त्र्युत्तरशततमः सर्गः
[निवापनिर्वर्तनम्] ॥ २।१०३।१ ॥
तां श्रुत्वा करुणां वाचं पितुर्मरण १संहिताम्।
राघवो भरतेनोक्तां बभूव गतचेतनः ॥ १ ॥
अथ श्रुतपितृविपत्तिकेन रामेण यथाप्राप्तदुःखपरिपालनाचारः। तां श्रुत्वेत्यादि। करुणांशोकावहाम् ॥ १ ॥
यद्वा अकरुणांकरुणारहितां, क्रूरामिति यावत्गो।
१संयुतांङ।
॥ २।१०३।१ ॥ ॥ २।१०३।२ ॥
तं तु वज्रमिवोत्सृष्टं आहवे दानवारिणा।
वाग्वज्रं भरतेनोक्तं अमनोज्ञं परन्तपः ॥ २ ॥
दानवारिःइन्द्रः ॥ २ ॥
एतादृशं वाग्वज्रं श्रुत्वा गतचेतनो बभूव इति पूर्वश्लोकेन, वाग्वज्रं श्रुत्वा भुवि पपात इत्युत्तरश्लोकेन वाऽन्वयः।
॥ २।१०३।२ ॥ ॥ २।१०३।३ ॥
प्रगृह्य बाहु रामो वै १पुष्पिताग्रो यथा द्रुमः।
वने परशुना कृत्तः २तथा भुवि पपात ह ॥ ३ ॥
प्रगृह्यप्राग्रौकृत्येत्यर्थः ॥ ३ ॥
भरतादिदर्शनेन हर्षात् पुष्पिताङ्गद्रुमसादृश्यम्ति।
१पुष्पिताङ्गोच।
२तदा भूमौङ।
॥ २।१०३।३ ॥ ॥ २।१०३।४,५ ॥
तथा निपतितं रामं जगत्यां जगतीपतिम्।
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ ४ ॥
भ्रातरस्ते महेष्वासं सर्वतः शोक १कर्शितम्।
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ ५ ॥
सर्वतः सिषिचुरिति। सर्वगात्राणि मोहशान्तये सिक्तवन्त इत्यर्थः ॥ ५ ॥
मदेन दन्तकण्ड्वा च कृतेन कूलप्रहारेण परिश्रान्तम्गो। हृष्टपुष्टपतितगजत्वे दृष्टान्तोऽयम्।
१कर्शिताःङ।
॥ २।१०३।४,५ ॥ ॥ २।१०३।६ ॥
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामस्रमुत्सृजन्।
उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥ ६ ॥
कृपणं भाषितुमिति। विलपितुमिति यावत् ॥ ६ ॥
गलितां संज्ञां पुनर्लब्ध्वेत्यर्थः।
॥ २।१०३।६ ॥ ॥ २।१०३।७,८ ॥
स रामः स्वर्गतं श्रुत्वा पितरं १पृथिवीपतिम्।
उवाच भरतं वाक्यं २धर्मात्मा धर्मसंहितम् ॥ ७ ॥
किं करिष्याम्ययोध्यायां ३ताते दिष्टां गतिं गते।
कस्तां ४राजवराद्धीनां अयोध्यां पालयिष्यति ॥ ८ ॥
दिष्टांस्वसुकृतादिसृष्टाम् ॥ ८ ॥
१जगतीङ।
२धर्मज्ञंङ।
३ताते च त्रिदिवंङ।
दिष्टांकालकल्पितां, यद्वा दैवकल्पिताम्गो। दैवं दिष्टं भागधेयम्ऽ।
राजवरात्तृतीयार्थे पञ्चमीगो।
४राजवराधीनांङ।
॥ २।१०३।७,८ ॥ ॥ २।१०३।९ ॥
किं नु तस्य मया कार्यं १दुर्जातेन महात्मनः।
यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ ९ ॥
दुर्जातेनवृथाजन्मना ॥ ९ ॥
१दुर्जनेनङ।
॥ २।१०३।९ ॥ ॥ २।१०३।१० ॥
अहो भरत सिद्धार्थः येन राजा त्वयाऽनघ
शत्रुघ्नेन च सर्वेषु १प्रेतकृत्येषु सत्कृतः ॥ १० ॥
सत्कृत इति। संस्कारादिकर्मणा पूजित इत्यर्थः ॥ १० ॥
प्रेतकार्येषु संस्कृतःङ।
॥ २।१०३।१० ॥ ॥ २।१०३।११ ॥
निष्प्रधाना मनेकाग्रां नरेन्द्रेण विनाकृताम्।
निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ॥ ११ ॥
निष्प्रधानांप्रधानप्रभुरहितां, अत एवअनेकाग्रांबहुनायकाम्। उक्तोभयहेतुःनरेन्द्रेण विनाकृतामिति। गन्तुंआगन्तुम्।
एकाग्राअनाकुला, अनाकुलेऽपि चैकाग्रःऽ इत्यमरः, सा न भवतीत्यनेकाग्रा, तां, आकुलामिति यावत्गो।
॥ २।१०३।११ ॥ ॥ २।१०३।१२ ॥
समाप्तवनवासं मां अयोध्यायां, परन्तप
१कोऽनु शासिष्यति पुनः ताते लोकान्तरं गते ॥ १२ ॥
अनुशासिष्यतिहिताहितप्रवृत्तिनिवृत्तिं कारयिष्यति ॥ १२ ॥
१को नु शासिष्यतिङ।
शासिष्यतिकार्येषु नियोक्ष्यतीत्यर्थःगो।
॥ २।१०३।१२ ॥ ॥ २।१०३।१३१५ ॥
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्या सान्त्वयन्।
वाक्यानि तानि श्रोष्यामि कुतः १कर्णसुखान्यहम् ॥ १३ ॥
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः।
उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ १४ ॥
सीते मृतस्ते श्वशुरः, पित्रा हीनोऽसि, लक्ष्मण
भरतो दुःखमाचष्टे २स्वर्गतं पृथिवीपतिम् ॥ १५ ॥
दुःखं यथा तथा आचष्टे ॥ १५ ॥
सुवृत्तंशोभनं नियोगाचरणरूपं वृत्तं यस्य तम्गो।
१श्रोत्रङ।
दुःखमाचष्टे, स्वर्गतं पृथिवीपतिमाचष्टेइति दुःखाधिक्यादुक्तिर्वा।
२स्वर्गतिं पृथिवीपतेःच।
॥ २।१०३।१३१५ ॥ ॥ २।१०३।१६२० ॥
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत्।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ १६ ॥
ततस्ते भ्रातरस्सर्वे भृशमाश्वास्य १राघवम्।
अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ॥ १७ ॥
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम्।
नेत्राभ्यामश्रुपूर्णाभ्यां अशकन्नेक्षितुं पतिम् ॥ १८ ॥
सान्त्वयित्वा तु तां रामः २रुदन्तीं जनकात्मजाम्।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ १९ ॥
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ २० ॥
इङ्गुद्याः पिण्याकम्। इदं वानप्रस्थपितृक्रियाप्रसिद्धम्, पवित्रं च। अनिस्सारिततैलं पिष्ट्वा चूर्णीकृतं इङ्गुदीबीजमेव पिण्याकत्वेनोपचर्यते ॥ २० ॥
१दुःखितम्च।
एतदनन्तरं इतिकरणमूह्यम्।
श्वशुरं नृपं स्वर्गलोकगतं श्रुत्वेत्यन्वयः।
२रुदतींच।
चीरंवासः, उदकदानार्थं, उत्तरंउत्तरीयं चगो।
॥ २।१०३।१६२० ॥ ॥ २।१०३।२१ ॥
सीता पुरस्तात् व्रजतु त्वमेना मभितो व्रज।
अहं पश्चात् गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २१ ॥
एनामभित इति। परितो रक्षन्निति शेषः। एषा गतिरिति। पितृमरणदुःखप्राप्तिरित्यर्थः ॥ २१ ॥
अभितःपश्चात्गो।
सुदारुणासुतरां दुस्सहा। गतिःदुःखिनां गतिः एषा हि स्नानाद्यर्थं स्त्रीबालपुरस्सरा खल्वित्यर्थः। तथा च सूत्रं सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियोऽग्रेऽ इतिगो।
॥ २।१०३।२१ ॥ ॥ २।१०३।२२,२३ ॥
ततो नित्यानुगस्तेषां विदितात्मा महामतिः।
मृदुर्दान्तश्च १शान्तश्च रामे च दृढभक्तिमान् ॥ २२ ॥
सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्।
२अवतारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २३ ॥
नित्यानुगःनित्यानुचरः। तेषांकुमाराणाम्। अवतारयत्अवातारयदिति यावत् ॥ २२२३ ॥
कान्तः(पा।)तेजस्वीरा।
१कान्तश्चच।
२अवातारयङ।
॥ २।१०३।२२,२३ ॥ ॥ २।१०३।२४,२५ ॥
ते सुतीर्थां ततः कृच्छ्रात् उपागम्य यशस्विनः।
नदीं मन्दाकिनीं रम्यां सदापुष्पितकाननाम् ॥ २४ ॥
१शीघ्रस्रोतसमासाद्य तीर्थं २शिवमकर्दमम्।
सिषिचुस्तूदकं राज्ञे ३ततैतत्ते भवत्विति ॥ २५ ॥
अकर्दमं तीर्थंअवतारः। एतत्तदुदकं भवत्विति सिषिचुरित्यन्वयः ॥ २५ ॥
१दीर्घस्रोतसङ।
२शुचिङ।
३तत्रैतत्तेङ। तत एतत्च।
॥ २।१०३।२४,२५ ॥ ॥ २।१०३।२६ ॥
प्रगृह्य च महीपालः जलपूरितमञ्जलिम्।
दिशं याम्यामभिमुखः रुदन् वचनमब्रवीत् ॥ २६ ॥
अयमेवार्थो विव्रियतेप्रगृह्येत्यादि ॥ २६ ॥
कविवाक्यमिदम्। एवमुत्तरत्रा(३२)पि जगतीपतिःऽ, इत्यादि द्रष्टव्यम्।
यत्तु आधुनिकनिबन्धेषु सुमन्तुनाम्ना लिखितं वचनं क्षत्त्रियाणामुदङ्मुखजलदानबोधकं तन्निर्मूलम्एतदाचारविरोधात्। निकृष्टक्षत्त्रियपरं वा। रुदन्नित्यनेन पित्रादिविषये रोदने न निषेध इति सूचितम्ति।
॥ २।१०३।२६ ॥ ॥ २।१०३।२७,२८ ॥
एतत्ते, राजशार्दूल विमलं तोयमक्षयम्।
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २७ ॥
ततो मन्दाकिनी १तीरं प्रत्युत्तीर्य स राघवः।
पितुश्चकार तेजस्वी २निवापं भ्रातृभिस्सह ॥ २८ ॥
तीरं उत्तीर्य निवापं चकारपिण्डं प्रददावित्यर्थः, निवापः पितृदानं स्यात्ऽ ॥ २८ ॥
१तीरात्ङ।
२निर्वापंच।
भ्रातृभिस्सह मन्दाकिनीतीरात् प्रत्युत्तीर्य ৷৷।मन्दाकिनीतीरात् समुत्तीर्येत्युदकदानदेशात् किञ्चित्प्रदेशान्तरगमनवचनात् सपिण्डीकरणमेव कृतमित्यवगम्यते। दशाहात्यये उदकदानं विना पिण्डदानस्याचोदितत्वात्। उदकसेचनवत् कनिष्ठेन लक्ष्मणेन पिण्डदानानुक्तेश्चगो। न च यदाकदाचित् पितुर्मरणश्रवणे पुत्रस्य दशाहाशौचतायाः स्मृतिषूक्तत्वात् कथं कृतक्रियस्य पितुः प्रथमदिन एव पिण्डदानमिति वाच्यम् तस्याः स्मृतेः क्षत्त्रियेतरविषयत्वात् कलिविषयत्वाद्वा न दोषःति।
॥ २।१०३।२७,२८ ॥ ॥ २।१०३।२९ ॥
ऐङ्गुदं १बदरैर्मिश्रं पिण्याकं दर्भसंस्तरे।
न्यस्य रामः सुदुःखार्तः रुदन् वचनमब्रवीत् ॥ २९ ॥
ऐङ्गुदंइङ्गुदीपिण्याकपिण्डम्। बदरैःबदरफलैः, तस्येदम्ऽ इत्यण् फले लुक्ऽ इति लुक् ॥ २९ ॥
१बदरीमिश्रंङ।
॥ २।१०३।२९ ॥ ॥ २।१०३।३०३३ ॥
इदं भुङ्क्ष्व, महाराज प्रीतो यदशना वयम्।
१यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ ३० ॥
ततस्तेनैव मार्गेण प्रत्युत्तीर्य २नदीतटात्।
आरुरोह नरव्याघ्रः रम्यसानुं महीधरम् ॥ ३१ ॥
ततः पर्णकुटीद्वारं आसाद्य जगतीपतिः।
परिजग्राह ३बाहुभ्यां उभौ भरतलक्ष्मणौ ॥ ३२ ॥
तेषां तु रुदतां शब्दात् ४प्रतिशब्दोऽभवद्गिरौ।
भ्रातृ़णां सह वैदेह्या सिंहानामिव नर्दताम् ॥ ३३ ॥
प्रतिशब्दःप्रतिध्वनिः ॥ ३३ ॥
१यदन्नं पुरुषोऽश्नातिङ।
२सरित्तटात्च।
३पाणिभ्यांच।
४प्रतिश्रुत्कोङ।
॥ २।१०३।३०३३ ॥ ॥ २।१०३।३४ ॥
महाबलानां रुदतां कुर्वतामुदकं पितुः।
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥ ३४ ॥
त्रस्ताःका वा विपत्तिः प्रादुरभूदिति भीता इत्यर्थः ॥ ३४ ॥
॥ २।१०३।३४ ॥ ॥ २।१०३।३५ ॥
अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम्।
तेषामेव महान् शब्दः शोचतां पितरं मृतम् ॥ ३५ ॥
ततः निश्चित्यअब्रुवन्निति ॥ ३५ ॥
॥ २।१०३।३५ ॥ ॥ २।१०३।३६ ॥
अथ १वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम्।
अप्येकमनसो जग्मुः यथास्थानं प्रधाविताः ॥ ३६ ॥
तं स्वनमभिमुखा इति। तमालक्ष्येत्यर्थः। यथास्थानंयथोचितं हयादिभिः प्रधाविताःत्वरिता गच्छन्ति स्म ॥ ३६ ॥
स्वनमभिमुखाःस्वनोत्पत्तिदिगभिमुखा इत्यर्थः। यथास्थानंशब्दोत्पत्तिप्रदेशमनतिक्रम्य प्रधाविताः शीघ्रगतियुक्ताःगो। अवकाशे स्थितौ स्थानंऽ इति कोशात्यथास्थानंयथावकाशमित्यर्थो वा। एतदेव विव्रियते समनन्तरश्लोकेन
१वाहान्च।
॥ २।१०३।३६ ॥ ॥ २।१०३।३७३९ ॥
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः।
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ ३७ ॥
अचिरप्रोषितं रामं चिरविप्रोषितं यथा।
द्रष्टुकामो जनः सर्वः जगाम सहसाऽऽश्रमम् ॥ ३८ ॥
भ्रातृ़णां त्वरितास्तत्र द्रष्टुकामाः समागमम्।
ययुर्बहुविधै १र्यानैः खुरनेमि २समाकुलैः ॥ ३९ ॥
खुरसमाकुलयानानि अश्वादीनि, नेमिसमाकुलयानानि रथशकट्यः ॥ ३९ ॥
सुकुमारा इति हयैरित्यादिभिरुक्तानां त्रयाणां विशेषणम्। सुकुमारत्वाभावे दुःखितं रामं प्रति पद्भ्यामेव गन्तव्यत्वात्गो। अथवाहयैः गजैरित्यादिना योधा अभिहिताः। तद्भिन्नाः सामान्यप्रजाः सुकुमारा नराःऽ इत्युच्यन्ते।
अचिरप्रोषितमपीति भावः।
भ्रातृ़णां समागममित्यन्वयः।
१र्युक्तैःङ।
२स्वनाकुलैःङ।
॥ २।१०३।३७३९ ॥ ॥ २।१०३।४० ॥
सा भूमिर्बहुभिर्यानैः १खुरनेमिसमाहता।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे
समाहताअभिहताआक्रान्तेति यावत् ॥ ४० ॥
१रथच।
॥ २।१०३।४० ॥ ॥ २।१०३।४१ ॥
तेन वित्रासिता नागाः करेणुपरिवारिताः।
आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ ४१ ॥
गन्धेनावासयन्त्यःमदगन्धेन दिङ्मुखान् सुरभीकुर्वन्तः ॥
गन्धेनमदगन्धेन वनमावासयन्त इत्यर्थः।
॥ २।१०३।४१ ॥ ॥ २।१०३।४२ ॥
वराह १वृकसङ्घाश्च महिषाः २सृमरास्तथा।
व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैस्सह ॥ ४२ ॥
गोकर्णःसृमरःए । गवयः द्मरै ॥ ४२ ॥
१मृगसिंहाश्चच।
२सर्पवानराःङ।
॥ २।१०३।४२ ॥ ॥ २।१०३।४३ ॥
रथाङ्गाह्वयनत्यूहाः हंसाः कारण्डवाः प्लवाः।
तथा पुंस्कोकिलाः क्रौञ्चाः विसंज्ञा भेजिरे दिशः ॥ ४३ ॥
रथाङ्गाह्वयःचक्रवाकः। नत्यूहो जलरङ्कुः स्यात्ऽ द्नीर्क्कोयी।कारण्डवाःमहापक्षाः। प्लवाःएद् स्थूलबकविशेषाः ॥ ४३ ॥
॥ २।१०३।४३ ॥ ॥ २।१०३।४४४७ ॥
तेन शब्देन वित्रस्तैः आकाशं पक्षिभिर्वृतम्।
मनुष्यैरावृता भूमिः उभयं प्रबभौ तदा ॥ ४४ ॥
ततस्तं पुरुषव्याघ्रं यशस्विन १मरिन्दमम्।
आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ ४५ ॥
विगर्हमाणः कैकेयीं सहितो मन्थरामपि।
अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ ४६ ॥
तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्।
पर्यष्वजत धर्मज्ञः पितृवत् मातृवच्च सः ॥ ४७ ॥
पर्यष्वजतेति। परिष्वङ्गयोग्यानिति शेषः ॥ ४७ ॥
उभयमित्यस्यैव प्रपञ्चःआकाशं भूमिरिति। आकाशं पक्षिभिर्वृतं प्रबभौ, भूमिः मनुष्यैरावृता प्रबभाविति यावत्।
१मकल्मषम्च।
सहितःअन्योन्यसंगतःगो। सहितः अभिगम्येत्यन्वयः।
॥ २।१०३।४४४७ ॥ ॥ २।१०३।४८ ॥
स तत्र कांश्चित् परिषस्वजे नरान्
नराश्च केचित्तु तमभ्यवादयन्।
चकार सर्वान् सवयस्यबान्धवान्
यथार्हमासाद्य तदा नृपात्मजः ॥ ४८ ॥
तदेवोच्यतेस तत्रेत्यादि ॥ ४८ ॥
चकारसम्मानमिति शेषःगो।यथार्हं सवयस्यबान्धवान् चकारेति वा।
॥ २।१०३।४८ ॥ ॥ २।१०३।४९ ॥
स तत्र तेषां रुदतां महात्मनां
भुवं च खं चानुनिनादयन् स्वनः।
१गुहा गिरीणां च दिशश्च सन्ततं
मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ ४९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्र्युत्तरशततमः सर्गः।
गिरीणां गुहाः दिशश्च अनुनादयन्प्रतिध्वनयन्। धर्म(४९)मानः सर्गः ॥ ४९ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्र्युत्तरशततमः सर्गः
१महागिरीणांङ।
अनुनिनादयन् सन्ततं प्रशुश्रुवे इत्यत्र दृष्टान्तःमृदङ्गघोषप्रतिम इति।
॥ २।१०३।४९ ॥