एकोत्तरशततमः सर्गः
[भरतप्रार्थना] ॥ २।१०१।१ ॥
१तं तु रामः २समाज्ञाय ३भ्रातरं गुरुवत्सलम्।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ १ ॥
अथ रामेण भरतागमनप्रश्नः। तं त्वित्यादि। अत्राहान्यः —- “कच्चित्सर्गानन्तरं तं तु रामः समाज्ञायऽ इत्यादिकः सर्गो वर्तते क्वचित्तन्न तथाकच्चित्सर्गकृतकुशलप्रश्नोत्तरादर्शनात्। अग्रप्रतिपाद्यमानपितृमरणानन्तरं दुःखव्यापाराबन्धनात्। इमा मातरस्त्वत्सकाशं प्राप्ताःऽ इति निर्देशाच्च। तर्हि किमयं सर्ग एव नास्ति? अस्त्येव। किन्तु वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य चऽ इति सर्गानन्तरं तं तु रामः समाज्ञायऽ इत्यस्य स्थानम् " इति —- इदमप्यसङ्गतम्– तं तु रामःऽ इति सर्गान्ते यदब्रवीन्मां नरलोकसत्कृतःऽ इत्यादिना पितृवचनात् वनवास एव मे परमहितं, न तु ततः प्राक् त्वद्दीयमानराज्यस्वीकार इति परिसमाप्तत्वात् अस्य सर्गस्य, ततः पुरुषसिंहानां वृतानां तैस्सुहृद्गणैःऽ इत्याद्युत्तरसर्गासाङ्गत्यात्। पूर्वसर्गान्ते सुहृद्गणसमागमाप्रतिपादनात्। वसिष्ठः पुरतःऽ इत्यनेनैव च मात्रादिसर्वेष्टसमागमप्रतिपादनात्। तदनन्तरं ततः पुरुषसिंहानांऽ इत्यस्यैव सर्गस्य प्राप्तावसरत्वाच्च। अतः कुशलप्रश्नानन्तरं ऽतं तु रामः ऽ इति कार्यप्रश्नसर्ग एव न्यायप्राप्तः। ननु कथं कुशलप्रश्नस्योत्तरानुक्तिः? कुशलाभावादेव। अथापि कथं इमास्त्वत्सकाशं प्राप्ताःऽ इत्याद्युक्तिः? उच्यतेअस्य सर्गस्य पितृवचनानुष्ठानविश्रान्तस्य त्वितः परं काण्डसमाप्तिप्रतिपाद्यार्थस्य संक्षेपार्थत्वात् सर्वमेवोपपन्नम्। यथोपपद्यते तथा दर्शयिष्यामः। अतः कच्चित्सर्गानन्तरं कार्यप्रश्नसर्गस्य स्थितिरिति स्थितम्। समाज्ञायेति। कुशलप्रश्नव्याजेन सर्वधर्मं ज्ञापयित्वाबोधयित्वेत्यर्थः ॥ १ ॥
एवं कच्चित्प्रश्नानन्तरं स्वस्य राजत्वाभावं सूचयितुं तदुत्तरमप्रयच्छन्तं भरतं प्रति रामेणागमनप्रयोजनप्रश्नःतं त्वित्यादिति।
१ङ, झ पुस्तकयोः अयं सर्गः १०४ तमत्वेन पठ्यते।
२समाश्वास्यङ।
३भरतंङ।
गोविन्दराजः। तथाहि रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ऽ इत्यादिरयं सर्ग एवात्र लेखनीयः। तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम्ऽ इत्यादिसर्गस्तु लेखकैः प्रमादाल्लिखितः तस्योक्तप्रश्नोत्तरत्वाभावात्। अत्र भरतोच्यमानपितृमरणश्रवणानन्तरं रामस्य दुःखितत्वाश्रवणात्। अत्र महेश्वरतीर्थेन सर्गपौर्वापर्यवैपरीत्यमनालोच्य स्वदृष्टकोशमात्रप्रामाण्येन तं तु रामः समाश्वास्यऽ इत्यादिकं सर्गमेव एकोत्तरशततमं मन्वानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधमालोच्य एवमाक्षेपपरिहारावुक्तौननु आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्। गतः स्वर्गं महाराजः पुत्रशोकाभिपीडितःऽ (५) इति, इमाः प्रकृतयः सर्वाः विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताःऽ (९) इति च भरतेनोक्ते रामस्तदानीमशोचन् तदुल्लङ्घ्याभिषेकप्रत्याख्यानमेव किमिति कृतवान्? नैष दोषःतस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गिकत्वेनोक्तम् राज्यस्वीकरणमेव प्राधान्येनोक्तम्। अतो रामस्त्वेवं मन्यतेपिता पुत्रशोकेन मृतकल्पः न पुनर्जीविष्यतीति मृत इत्युच्यते। मातरश्च विधवाकल्पा इति विधवा इत्युच्यन्ते। अनेन ममाभिषेचनमेव प्राधान्येनोच्यत इति। अतोऽशोचन्नभिषेकप्रत्याख्यानं कृतवान्। स्ववाक्ये पितृमरणानुवादस्य चायमेवार्थ इति। अत्रायं परिहारो न युज्यतेयदि च पिता मृतकल्पत्वेन मृत इत्युच्यत इति रामो गृह्णीयात्, तदा व्यादिश्य च महातेजाः दिवं दशरथो गतःऽ (२४) इति नानुवदेत्। यस्तु स्वाशयं स्वयमेव एवमिति वदति तस्यान्येन गत्यन्तरे सति तद्विरुद्धाभिप्रायकल्पनं कथं कर्तुं शक्यम्? अतोऽनेनैवानुवादेन रामेण पिता मृत इत्येव गृहीतमिति प्रतिभाति। किञ्च प्रकृतीनां मातृ़णां च समागमनात्पूर्वं इमाः प्रकृतयः सर्वाः विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसिऽ (९) इत्यङ्गुल्यादिनिर्देशानुपपत्तेश्च। अतः तं तु रामः समाश्वास्यऽ इत्यादि सर्गः वसिष्ठं पुरतः कृत्वाऽ इति त्र्युत्तरशततमसर्गानन्तरं चतुरुत्तरततमसर्गत्वेन लेखनीयः पठनीयश्चऽ गो। तिलकस्तु भरतस्याभिषेककरणप्रत्याशावारणाय कैकेय्या लोकानां चान्यथासम्भावनावारणाय शोककालेऽपि धैर्यमवलम्ब्य तदनाविष्करणं “शोककालेऽप्येवं धैर्यं कर्तव्यम्” इति लोकोपदेशाय चेति मम प्रतिभातिइत्याह ॥
तं तु रामः समाज्ञायऽ इत्यादिसर्गान्ते इत्यर्थः। एतत्पूर्वतने हि वसिष्ठः पुरतः कृत्वाऽ इत्यादि सर्गे सुहृत्समागमादिरुक्त इति भावः। परन्तुप्रपूर्वतनसर्गान्ते कथितस्यापि वृतानां तैः सुहृद्गणैःऽ इत्यनेन परामर्शः संभवत्येव। वसिष्ठः पुरतः कृत्वाऽ इति सर्गानन्तरमेव यदि ततः पुरुषसिंहानांऽ इति सर्गः स्यात् तदा वसिष्ठः पुरत इत्यादिसर्गान्तगतं किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति। इतीव तस्यार्यजनस्य तत्त्वतः बभूव कौतूहलमुत्तमं तदाऽ इति श्लोकेन उक्ता रामभरतसंवादनिरीक्षा असंगता स्यात्। ततः पुरुषसिंहानांऽ इत्यत्र हि शोचतामेव रजनी दुःखेन व्यत्यवर्ततऽ इति संवादाभाव एव उच्यते। किञ्च कच्चित्सर्गानन्तरं यदि तं तु रामः समाज्ञायऽ इति सर्गः स्यात् तदा तदनन्तरसर्गाद्यश्लोकोऽपि न घटेत। तत्र हि रामस्य वचनं श्रत्वा भरतः प्रत्युवाच ह। किं मे धर्मात् विहीनस्य राजधर्मः करिष्यतिऽ इति वर्तते। अत्र राजधर्मपदेन राजधर्मोपदेशश्रवणसमनन्तरमेव इदं वाक्यं प्रवृत्तमिति स्पष्टम्। गोविन्दराजोक्तानुपपत्तयस्त्वपरिहार्या एव। अतश्च कच्चित्सर्गसमनन्तरं रामस्य वचनं श्रुत्वाऽ इत्यादिसर्ग एव युक्तः। अधिकं तु पूर्वापरश्लोकविमर्शकानां स्वयं ज्ञायेतैवेति विस्तरभयान्न लिख्यते। अतो गोविन्दराजोक्तक्रम एव स्वरसः। झ पुस्तकेऽप्ययमेव क्रम आदृतः।
इदं सर्वमपि अस्वरसमेव। अस्य सर्गस्य काण्डसमाप्तिप्रतिपाद्यार्थसंक्षेपरूपत्वमपि तादृशार्थस्यात्रादर्शनात् न स्वरसम् ॥
॥ २।१०१।१ ॥ ॥ २।१०१।२ ॥
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया।
यस्मात् त्वमागतो देशं इमं १चीरजटाजिनी ॥ २ ॥
किमेतदित्यादि। यस्मात् त्वमिमं देशं चीरजटाजिनी भूत्वा आगतोऽसि, तस्मात् एतत्एतदागमनं किंकारणमिति त्वया प्रस्पष्टं व्याहृतं श्रोतुमहमिच्छेयम् ॥ २ ॥
१चीरजटाधरः, चीरजटाजिनःङ।
॥ २।१०१।२ ॥ ॥ २।१०१।३ ॥
१यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ ३ ॥
उक्तश्लोकस्यैव व्याख्यायन्निमित्तमित्यादि ॥ ३ ॥
एवमुक्तेऽपि शोकेन तूष्णीं स्थितं पुनः पृच्छतिकिन्निमित्तमित्यादिश्लोकद्वयेनगो। अत एव प्रगृह्य बलवद्भूयः इत्युक्तःऽ इत्युक्तिरित्याशयः
१किन्निमित्तङ। इदमर्धं कच्चिन्नास्तिङ।
॥ २।१०१।३ ॥ ॥ २।१०१।४,५ ॥
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना।
प्रगृह्य बलवत् भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४ ॥
१आर्य तातः परित्यज्य कृत्वा कर्म सुदुष्करम्।
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ ५ ॥
स्त्रिया नियुक्तः कैकेय्या मम मात्रा, परन्तप
अथ पूर्वसर्गे क्व नु तेऽभूत् पिताऽ इत्यादिना प्रथमपृष्टस्यैवार्थस्य पुनः प्रश्ने तस्यैवोत्तरमाहआर्य तात इत्यादि। परित्यज्येति। अस्मान् सर्वान् इमं च लोकमिति शेषः। सुदुष्करमिति अतिघोरत्वात् ॥ ५ ॥
बलवत् प्रगृह्यगाढं परिष्वज्य तत्पर्वं वक्तुमर्हसीति भूय उक्तःगो। यद्वा प्रथमदर्शनदिने आघ्राय रामस्तं मूर्ध्नि परिष्वज्य चऽ इति कथनात् भाषणोपक्रमणात् पूर्वं धैर्योपोद्बलनाय भूयः प्रगृह्य इत्येव वाऽन्वयः।
१आर्यंङ। झ।
आर्यं (पाठान्तरं) त्वां परित्यज्यविवास्यगो। गोविन्दराजरीत्याअयं श्लोकः उत्तरवाक्यप्रस्तावार्थानुवादरूपः।
॥ २।१०१।४,५ ॥ ॥ २।१०१।६ ॥
चकार १सा महत्पापं इदमात्मयशोहरम् ॥ ६ ॥
सा चकारेति योजना ॥ ६ ॥
१सुमहत्पापंङ।
॥ २।१०१।६ ॥ ॥ २।१०१।७,८ ॥
सा राज्यफलमप्राप्य विधवा शोककर्शिता।
पतिष्यति महाघोरे १निरये जननी मम ॥ ७ ॥
तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि।
अभिषिञ्चस्व चाद्यैव २राज्येन मघवानिव ॥ ८ ॥
एवं पितृमरणे श्रुते तदुचितसर्वकृत्ये च कृते ततः परं यद्वक्तव्यं तत् भरतो ब्रूतेतस्य मे इत्यादि ॥ ८ ॥
१नरकेङ।
राज्येन हेतुनागो।
२राज्येऽस्मिन्
परन्त्वेवं व्याख्यानेऽनन्तरसर्गादीनामसङ्गतिरेव। सङ्ग्रहविस्ताररूपत्वाङ्गीकारेऽपि अवश्यवक्तव्यस्य द्वित्रसर्गेण प्रतिपाद्यमानस्यार्थस्यात्रासङ्ग्रहः न स्वरसः। अतो गोविन्दराजोक्तक्रम एव साधीयान्।
॥ २।१०१।७,८ ॥ ॥ २।१०१।९ ॥
इमाः प्रकृतयः सर्वाः विधवा मातरश्च याः।
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥ ९ ॥
इमाः प्रकृतय इत्यादि। वसिष्ठः पुरतः कृत्वाऽ इत्यादिसप्रपञ्चमारादुच्यमानवक्ष्यमाणरीत्या समागता इति शेषः ॥ ९ ॥
॥ २।१०१।९ ॥ ॥ २।१०१।१० ॥
१तदानुपूर्व्या २युक्तश्च युक्तं चात्मनि, मानद
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥ १० ॥
तदिति। यस्मान्मातरः प्रकृत्यादयः सर्वे वयं त्वत्प्रसादनार्थमागताः, यतश्च त्वं आनुपूर्व्याज्येष्ठत्वलक्षणया युक्तः तस्मात्, आत्मनित्वयि अभिषेचनं युक्तं तस्मात् धर्मेण राज्यं प्राप्नुहि ॥
आनुपूर्व्या युक्तंज्येष्ठानुक्रमेण सङ्गतं आत्मनि युक्तं चभरणसमर्थ त्वय्येव प्राप्तं च राज्यंगो।
१तथाङ। च।
२युक्तं चङ। झ।
॥ २।१०१।१० ॥ ॥ २।१०१।१११३ ॥
भवत्वविधवा भूमिः समग्रा पतिना त्वया।
शशिना विमलेनेव शारदी रजनी यथा ॥ ११ ॥
एभिश्च सचिवैः सार्धं शिरसा याचितो मया।
भ्रातुश्शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ १२ ॥
तदिदं शाश्वतं पित्र्यं सर्वं १सचिवमण्डलम्।
पूजितं, पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ १३ ॥
सचिवमण्डलंतत्प्रार्थनामिति यावत् ॥ १३ ॥
नाभाव आर्षःगो। पत्या इति वक्तव्य इति शेषः।
चन्द्रः खलु निशापतिः, ओषधीशो निसापतिःऽ इत्यमरः।
शिष्यःअनुशासनीयः, दासःनित्यकिङ्करः।
१प्रकृतिङ।
पूजितंपूजार्हम्गो।
॥ २।१०१।१११३ ॥ ॥ २।१०१।१४,१५ ॥
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः।
रामस्य शिरसा पादौ जग्राह १विधिवत् पुनः ॥ १४ ॥
तं मत्तमिव मातङ्गं निश्वसन्तं पुनःपुनः।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ १५ ॥
मत्तं, तथाप्यकस्मात्प्राप्तदुःखेन निश्वसन्तं मातङ्गमिव स्थितम् ॥
१भरतः च।
पुनरिति। पूर्वं याचितवान्, ततः शरणागतिमकरोदित्यर्थःगो।आगत्योपवेशनकाले प्रणामकरणात् पुनरित्युक्तं स्यात्। विधिवत्पुनःऽ इति वाक्यशैली वा।
॥ २।१०१।१४,१५ ॥ ॥ २।१०१।१६ ॥
कुलीनः १सत्त्वसम्पन्नः तेजस्वी चरितव्रतः।
राज्यहेतोः कथं पापं आचरेत् २त्वद्विधो जनः ॥ १६ ॥
भरतव्यवहारमनुमोदते भगवान् रामःकुलीन इत्यादि ॥
१सत्यसङ्कल्पःङ।
पापंज्येष्ठविषयप्रातिकूल्यरूपम्गो। एतदेव स्पष्टीक्रियते समनन्तरं न दोषं त्वयि पश्यामिऽ इति।
२मद्विधोच।
॥ २।१०१।१६ ॥ ॥ २।१०१।१७ ॥
न दोषं १त्वयि पश्यामि सूक्ष्ममप्यरिसूदन
न चापि जननीं बाल्यात् त्वं विगर्हितुमर्हसि ॥ १७ ॥
बाल्यात्अज्ञानात् ॥ १७ ॥
१तवङ।
॥ २।१०१।१७ ॥ ॥ २।१०१।१८ ॥
कामकारः, महाप्राज्ञ गुरूणां सर्वदाऽनघ
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ १८ ॥
कथं कैकेयीगर्हणस्याज्ञानमूलत्वमित्यत्राहकामकार इत्यादि। हे महाप्राज्ञ गुरूणांपित्रादीनां उपपन्नेषु दारेषु पुत्रेषु च सर्वथा कामकारःस्वेच्छया नियोजनं विधीयत एव ॥ १८ ॥
पापंज्येष्ठविषयप्रातिकूल्यरूपम्गो। एतदेव स्पष्टीक्रियते समनन्तरं न दोषं त्वयि पश्यामिऽ इति।
॥ २।१०१।१८ ॥ ॥ २।१०१।१९ ॥
वयमस्य यथा लोके संख्याताः, सौम्य साधुभिः।
भार्याः पुत्राश्च शिष्याश्च १त्वमपि ज्ञातुमर्हसि ॥ १९ ॥
ततः किमित्यतःवयमित्यादि। भार्याः पुत्राः शिष्याश्च लोके साधुभिर्यथा समाख्याताःइच्छाविनियोगार्हतया, तथा सर्वे वयं सर्वप्रकारगुरोरस्य राज्ञ इति त्वमपि ज्ञातुमर्हसि ॥ १९ ॥
कामकारःस्वच्छन्दकरणं, उपपन्नेषुशिष्यदासादिषुगो।
१त्वमनुज्ञातुङ।
वयमस्य तथा संख्याताः, यथा भार्याः पुत्राः शिष्याश्च पत्यादीनां साधुभिः संख्याताः। सामान्योऽयं धर्मः, अतः त्वमप्येतत् पालयितुमर्हसीति भावः।
॥ २।१०१।१९ ॥ ॥ २।१०१।२० ॥
वने वा १चीरवसनं, सौम्य कृष्णाजिनाम्बरम्।
राज्ये वाऽपि २महाराजः मां वासयितुमीश्वरः ॥ २० ॥
अस्तु, प्रकृते किमायातमित्यतःवन इत्यादि ॥ २० ॥
चीरंद्रुमवल्कलं वसनं उत्तरीयं यस्य तम्। कृष्णाजिन अम्बरअधरीयं यस्य तम्गो।
१सौम्यवसनंङ।
२महाबाहोङ।
॥ २।१०१।२० ॥ ॥ २।१०१।२१ ॥
यावत् पितरि १धर्मज्ञे गौरवं लोक २सत्कृतम्।
तावत्, धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २१ ॥
प्रकृतजनन्यविगर्हणमुपसंहरतियावत्पितरीत्यादि। यावत्परिमाणकमित्यर्थः यत्तदेतेभ्यः परिमाणे वतुप्ऽ तावज्जनन्यामपि गौरवम्। अतो मां त्वां च कैकेयी च माता कामचारेण नियोक्तुं शक्ता इत्येव। अतो नास्या गर्हणमित्यर्थः ॥ २१ ॥
१धर्मज्ञच।
लोकसत्कृतंलोकसम्मतमिति यावत्।
२सत्कृतेङ।
॥ २।१०१।२१ ॥ ॥ २।१०१।२२ ॥
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति, राघव
मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥ २२ ॥
यदेवं, अतःएताभ्यामित्यादि। समाचरेसमाचरामीति यावत् ॥ २२ ॥
॥ २।१०१।२२ ॥ ॥ २।१०१।२३,२४ ॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोक १सत्कृतम्।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २३ ॥
२एवं कृत्वा ३महाराजः विभागं लोकसन्निधौ।
व्यादिश्य च ३महातेजाः दिवं दशरथो गतः ॥ २४ ॥
लोकसन्निधाविति। मन्त्रिपुरोहितादिजनसन्निधावित्यर्थः ॥
१सम्मतम्ङ।
२एवमुक्त्वाच।
३महाभागःङ।
॥ २।१०१।२३,२४ ॥ ॥ २।१०१।२५ ॥
स च प्रमाणं १धर्मात्मा राजा लोकगुरुस्तव ।
पित्रा दत्तं यथाभागं उपभोक्तुं त्वमर्हसि २ ॥ २५ ॥
यथाभागमुपभोक्तु त्वमर्हसीति। न त्विदानीमस्मद्भागोऽपि पित्रा दत्तः। सौमित्र्योस्तु न दत्त एव। अपि तु तदपेक्षया ज्येष्ठत्वादभिषेकश्चानुमतः। अतश्चतुर्दशसमानन्तरमहमप्यस्मद्भागं पित्रा दत्तमुपभोक्ष्ये। मात्रा तु मे वनवासमात्रं परिमितकालप्रवृत्तम्। न तु सर्वथा स्वभागपरित्यागो वृतः, पित्रा च तावदेवानुमतः। अतः कालान्तरे तु भोक्ष्यामीत्यर्थः ॥ २५ ॥
१धर्मज्ञङ।
लोकगुरुः स राजा एव तव प्रमाणम्। अतः पित्रा दत्तमित्यादि।
२एतदनन्तरंचतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः। उपभोक्ष्ये त्वहं दत्तं भाग पित्रा महात्मनाइत्यधिकम्ङ। झ।
॥ २।१०१।२५ ॥ ॥ २।१०१।२६ ॥
यदब्रवीन्मां नरलोकसत्कृतः
पिता महात्मा विबुधाधिपोपमः।
तदेव मन्ये १परमात्मनो हितं
न सर्वलोकेश्वरभाव २मव्ययम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बाल्मीकीये अयोध्याकाण्डे एकोत्तरशततमः सर्गः
मथितसिद्धान्तस्योपसंहारयदब्रवीदित्यादि। अव्ययं सर्वलोकेश्वरभावमिति। ब्रह्मत्वमपीत्यर्थः। पित्रननुमतमिति शेषः। चर(२६)मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोत्तरशततमः सर्गः
आत्मनः परं हितमित्यन्वयः।
१चिरमात्मनोङ।
२मप्यहम्ङ।
॥ २।१०१।२६ ॥