरूपं प्रमुञ्चतु, भरतेन रामस्य प्रत्यावर्तयिष्यमाणत्वादिति शेषः ॥ ७ ॥
क्लेशानामतथोचितःइदानीं यादृशक्लेशानुभवः तादृशक्लेशानामनुचितः ते अयं पुत्रः नीचानर्थसमाचारंनिकृष्टदुःखप्रचुरसमाचारसहितं सज्जंउद्युक्तं कर्म अद्य प्रमुञ्चत्वपि, अपिशब्दः सम्भावनायाम्। ৷৷৷৷৷৷।भरतप्रार्थनया रामेण स्वराज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेद्वेति भावःगो। पूर्वश्लोके तथा वदन्त्या अपि कौसल्याया एवं वादः लोकानुसारेण। अथवाभ्रातृशुश्रूषाया गुणत्वेऽपि राजकुमारस्य जलाहरणादिरूपसेवा अनुचितैवेति भावः।
अथायमपिङ।
॥ २।१०४।७ ॥ ॥ २।१०४।८११ ॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ ८ ॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ ९ ॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः।
राघवेण १पितुर्दत्तं पश्यतैतद्यथाविधि ॥ १० ॥
तस्य देवसमानस्य पार्थिवस्य महात्मनः।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ ११ ॥
एतत् भोजनं औपयिकंउचितं न भवतीति मन्ये। तत्र हेतुःभुक्तभोगस्येति। भुक्ताः राजभोगाः येन स तथा ॥ ११ ॥
पितुरिति चतुर्थ्यर्थे षष्ठीगो। रामेणेत्यस्यानन्तरश्लोकादाकर्षः।
स्त्रिय इति द्वितीयाबहुवचनान्तम्।
१पुनर्दत्तंङ।
औपयिकंप्राप्तं युक्तं स्यादुचितं न्याय्यं प्राप्तमौपयिकं तथाऽ इति हलायुधःगो। भुक्तभोगस्य एतत् भोजनं न औपयिकंन युक्तं युक्तमौपयिकंऽ इत्यमरः।
॥ २।१०४।८११ ॥ ॥ २।१०४।१२ ॥
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो १विभुः।
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ १२ ॥
उक्तार्थ एव विव्रियतेचतुरन्तामित्यादि। चतुस्समुद्रावसानामित्यर्थः ॥ १२ ॥
१भुविच।
॥ २।१०४।१२ ॥ ॥ २।१०४।१३ ॥
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति १मा।
यत्र रामः पितुर्दद्यात् इङ्गुदीक्षोदमृद्धिमान् २ ॥ १३ ॥
क्षोदंपिष्टम् ॥ १३ ॥
१मेच, मांङ।
२राज्यैश्वययोग्यतया ऋद्धिमानित्युक्तिःगो।
॥ २।१०४।१३ ॥ ॥ २।१०४।१४ ॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ १४ ॥
स्फोटति स्फुटविशरणेऽ, अन्याय्यत्वात् ॥ १४ ॥
॥ २।१०४।१४ ॥ ॥ २।१०४।१५ ॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति १ मा।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ १५ ॥
स्फोटो वा न युक्त इत्याश्वसितिश्रुतिस्त्वित्यादि ॥ १५ ॥
लौकिकीलोकविदिता, लोकप्रसिद्धेति यावत्गो।
१मेच।
॥ २।१०४।१५ ॥ ॥ २।१०४।१६१९ ॥
१एवमार्तां सपत्न्यस्ताः जग्मुराश्वास्य तां तदा।
ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् ॥ १६ ॥
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः।
आर्ता मुमुचुरश्रूणि २सस्वरं शोककर्शिताः ॥ १७ ॥
तासां रामः समुत्थाय जग्राह ३चरणान् शुभान्।
मातृ़णां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ १८ ॥
ताः पाणिभिः ४सुखस्पर्शैः मृद्वङ्गुलि ५तलैः शुभैः।
प्रममार्जू रजः पृष्ठात् रामस्यायतलोचनाः ॥ १९ ॥
पृष्ठात्पृष्ठदेशात्, पृष्ठं तु चरमं तनोःऽ ॥ १९ ॥
१एवमार्ताःङ।
२सुस्वरंङ।
३चरणाम्बुजान्च।
४शुभस्पर्शैःङ।
५दलैःङ।
॥ २।१०४।१६१९ ॥ ॥ २।१०४।२० ॥
सौमित्रिरपि ताः सर्वाः मातृ़ः सम्प्रेक्ष्य १दुःखितः।
अभ्यवादयदासक्तं शनै रामादनन्तरम् ॥ २० ॥
आसक्तंभावे निष्ठा, स्नेहासङ्गोपेतमिति यावत् ॥ २० ॥
१दुःखिताःङ।
असक्तंअविरतं अविरतमनवरतं स्यात् एकार्थमनारतमसक्तमपिऽ इति हलायुधःगो। रामादनन्तरं, अविलम्बेनैव अभ्यवादयतइत्यर्थं इति भावः।
॥ २।१०४।२० ॥ ॥ २।१०४।२१ ॥
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २१ ॥
ववृतिरेवर्तितवत्यः ॥ २१ ॥
वृत्तिं ववृतिरेपाकं पचतीतिवत् प्रयोगः।
॥ २।१०४।२१ ॥ ॥ २।१०४।२२२५ ॥
सीताऽपि चरणांस्तासां उपसङ्गृह्य दुःखिता।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ २२ ॥
तां परिष्वज्य दुःखार्तां माता दुहितरं यथा।
वनवास १कृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २३ ॥
विदेहराजस्य सुता स्नुषा दशरथस्य च।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ २४ ॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम्।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २५ ॥
परिक्लिष्टंपरिमृदितं उत्पलंरक्तोत्पलम्। ध्वस्तंअभिभूतम् ॥
१कृतांच।
॥ २।१०४।२२२५ ॥ ॥ २।१०४।२६ ॥
मुखं ते प्रेक्ष्य मां शोकः दहत्यग्निरिवा १शयम् ।
भृशं मनसि, वैदेहि व्यसनारणिसम्भवः ॥ २६ ॥
मनसि सङ्क्रान्तः व्यसनारणिसम्भवः शोकः, अग्निः आशयंगृहं, आशय्यते अस्मिन्नित्याशयःगृहमिव मां दहति ॥ २६ ॥
ते मुखं प्रेक्ष्य, स्थितामिति शेषःगो।
१भयम्ङ। च।
आश्रयाश इत्यग्नेर्नामान्तरम्।
॥ २।१०४।२६ ॥ ॥ २।१०४।२७२९ ॥
ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ २७ ॥
पुरोहितस्याग्निसमस्य वै तदा
बृहस्पतेरिन्द्र १इवामराधिपः।
प्रगृह्य पादौ सुसमृद्धतेजसः
सहैव तेनोपविवेश राघवः ॥ २८ ॥
ततो २जघन्यः ३सहितैः ४समन्त्रिभिः
पुरप्रधानैश्च ५सहैव सैनिकैः।
जनेन धर्मज्ञतमेव धर्मवान्
उपोपविष्टो भरतस्तदाऽग्रजम् ॥ २९ ॥
तत इति। वसिष्ठरामोपवेशनानन्तरं जघन्यःजघनभागाश्रितःपृष्ठभागाश्रितः सन् उपोपविष्टो बभूवेत्यन्वयः ॥ २९ ॥
१इवामराग्रजःङ।
ततो जघन्यंवसिष्ठरामोपवेशादनन्तरंगो। जघन्यंनिम्नदेशंरा।
२जघन्यंङ। च।
३सह तैःङ।
४स्वमन्त्रिभिःच।
५तथैवच।
अग्रजमुपोपविष्टः।
॥ २।१०४।२७२९ ॥ ॥ २।१०४।३० ॥
उपोपविष्टस्तु १तदा स वीर्यवान्
तपस्विवेषेण समीक्ष्य राघवम्।
श्रिया ज्वलन्तं भरतः कृताञ्जलिः
यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ ३० ॥
उपोपविष्ट इत्यादिकं जनाभिप्रायानुभाषणम् ॥ ३० ॥
१तदाति वीर्यवान्च।
कृताञ्जलिः, अभूदिति शेषःगो। कृताञ्जलिः उपोपविष्टः इति वा।
॥ २।१०४।३० ॥ ॥ २।१०४।३१ ॥
किमेष वाक्यं भरतोऽद्य राघवं
प्रणम्य सत्कृत्य च साधु वक्ष्यति।
इतीव तस्यार्यजनस्य १तत्त्वतः
बभूव कौतूहलमुत्तमं तदा ॥ ३१ ॥
तत्त्वतः किं साधु वक्ष्यतीति योजना ॥ ३१ ॥
१सर्वतःङ।
॥ २।१०४।३१ ॥ ॥ २।१०४।३२ ॥
स राघवः सत्यधृतिश्च लक्ष्मणः
महानुभावो भरतश्च धार्मिकः।
वृताः सुहृद्भिश्च विरेजुरध्वरे
यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥ ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुरुत्तरशततमः सर्गः
त्रयोऽग्नय इति शत्रुघ्नस्याप्राधान्येन परिहरणात्। रङ्ग(३२)मानः सर्गः ॥ ३२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुरुत्तरशततमः सर्गः।
लक्ष्मणशत्रुघ्नयोरकोदरजत्वात् वा शत्रुघ्नस्य पृथगनुक्तिः।
॥ २।१०४।३२ ॥