द्व्युत्तरशततमः सर्गः
[दशरथगतिनिवेदनम्] ॥ २।१०२।१ ॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह।
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ १ ॥
एवं संक्षिप्योपदिष्टार्थस्य विस्तरोपदेशः। स्वभावश्चायं कवेः प्रायेण। रामस्येत्यादि। पूर्वसर्गादौ क्व तेऽभूत् पिताऽ इत्यादिना पितृवृत्तान्तः पृष्टः। तदनन्तरं कच्चिच्छुश्रूषसेऽ इत्यादिना सर्गसमाप्तिपर्यन्तं धर्मप्रश्नः कृतः। तत्र राजधर्मप्रश्न मह्यमनवसरदुस्थ इत्याहकिं म इत्यादि। धर्माद्विहीनस्येति। सति कुलोचितकर्मणिऽ इति न्यायेन धर्म्यं राजत्वमेव मे नास्ति, तस्य मे राजधर्मः किं करिष्यति? अनुपनीतयागवत् ॥ १ ॥
धर्मात्त्वत्सेवारूपमुख्यधर्मात्। यद्वाधर्मात्त्वदुक्तराजधर्मानुष्ठानहेतुभूतराजभावात्गो। वस्तुतस्तु उत्तरश्लोकपर्यालोचनायांज्येष्ठानुक्रमरूपसामान्यधर्मात् विहीनस्य राजधर्मरूपविशेषधर्मस्य का प्रसक्तिरित्याशयः स्वरसः प्रतिभाति।
॥ २।१०२।१ ॥ ॥ २।१०२।२ ॥
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु, नरर्षभ
१ज्येष्ठे पुत्रे स्थिते, २राजन् न कनीयान् नृपो भवेत् ॥
कुतस्ते उक्तधर्माभाव इत्यतःशाश्वतोऽयमित्यादि। अयं धर्मः अस्मासुअस्मद्वंश्येषु यथायथाशास्त्रं स्थितःप्रतिष्ठितः। अयमिति कतम इत्यतःज्येष्ठ इत्यादि। अतः कनीयस्त्वान्मे न राजत्व प्रसक्तिरिति बहिरुपसंहारः ॥ २ ॥
१ज्येष्ठपुत्रेङ।
२राज्ञांङ।, राजाच।
॥ २।१०२।२ ॥ ॥ २।१०२।३ ॥
स समृद्धां मया सार्धं अयोध्यां गच्छ, राघव
अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ ३ ॥
भवायक्षेमाय, भवः क्षेमेशसंसारेऽ इति मेदिनी।
यदेवं, अतःस इत्यादि। सः त्वं गच्छआगच्छेति यावत्। भवायअभ्युदयाय ॥ ३ ॥
॥ २।१०२।३ ॥ ॥ २।१०२।४ ॥
राजानं मानुषं प्राहुः देवंत्वे स मतो मम।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ ४ ॥
राजानं सामान्यतः सर्वेऽपि जना मानुषमेव प्राहुः। मम तु त्वं राजा दैवत्वेन सम्मतः मतिबुद्धिऽ इति क्तः, मया त्वं दैवत्वेन सम्मन्यमानो भवसीत्यर्थः। तत्र हेतुमाहयस्येत्यादि। अमानुषंमनुष्यासम्भाव्यमित्यर्थः ॥ ४ ॥
न सर्वसुलभं राजत्वमित्याहराजानमितिगो।
वस्तुतस्तु मूलं सामान्यविषयकं स्वरसम्। यस्य वृत्तमित्यन्वयः।
॥ २।१०२।४ ॥ ॥ २।१०२।५ ॥
केकयस्थे च मयि तु त्वयि चारण्य १माश्रिते।
२दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ ५ ॥
अथ प्रथमस्य राजवृत्तान्तप्रश्नस्योत्तरमाहकेकयस्थ इत्यादि। सतां मत इति। सद्भि पूज्यमान इति यावत् ॥ ५ ॥
१मास्थितेङ।
२धीमान् स्वर्गंच।
॥ २।१०२।५ ॥ ॥ २।१०२।६,७ ॥
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे।
दुःखशोकाभिभूतस्तु राजा त्रिदिव १मभ्यगात् ॥ ६ ॥
उत्तिष्ठ, पुरुषव्याघ्र क्रियतामुदकं पितुः।
अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ ७ ॥
पूर्वमेव कृतोदकाविति। कृतसपिण्डीकरणान्तसर्वकृत्यावित्यर्थः ॥ ७ ॥
पूर्वश्लोके प्रतीतां दसरथमरणस्य व्याध्यादिकारणान्तरसम्भावनां वारयतिनिष्क्रान्तमात्र इति।
१मत्यगात्ङ।
॥ २।१०२।६,७ ॥ ॥ २।१०२।८ ॥
प्रियेण खलु दत्तं हि पितृलोकेषु, राघव
अक्षय्यं भवतीत्याहुः भवांश्चैव पितुः प्रियः ॥ ८ ॥
तर्हि किंकृतकरणेनेत्यत्राहप्रियेणेत्यादि ॥ ८ ॥
॥ २।१०२।८ ॥ ॥ २।१०२।९ ॥
त्वामेव शोचन् तव दर्शनेप्सुः
त्वय्येव सक्तामनिवर्त्य बुद्धिम्।
त्वया विहीनस्तव शोकरुग्णः
त्वां १संस्मरन्नस्तमितः पिता ते ॥ ९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्व्यत्तरशततमः सर्गः
धी(९)मानः सर्गः ॥ ९ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्व्युत्तरशततमः सर्गः
प्रियत्वमेवोपपादयतित्वामेवेत्यादि।
रुग्णःपीडित इति यावत्गो। न रोगान्तरहेतुकं तन्मरणमिति वा भावः।
१संस्मरन्नेव गतःच।
॥ २।१०२।९ ॥