शततमः सर्गः
[कुशलप्रश्नः] ॥ २।१००।१ ॥
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि।
ददर्श रामो दुर्दर्शं युगान्ते १भास्करं यथा ॥ १ ॥
अथ रामेण कुशलप्रश्नः। जटिलमित्यादि। अद्य प्रभृति भूमौ तु शयिष्येऽ जटाचीराणि धारयन्ऽ इत्यष्टाशीतितमसर्गे भरतेनोक्तत्वात् जटिलत्वं भरतस्य च। युगान्ते भास्करमित्यनुकर्षः। इदं तु कवीनामुत्प्रेक्षामात्रम्, न तु सूर्यपातः कदाऽपि ॥ १ ॥
दर्शनमात्रेण भरतो राज्यं पालयतीति कृत्वा राज्यनीतिं पृच्छति शततमे। ननु गङ्गातीरे अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा। फलमूलाशनो नित्यं जटाचीराणि धारयन्ऽ (अयो। ८८२६) इति जटावल्कलधारणं प्रतिज्ञातम्। पुनर्नवतितमे भरद्वाजदर्शनसमये वसानो वाससी क्षौमेऽ (अयो। ९०२) इति क्षौमवस्त्रं धृतवानित्युच्यते। अत्र तु जटिलं चीरवसनंऽ इति सिद्धवदनूद्यते। कथमेतत्संगच्छत इति चेत्अत्राहुःप्रतिज्ञाया रात्रौ कृतत्वात् अपरेद्युर्भरद्वाजदर्शनानन्तरं जटावल्कले धृतवानित्यविरोध इतिगो। यद्यपि नवतितमे सर्गे वसानो वाससी क्षौमेऽ (२) इति भरद्वाजदर्शनवेलायां श्रूयते तथाऽपि गुहग्रामे प्रतिज्ञातस्य भरद्वाजाश्रमनिर्गमानन्तरं धारणमिति न विरोधःति। अधिकं तत्रैव द्रष्टव्यम्। अत्र आद्यश्लोकद्वयं गतसर्गान्तिमभागानुवादरूपम्।
युगान्ते भास्करं यथाप्रलयकालिकसूर्यमिव दुर्दर्शमिति वा।
१भरतंङ।
॥ २।१००।१ ॥ ॥ २।१००।२,३ ॥
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम्।
भ्रातरं भरतं रामः परिजग्राह १बाहुना ॥ २ ॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च २राघवः।
अङ्के भरतमारोप्य ३पर्यपृच्छत् समाहितः ॥ ३ ॥
समाहित इति कुशलप्रश्नद्वारा धर्मबोधनसावधानचित्त इत्यर्थः ॥ ३ ॥
कथञ्चिदभिविज्ञाने हेतुद्वयंविवर्णवदनं कृशमितिगो।
१पाणिनाच।
२बाहुनाङ, राघवम्च।
३पर्यपृच्छत सादरम्च।
॥ २।१००।२,३ ॥ ॥ २।१००।४ ॥
क्व नु तेऽभूत् पिता, तात यदरण्यं त्वमागतः।
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ ४ ॥
हे तात ते पिता क्वाभूत्? इह वा परत्र वेत्यर्थः। कुत एवं संशयप्रसङ्ग इत्यतःन हि त्वमित्यादि। जीवतस्तस्येति। सेवां हित्वेति शेषः। नार्हसीति। पितृशुश्रूषाया नित्यकर्तव्यत्वात् मदसन्निधानसमये त्वयेत्याशयः ॥ ४ ॥
रामस्य प्रश्नान्तरसम्बन्धदर्शनेन भरतो नोत्तरमुक्तवानिति बोध्यम्गो।
॥ २।१००।४ ॥ ॥ २।१००।५ ॥
चिरस्य बत पश्यामि दूरात् भरतमागतम्।
दुष्प्रतीकमरणयेऽस्मिन् किं, तात वनमागतः ॥ ५ ॥
दूरात्मातुलदेशात् चिरस्यागतं भरतं पश्यामि बत इति सन्तोषवचनं सामान्यतः, न भरतं प्रति। दुष्प्रतीकंदुर्दशाकारणम्। भरतस्य वेदं विशेषणम्, वनस्य वा। हे तात दुष्प्रतीकं वनं किमागतः? अस्मिन्नरण्ये तव किं प्रयोजनम्? ॥ ५ ॥
बतेत्यद्भुते। दूरात्दूरावस्थितकेकयनगरात्।
दुष्प्रतीकंवैवर्ण्यादिना दुर्ज्ञेयावयवम्गो। दुष्प्रतीकमिति भरतविशेषणं, वनविशेषणं वा। आद्ये कार्श्यवैवर्ण्यादिना दुर्ज्ञेयाकारं, वनमपि भीषणतया। ৷৷। अरण्यं गजाद्युपभोग्यं, तद्वर्ति वनं आम्रादियुतं मनुष्यभोग्यम्ति। दूरात् चिरस्यागतं भरतं अरण्येऽस्मिन् दुष्प्रतीकं पश्यामि। यद्वा चिरस्य दूरादागतं दुष्प्रतीकं भरतं अरण्ये पश्यामि तव। अरण्येऽस्मिन् आगतमिति वा ॥
॥ २।१००।५ ॥ ॥ २।१००।६ ॥
कच्चिद्धारयते, तात राजा यत् त्वमिहागतः।
कच्चिन्नु दीनः सहसा राजा लोकान्तरं गतः ॥ ६ ॥
अथ भरतस्यागमनप्रयोजनं, शासति राजनि तदाज्ञया रामानयनं वा स्यात्? अथवा राज्ञोऽप्यपाये निरालम्बतया दुःखाद्वा रामदर्शनाय वा स्यात्? तत्र प्रथमः पक्ष उपन्यस्यतेकच्चिदित्यादि। यत्यस्मात् त्वं राजाज्ञयेहागतः, तस्मात् राजा प्राणान् धारयते कच्चित्? अथ द्वितीयप्रश्नःअथवा दीनः सः लोकान्तरं गतः कच्चिन्नु? यत् त्वमिहागतं इत्यनुकर्षः ॥ ६ ॥
कच्चिन्नङ। च।
॥ २।१००।६ ॥ ॥ २।१००।७ ॥
कच्चित्, सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।
कच्चित् शुश्रूषसे, तात १पितरं सत्यविक्रमम् ॥ ७ ॥
इममेव पक्षमाश्रित्य प्रश्नःन ते राज्यं भ्रष्टमिति। मूलप्रभोरत्ययाद्धेतोः प्राप्ता भ्रंशशङ्का। अथाजीवनपक्षस्य निश्चयाभावात् अश्लीलत्वाच्च तं पक्षं परित्यज्य राजजीवनपक्षमेवावलम्ब्य प्रश्नःकच्चित् शुश्रूषस इत्यादि ॥ ७ ॥
शाश्वतं राज्यं भ्रष्टं न कच्चित्।
१पितुः सत्यपराक्रमच।
॥ २।१००।७ ॥ ॥ २।१००।८ ॥
कच्चिद्दशरथो राजा १कुशली २सत्यसङ्गरः।
राजसूयाश्वमेधानां आहर्ता ३धर्मनिश्चितः ॥ ८ ॥
धर्मान्वितं निश्चितंनिश्चयः यस्य स तथा, भावे निष्ठा ॥ ८ ॥
१कुलीनःङ।
२विगतज्वरःङ।
३धर्मनिश्चयःङ।
॥ २।१००।८ ॥ ॥ २।१००।९ ॥
स कच्चित् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः।
इक्ष्वाकूणामुपाध्यायः यथावत्, तात पूज्यते ॥ ९ ॥
इक्ष्वाकूणां उपाध्यायःवसिष्ठः ॥ ९ ॥
वसिष्ठकौसल्यादीनामागमनं १०३ सर्गे वक्ष्यते।
॥ २।१००।९ ॥
॥ २।१००।११ ॥
सा, तात कच्चित् कौसल्या सुमित्रा च प्रजावती।
सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥ १० ॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः।
अनसूयुरनुद्रष्टा १सत्कृतस्ते पुरोहितः ॥ ११ ॥
कुलपुत्रःमहाकुलप्रसूतः। अनुद्रष्टातावकसकलहितकृत्यस्यानुक्षणद्रष्टा। तथा ते पुरोहित इति। रामस्य वसिष्ठवत् प्रातिस्विकपुरोहित इत्यर्थः ॥ ११ ॥
प्रजावतीसुप्रजाः सुमित्रा च सुखिनी कच्चिदित्यन्वयः। आर्येति स्वमात्रपेक्षयाऽपि बहुमानोक्तिः, कैकेयी नन्दति कच्चित्गो। अत्र कौसल्यासुमित्रयोः सुखिनीऽ इति, केकेय्याः नन्दतिऽ इति च पदं प्रयुक्तं अवधेयम्।
अनुद्रष्टावसिष्ठोपदिष्टानामुपद्रष्टा। ते पुरोहित इत्यनेन रामस्य सुयज्ञ इव भरतस्यापि प्रातिस्विकः कच्चित्, पुरोहितोऽस्तीति गम्यते। सुयज्ञ एवोच्यत इत्यप्याहुःगो।
१सम्मतस्तेङ।
॥ २।१००।१०,११ ॥ ॥ २।१००।१२ ॥
कच्चिदग्निषु ते युक्तः १विधिज्ञो मतिमानृजुः।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ १२ ॥
विधिज्ञःअग्निहोत्राद्यश्वमेधान्तसकलहोमविधिज्ञ इत्यर्थः। कालेहोमकाले। वेदयते, तुभ्यमिति शेषः ॥ १२ ॥
पितृव्यपत्रे सापत्ने परनारीसुतेषु च। विवाहदानयज्ञादौ परिवेदो न दूषणम्ऽ इति स्मरणात् द्वैमातुरेष्वधिवेदनदोषाभावात् यज्ञोऽपि कृत इत्यारोप्य पृच्छतिकच्चिदग्निष्विति। अथवा अग्निषुअग्निकार्येषु। युक्तःसावधानः नियुक्तो वा। अग्निशुश्रूषणपर इत्यर्थःगो।
१दानज्ञोङ।
॥ २।१००।१२ ॥ ॥ २।१००।१३ ॥
कच्चिद्देवान् पितृ़न् १मातृ़ः गुरून् पितृसमानपि।
वृद्धांश्च २तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ १३ ॥
वैद्यांश्च ब्राह्मणानिति। ब्राह्मणांश्च नमस्यसिऽ इत्यग्रे सामान्यतः प्रश्नो भविष्यति। अत्र तु धन्वन्तरिशास्त्रपरिश्रमवन्तो ब्राह्मणा एव पृच्छयन्ते। ते किल नित्यं पूज्याः, आत्मरक्षाहेतुत्वात्। ननु कथं ब्राह्मणस्य भैषज्यकर्म? सति सामर्थ्ये तदभ्यासस्याप्यदोषत्वात्। ननु अपूतो ह्येषोऽमेध्यो यो भिषक्ऽ इति श्रुत्या निन्दितत्वात् कथं ब्राह्मणो भिषक्? तत्तु वैद्यशास्त्रार्थविज्ञानसम्प्रदायक्रियायोगादिरहिततया चिकित्साप्रवृत्तस्य हत्यातत्पापसम्भवात् अज्ञविषयम्। वस्तुतस्तु आवश्यकस्थले ब्राह्मणोत्तमसाध्यं भैषज्यं महते पुण्याय। श्रुतिसम्मततरमेव तस्य सुब्राह्मण्यम्, विप्रस्स उच्यते भिषक्ऽ रक्षोहामीव चातनःऽ इति घण्टाघोषात् ॥ १३ ॥
१भृत्यान्च।
२तत्रङ।
विद्या येषां सन्तीति वैद्याःविद्वांसः, तान्। ब्राह्मणान्ब्रह्मविदः यद्वा वैद्यान्भिषजः। तेषां बहुमतिश्च धनादिना परितोषणम्। ब्राह्मणानिति जातिमात्रपरो वा। तदा विद्याशीलादिकमपरीक्ष्य ब्राह्मणत्वमात्रेण यथायोग्यं बहुमानं विवक्षितम्गो। वैद्यांश्च ब्राह्मणांश्चऽ इति चकारद्वयसत्त्वादेवं व्याख्यानम्। उत्तरत्र ६१ श्लोके ब्राह्मणांश्च नमस्यसिऽ इति प्रश्नेऽपि तत्र सिद्धार्थान्ऽ इति विशेषणात् गुणतोऽपि ब्राह्मण्यं विवक्षितम्। अत्र तु सामान्यतो ब्राह्मण्यमिति न पैनरुक्त्यम् ॥
॥ २।१००।१३ ॥ ॥ २।१००।१४ ॥
इष्वस्त्रवरसम्पन्नं अर्थशास्त्रविशारदमम्।
सुधन्वानमुपाध्यायं कच्चित् त्वं, १तात मन्यसे ॥ १४ ॥
इषवःकेवलं बाणप्रयोगः, अस्त्रंसमन्त्रबाणप्रयोगः, वरशब्द उभयसम्बद्धः तदुभयसम्पन्नस्तथा। अर्थसाधकं शास्त्रंराजनीतिशास्त्रमिति यावत्। उपाध्यायंधनुर्वेदोपाध्यायम् ॥ १४ ॥
इषवःअमन्त्रका बाणाः, अस्त्राणिसमन्त्रकाःगो।
सुधन्वानंसुधन्वनामकं उपाध्यायंधनुर्वेदाचार्यम्गो।
१नावमन्यसेङ।
॥ २।१००।१४ ॥ ॥ २।१००।१५,१६ ॥
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः।
कुलीनाश्चेङ्गितज्ञाश्च १कृतास्ते, तात मन्त्रिणः ॥ १५ ॥
मन्त्रो विजयमूलं हि राज्ञां भवति, राघव
सुसंवृतो २मन्त्रधरैः अमात्यैः शास्त्रकोविदैः ॥ १६ ॥
सुसंवृतो मन्त्र इत्यन्वयः ॥ १६ ॥
आत्मसमाःविश्वसनीया इति यावत्गो।
१सत्कृताःङ।
अमात्यैः सुसंवृतःगुप्तं रक्षितः मन्त्रः राज्ञां विजयमूलमित्यन्वयः।
२मन्त्रिधुरैःच।
॥ २।१००।१५,१६ ॥ ॥ २।१००।१७ ॥
कच्चिन्निद्रावशं नैषीः कच्चित् काले प्रबुध्यसे।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ १७ ॥
अर्थनैपुणंनैपुणंसामर्थ्यंउपायः अर्थप्राप्त्युपाय इत्यर्थः ॥
निद्रावशमिति कथनात् अजितनिद्रत्वं विवक्षितम्।
॥ २।१००।१७ ॥ ॥ २।१००।१८ ॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिस्सह।
कच्चित्ते १मन्त्रितो मन्त्रः राष्ट्रं न परिधावति ॥ १८ ॥
राष्ट्रं न परिधावति। लोकैर्न ज्ञायत इत्यर्थः ॥ १८ ॥
अन्या मध्यस्थचिन्ता हि विमर्शाभ्यधिकोदयाऽ (अयो। ११६) इति ह्युक्तम्। एवं बहुभिर्मन्त्रेणेऽपि ऐकमत्यं, मन्त्रगोपनं च दुर्लभं स्यात्। अतः परिमितैः मन्त्रणमभिमतम्।
१मन्त्रितेङ।
॥ २।१००।१८ ॥ ॥ २।१००।१९ ॥
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्।
क्षिप्रमारभसे १कर्तुं न दीर्घयसि, राघव ॥ १९ ॥
लघुमूलंअल्पयत्नसाध्यम्। महोदयंमहाफलम्। न दीर्घयसिदीर्घकालविलम्बं न करोषि ॥ १९ ॥
१कर्मच।
॥ २।१००।१९ ॥ ॥ २।१००।२० ॥
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः।
विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ २० ॥
कृतरूपाणिकृतकल्पानि। सुकृतान्येव विदुः, कृतरूपाणि वा विदुः, न तु कर्तव्यानि विदुः कच्चित् ॥ २० ॥
सुकृतान्येवसुनिष्पन्नान्येव ৷৷। कृतरूपाणिकृतप्रायाणि वा৷৷। मन्त्रैण कर्तव्यतया निश्चितानि करणात् पूर्वं न विदुरित्यर्थःगो।
॥ २।१००।२० ॥ ॥ २।१००।२१ ॥
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः।
त्वया वा तव वाऽमात्यैः बुध्यते, तात मन्त्रितम् ॥ २१ ॥
ये चापि मन्त्राः त्वया अमात्यैश्च अपरिकीर्तिता अपि युक्त्याअर्थापत्त्या तर्कैःअनुमानैर्वा परैर्न बुध्यते कच्चित्। परैर्मन्त्रितं तु त्वया तवामात्यैश्च युक्त्यादिभिः बुध्यते कच्चित् ॥ २१ ॥
मन्त्रितं कार्यं त्वया वा, तवामात्यैर्वा हेतुभिः, तर्कैःऊहैः, युक्त्या वाअनुमानेन वा, ये चाप्यपरिकीर्तिताःइङ्गितादयः तैर्वा न बुध्यते कच्चित्, परैरिति शेषः। भवान् भवदीयामात्याश्च मन्त्रितार्थविषयपराभ्यूहस्थानानि सूक्ष्माण्यपि स्थगयन्ति कच्चिदित्यर्थःगो।
॥ २।१००।२१ ॥ ॥ २।१००।२२ ॥
कच्चित् १सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्श्रेयसं महत् ॥ २२ ॥
अर्थकृच्छ्रेषुकार्यसङ्कटेषु। महन्निःश्रेयसं कुर्यादिति। अव्यभिचरितनिस्तरोपायबोधनेनेति शेषः ॥ २२ ॥
मूर्खाणां सहस्रात्मूर्खसहस्त्रापेक्षया।
१सहस्त्रैर्मूर्खाणांच।
॥ २।१००।२२ ॥ ॥ २।१००।२३२५ ॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः।
अथवाऽप्ययुतान्येव नास्ति तेषु सहायता ॥ २३ ॥
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।
राजानं १राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २४ ॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः।
जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २५ ॥
योजिता इति। कार्यार्थमिति शेषः ॥ २५ ॥
अन्वयेनोक्तं व्यतिरेकेन द्रढयतिसहस्राण्यपीति।
राजमात्रंराजतुल्यमिति यावत्।
१राजपुत्रंच।
॥ २।१००।२३२५ ॥ ॥ २।१००।२६ ॥
अमात्यानुपधातीतान् पितृपैतामाहान् शुचीन्।
श्रेषाठान् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु ॥ २६ ॥
उपधातीतान्उपाधिप्रयुक्तसंश्रयरहितान्। सन्तानपरंपरया स्वाभाविकराजसंश्रयान्। तदेवोक्तंपितृपैतामहानिति ॥ २६ ॥
उपधातीतान्स्वव्यतिरिक्तेष्वर्थाद्युपाधिरहितान्। यद्वा, सुपरीक्षाऽतीतान्, उपधा सुपरीक्षा स्यात्ऽ इति वैजयन्ती। श्लाघ्यवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य अन्तःपुरप्रेषितं, परराजप्रेषितं इति प्रलोभ्य परीक्षां कुर्वन्ति राजानः, तामतीतानित्यर्थःगो। उपधाउत्कोचः, तमतीतान्ति। उपधा धर्माद्यैः यत् परीक्षणम्ऽ इत्यमरः।
॥ २।१००।२६ ॥ ॥ २।१००।२७ ॥
कच्चिन्नोग्रेण दण्डेन १भृशमुद्वेजितप्रजम्।
२राष्ट्रं तवानुजानन्ति मन्त्रिणः, कैकयीसुत ॥ २७ ॥
उद्वेजितप्रजं सत् नानुजानन्तिनानुसन्दधते कच्चित् ॥ २७ ॥
तव उग्रेण दण्डेन उद्वेजितप्रजंपीडितप्रजायुक्तं, राष्ट्रंराज्यं, मन्त्रिणः नानुजानन्तिनानुमन्यन्ते कच्चित्। राजानं त्वां उग्रदण्डात् निवर्तयन्ति कच्चिदित्यर्थःगो।
१भृशमुद्वेजिताः प्रजाःच।
२राष्ट्रेच।
॥ २।१००।२७ ॥ ॥ २।१००।२८ ॥
कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा।
१उग्राप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २८ ॥
नावजानन्तीति। अयाज्योऽयमिति तावत्ककिञ्चित्पापानुसन्धानेन तु यथा साक्षात्पतितमुपेक्षन्ते, तथा त्वां नोपेक्षन्ते कच्चित्। तत्र दृष्टान्तःउग्रेत्यादि। स्त्रियःकुलस्त्रियः। उग्राउग्राख्यहीनजातिस्त्री, तत्प्रतिग्रहीतारं, तां च कामयमानंमुगभाव आर्षः, तन्नित्यसक्तमित्यर्थः, पतिमिति शेषः ॥ २८ ॥
उग्रप्रतिग्रहीतारमिति उपमानोपमेययोः साधारणविशेषणम्। उग्रेणदण्डोपायेनादण्ड्येभ्यो धनग्रहणं
कुर्वन्तं त्वां उग्रप्रतिग्रहीतारंउग्रेण दुर्दानेन धनप्रतिग्रहीतारं पतितंयष्टुकामं पतितं याजकाःऋत्विज इव। उग्रेण कर्मणाबलात्कारेण प्रतिग्रहीतारं कामयानं पुरुषं स्त्रिय इवगो। उग्रेण कर्मणाबलात्कारादिना प्रतिग्रहीतारं कामयानंकामुकं स्त्रिय इव याजकाः पतितमिव च नावजानन्ति, प्रजा इति शेषः। ৷৷৷৷ परे तुउग्रःशिवः, तत्प्रतिग्रहीतारंअल्पपुंस्त्वं तत्प्रतिग्रहीतुः ईदृशषण्डतायाः कर्मविपाकशास्त्रे उक्तेरित्याहुःति। प्रजातिक्रमणं उग्रकरग्रहणं च त्वयि नास्ति कच्चिदिति भावःती।
१उग्रङ। च। झ।
॥ २।१००।२८ ॥ ॥ २।१००।२९ ॥
उपायकुशलं वैद्यं १भृत्यं सन्दूषणे रतम्।
शूरमैश्वर्यकामं च यो न हन्ति स २वध्यते ॥ २९ ॥
उपायकुशलंराज्ञः सकाशादर्थग्रहणाय व्याध्युल्बणोपायकुशलं वैद्यंभिषजम् सन्दूषणेस्वामिदूषणे रतं भृत्यंसेवकं ऐश्वर्यकामंराजानमपच्छिद्य तदैश्वर्यकामं शूरंप्रभुं च यो न हन्ति, स राजा तैरेव भिषगादिभिर्हन्यते। लोकप्रसिद्धश्चायमर्थः ॥ २९ ॥
उपायेषुसामाद्युपायेषु कुशलंनिपुणम्। वैद्यंकणिकोक्तकुटिलनीतिविद्याविदम्। [चाणक्याद्युक्तकुटिलनीतिशास्त्रविदम्]। भृत्यसन्दूषणे रतंअन्तरङ्गभृत्यानां सन्दूषणेअसद्दोषोद्घाटने तद्विघटने रतम्। शूरंराजहिंसनेऽपि निर्भयं, ऐश्वर्यकामंक्रमेण राजैश्वर्याक्रमणकामं चगो।
१भृत्यसन्दूषणेङ।
२हन्यतेच।
॥ २।१००।२९ ॥ ॥ २।१००।३०,३१ ॥
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ ३० ॥
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः।
१दृष्टापदानविक्रान्ताः त्वया सत्कृत्य मानिताः ॥ ३१ ॥
दृष्टंवृत्तरणानुभूतं अपदानंशौर्यं,तज्जं विक्रान्तंपरयोधाभिभवनं येषां ते तथा ॥ ३१ ॥
हृष्टःराजकृतसत्कारेण सन्तुष्टः। यद्वाधृष्ट इति च्छेदः धृष्टःव्यवहारेषु प्रगल्मः। तादृशं पूर्वसेनापतिं विहाय अतादृशमन्यं न परिगृहीतवानसि कच्चिदित्यर्थःगो।
दृष्टंसाक्षात्कृतं अपदानंपूर्ववृत्तं (अपदानं कर्म वृत्तंऽ इत्यमरः) पौरुषं येषां ते तथोक्ताःगो।
१दृष्टापदानाःङ।
॥ २।१००।३०,३१ ॥ ॥ २।१००।३२ ॥
कच्चित् बलस्य भक्तं च वेतनं च यथोचितम्।
सम्प्राप्त १कालं दातव्यं ददासि न विलम्बसे ॥ ३२ ॥
भक्तंदैनन्दिनदेयान्नम्। वेतनंप्रतिमासदेयं सेवाभृतिः ॥
१कालेङ।
ददासि, न विलम्बसे कच्चित्कालातिक्रमणं विना ददासि कच्चित्गो।
॥ २।१००।३२ ॥ ॥ २।१००।३३ ॥
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः।
१भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥
भृताःकर्मणि क्तः, भृत्या इति यावत्। दुष्यन्तिविनाशयन्ति कार्याणि। स इति। भृत्यकोप इति यावत् ॥ ३३ ॥
भृताःभृतिजीविनः, भटा इति यावत्गो।
१भर्तुरप्यतिकुप्यन्तिच।
यतः कुप्यन्ति, अत एव दुष्यन्ति क्रुद्धो हन्यात् गुरूनपिऽ इति हि नीतिः।
॥ २।१००।३३ ॥ ॥ २।१००।३४ ॥
कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः।
कच्चित् प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः ॥ ३४ ॥
कुलपुत्राःकुलदासाः। प्रधानतःप्राधान्येनअन्तरङ्गतया ॥
राज्ञः अङ्गरक्षकाः वंशपरम्परयाऽऽगताः त्वां अनुरक्ताः कच्चित्। तादृश ते त्वदर्थं प्राणानपि त्यक्तुं समाहिता वर्तन्ते कच्चिदिति भावः। अङ्गरक्षकाणामयं धर्मः सुप्रसिद्धः।
कुलपुत्राःज्ञातयःति क्षत्त्रियकुलप्रसूताः, ज्ञातय इति वागो।
प्रधानतःप्रधानाः सार्वविभक्तिकः तसिःगो।
॥ २।१००।३४ ॥ ॥ २।१००।३५ ॥
कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान्।
यथोक्तवादी दूतस्ते कृतः, भरत पण्डितः ॥ ३५ ॥
जानपदःस्वजनपदे भवः। विद्वान्सर्वशास्त्रवित्। प्रतिभानवान्प्रत्युत्पन्नमतिः। यथोक्तवादीयथोक्तसन्देशप्रतिसन्देशवादी। पण्डितःपरिच्छेत्ता। दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम्। इङ्गिताकारचेष्टाज्ञं शुचिं दक्षं कुलोद्भवम् ॥ ऽ इति मनुः ॥ ३५ ॥
उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदनशीलः कार्योपयोगितया बहुमुखं व्याहरन्नपि स्वाम्युक्तमजहदेव व्यवहर्तेति यावत्गो।
॥ २।१००।३५ ॥ ॥ २।१००।३६ ॥
कच्चिदष्टा १दशाख्येषु स्वपक्षे दश पञ्च च।
त्रिभिस्त्रिभिरविज्ञातैः वेत्सि तीर्थानि २चारकैः ॥ ३६ ॥
कच्चिदष्टादशेत्यादि। अष्टादशाख्येषुअष्टादशसङ्ख्यासङ्ख्येयेषु तीर्थेषु, स्वपक्षे पञ्चदशतीर्थानि, चकारात् परपक्षे सर्वतीर्थानि च। एकस्मिन्नेकस्मिन् विषये नियुक्तैः परस्परमविज्ञातैः त्रिभिस्त्रिभिः चारैःअपसर्पैः वेत्सि कच्चित्? तीर्थानि तुमन्त्रिपुरोहितसेनापतियुवराजाः, प्रतिहारी, अन्तर्वंशिकाः, कारागाराधिकृतः, अर्थसञ्चयकृत्, कार्यनियोक्ता, प्राड्विवाकाः, सेनाधिनायकः। पश्चात् कर्मान्तिकनगराध्यक्षौ धर्माधिकृच्च सभ्यश्च राष्ट्रान्तदुर्गदण्डपालास्तीर्थं दशाष्टौ च। तत्र प्रतिहारीदौवारिकः, स्त्री द्वार्द्वारं प्रतीहारःऽ। अन्तर्वंशिक इति। अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनःऽ। कारागारंबन्धनालयः। अर्थसञ्चयकृत्धनाध्यक्षः। कार्यनियोक्ताराजवचनस्य बहिस्सञ्चारकः। प्राड्विवाकःव्यवहारद्रष्टा। सेनाधिनायकःसेनाया जीवितभृतिदानाध्यक्षः। कर्मान्तिकाःकर्मान्ते वेतनग्राहिणः। नगराध्यक्षःपुरपरिपालकः। धर्माध्यक्षःधर्मासनाधिकृत्। सभ्यःसभ्यव्यवहारनिर्णेता। राष्ट्रान्तःइतरराष्ट्रान्तस्वराष्ट्रान्तःसीमान्तः। दुर्गंजलगिरिवनस्थलदुर्गम्। दण्डस्तु दुष्टदण्डनम्। पालाःउक्तपालनाधिकृताः। अत्र मन्त्रिपुरोहितयुवराजव्यतिरिक्ततीर्थपञ्चदशकं स्वदेशे विचार्यम्। परराष्ट्रे मन्त्रिपुरोहितयुवराजाश्च। एभिः स्वाधिकारः न्यायतः प्रवर्तते? अन्यायतो वा? इति विचारणीयमित्यर्थः ॥ ३६ ॥
अन्येषु परपक्षेषु अष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च। स्वकीयमन्त्रिपुरोहितयुवराजा न परीक्ष्याः, तेषां सदा स्वसमीपवर्तित्वेन तत्स्वभावस्य स्वेनैव ज्ञातत्वात्। तथोक्तं नीतिशास्त्रेचारान् विचारयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्डादीनविज्ञातानन्योन्यमितरैरपि। मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् इति। एषां तीर्थशब्दवाच्यत्वमुक्तं हलायुधे योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दशनेष्वपिऽ इतिगो। अधिकं तत्रैव द्रष्टव्यम् ॥
१दशान्येषुङ।
२चारणैःङ।
प्राड्विवाकःव्यवहारप्रष्टा। तल्लक्षणमुक्तं विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च। प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतःऽ इतिगो।
॥ २।१००।३६ ॥ ॥ २।१००।३७ ॥
१कच्चिद्ध्यापास्तान् अहितान् प्रतियातांश्च २सर्वदा।
दुर्बलाननवज्ञाय वर्तसे, रिपुसूदन ॥ ३७ ॥
अपास्तान्निष्कासितान्। प्रतियातान्पुनः आगतान्, अवज्ञयादुर्बलोऽयमहितः किमस्माकं करिष्यति? इति उपेक्षां न करोषि कच्चित्? ॥ ३७ ॥
१कच्चिद्व्यपास्तान्ङ।
२सर्वशःङ।
॥ २।१००।३७ ॥ ॥ २।१००।३८ ॥
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे।
अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ ३८ ॥
लोकायतिकान्लोकःसर्वलोकसिद्धं प्रत्यक्षप्रमाणमेव अयनंप्रतिष्ठा अस्त्येषामिति,अत इनि ठनौऽ इति ठन्, चार्वाकशास्त्रवावदूकान् शुष्कतर्कवावदूकांश्च ब्राह्मणान् न सेवसे कच्चित्? ब्राह्मणत्वेऽपि तदपरिग्रहहेतुःअनर्थेत्यादि। हियस्मात् परलोकतत्साधनानुष्ठानाभावरूपानर्थप्रतिपादनकुशलाः। तर्हि कौशलमस्ति चेत् क्वचिदपि कथं न ते ग्राह्या इत्यतःबाला इति। अज्ञाः परमार्थवेदवादिसन्निधाविति सेषः। अत एव पण्डितमानिनःस्वयुक्त्यैव केवलमात्मनः पण्डितान् मन्यन्ते, नान्यत्र ॥ ३८ ॥
लोकेष्वायतंविस्तृतं प्रत्यक्षप्रमाणं यद्वा लोकायतशब्दाभ्यां प्रत्यक्षमनुमानं चोच्यते। लोकायतिकाःनास्तिका बौद्धचार्वाकादयःगो। एतेषां ब्राह्मणत्वं च जन्मतः।
॥ २।१००।३८ ॥ ॥ २।१००।३९ ॥
धर्मशास्त्रेषु मुख्येषु १विद्यमानेषु दुर्बुधाः।
बुद्धिमान्वीक्षकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ ३९ ॥
अथ द्वितीयं लोकायतानामपरिग्राह्यत्वे हेतुमाहधर्मेत्यादि। मुख्यप्रमाणभूतेषु श्रुतिस्मृतिलक्षणधर्मशास्त्रेषु विद्यमानेष्वपि केचन दुर्बुधाःदुर्विद्वांसः आन्त्रीक्षकीं आन्वीक्षकी दण्डनीतिः तर्कविद्यार्थशास्त्रयोःऽ, शुष्कतर्कविद्याजनितां बुद्धिमवलम्ब्य निरर्थंनिष्प्रयोजनमेवमिथ्याप्रयोजनमेव प्रवदन्तीति। न हि षोडशपदार्थज्ञानान्मोक्ष इति काचित् श्रुतिः स्मृतिर्वाऽस्ति। नापि च तत्प्रतिपाद्यजडात्मनः ईश्वरात् भिन्नस्य ज्ञानाद्वा मुक्तिरित्यस्ति। नापि चात्मा जडः, नापीशभिन्नः। नापि चेशो युज्यते तत्प्रलप्यमाननित्यज्ञानादिगुणकः जगन्निमित्तमिति। अयं प्रसङ्गः श्रीमत्पञ्चाशिकायामेवावधार्यः। एषामपि लोकायतत्वं सिद्धम्। प्रत्यक्षमेकं चार्वाकाः कणादः सौगतः पुनः। अनुमानं च तच्चेतिऽ। ननु न्यायैकदेशिभिः शब्दोऽप्यङ्गीक्रियते। तत् कथं आन्वीक्षकीबुद्धिमतां विशेषणं लोकायतत्वम्? एकदेशिभिरपि स्वदुर्मताविरुद्धधर्मादिभागः स्वीक्रियते। तद्विरुद्धचित्स्वभावात्मप्रत्यग्ब्रह्माभेदादिकं शाब्दं न स्वीक्रियत एव ॥ ३९ ॥
अनर्थकुशलत्वमेवोपपादयतिधर्मशास्त्रेष्विति। दुर्बुधाःवेदमार्गविपरीतबुद्धयः ते मुख्येषुतामसस्मृतिपुराणादिव्यावृत्तेषु सात्त्विकमहर्षिप्रणीतेषु सज्जनादरणीयेषु धर्मशास्त्रेषुधर्मप्रमापकशास्त्रेषु विद्यमानेषुतत्सम्प्रदायपरम्परया पठ्यमानेषु सत्सु आन्वीक्षकीं बुद्धिं प्राप्यशुष्कतर्कविषयां बुद्धिमास्थाय निरर्थंनिष्प्रयोजनं प्रवदन्तिगो। धर्मस्यातिसूक्ष्मत्वेन तर्कैः निर्णेतुमशक्यत्वेन, तर्कमवलम्ब्यैव वादकरणे अनर्थं एव पर्यवसानं स्यादिति भावः।
१वाच्यमानेषुङ।
॥ २।१००।३९ ॥ ॥ २।१००।४० ॥
वीरैरध्युषितां पूर्वं अस्माकं, तात पूर्वकैः।
सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ ४० ॥
वीरैरित्यादि। सत्यनामामिति। अयोध्येत्यन्वर्थनामवतीमित्यर्थः ॥
वीरैरित्यादिश्लोकत्रयमेकं वाक्यम्। पूर्वं एतादृशीं अयोध्यां समुदितां स्फीतां परिरक्षसि
कच्चित्प्राक्तनवैभवादेर्लोपो यथा न भवेत् तथा रक्षसि किम्?
॥ २।१००।४० ॥ ॥ २।१००।४१ ॥
ब्राह्मणैः क्षत्त्रियैर्वैश्यैः स्वकर्मनिरतैः सदा।
जितेन्द्रियैर्महोत्साहैः वृतामार्यैः सहस्रशः ॥ ४१ ॥
आर्यैरिति। ब्राह्मणैरित्याद्युक्तरूपैस्त्रैवर्णिकैरित्यर्थः ॥ ४१ ॥
॥ २।१००।४१ ॥ ॥ २।१००।४२ ॥
प्रासादैर्विविधाकारैः वृतां १वैद्यजनाकुलाम्।
कच्चित् २समुदितां स्फीतां अयोध्यां परिरक्षसि ॥ ४२ ॥
वैद्याःप्राग्व्याकृताः। समुदितांप्रसिद्धाम्। स्फीतांसमृद्धाम् ॥ ४२ ॥
१सैन्यङ।
२सुमुदितांङ।
॥ २।१००।४२ ॥ ॥ २।१००।४३ ॥
१कच्चिच्चित्यशतैर्जुष्टः सन्निविष्टजनाकुलः।
देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ ४३ ॥
अथ जनपदकुशलप्रश्नःकच्चिच्चित्येत्यादि। चित्यशतैःअश्वमेधान्तमहायागानेकचयनप्रदेशैः। सन्निविष्टैःसम्प्रतिष्ठितैः जनैः आकुलःनिबिडः तथा ॥ ४३ ॥
एतदादिश्लोकचतुष्टमेकं वाक्यम्। एतादृशो जनपदः सुखं वसति कच्चिदित्यन्वयः। अत्र आदावन्ते च कच्चिच्छब्दप्रयोगात् प्रतिविशेषणं प्रत्येकं प्रश्नो गम्यते। आदरातिशयाच्च तथा प्रश्न इति गोविन्दराजः।
१कच्चिच्चैत्यङ। च।
॥ २।१००।४३ ॥ ॥ २।१००।४४ ॥
१प्रभिन्ननरनारीकः समाजोत्सव २शोभितः।
सुकृष्टसीमा ३पशुमान् हिंसाभिः परिवर्जितः ॥ ४४ ॥
प्रभिन्नेति। प्रभेदःसन्तोषः। सुकृष्टः सीमाःतत्तत्क्षेत्रप्रदेशाः पशवश्च यस्मिन् स तथा ॥ ४४ ॥
प्रभिन्नो गर्जितो मत्तःऽ, मत्तनरनारीकः, अतिपुष्टहृष्टनरनारीक इति यावत्।
१प्रहृष्टङ। च।
२सेवितःङ।
३शुचिमान्ङ।
॥ २।१००।४४ ॥ ॥ २।१००।४५ ॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः।
परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ ४५ ॥
अदेवमातृक इति। नदीमातृक इत्यर्थः। खनिःस्वर्णरत्नाद्याकरः ॥ ४५ ॥
पूर्वार्धे दुष्टमृगोपलक्षकश्वापदप्रयोगात् भयमत्र चोरादिभ्यो विवक्षितम्।
॥ २।१००।४५ ॥ ॥ २।१००।४६,४७ ॥
विवर्जितो नरैः पापैः मम पूर्वैः सुरक्षितः।
कच्चिज्जनपदः स्फीतः सुखं वसति, राघव ॥ ४६ ॥
कच्चित्ते दियताः सर्वे कृषिगोरक्षजीविनः।
वार्तायां १संस्थितः, तात २लोको हि सुखमेधते ॥ ४७ ॥
वार्तायांकृषिगोरक्ष्यवाणिज्यक्षेत्रं वार्तेत्युदाहृतम्ऽ। लोकःकृष्यादिजीविलोकः वार्तायां कृष्यादौ संस्थितःप्रवृत्तः सन् सुखमेधते कच्चित्? ॥ ४७ ॥
वार्ता तु जीवनम्ऽ कृषिगोरक्षादिजीवनोपायनिष्ठो हि लोकः सुखं वसेत्।
१साम्प्रतंच।
२लोकोऽयंच।
॥ २।१००।४६,४७ ॥ ॥ २।१००।४८ ॥
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्।
रक्ष्या हि राज्ञा धर्म्येण सर्वे विषयवासिनः ॥ ४८ ॥
तेषांकृष्यादिजीविनां गुप्तिपरिहारैःगुप्त्यर्थनियुक्तैः राजमनुष्यैः क्रियमाणैः तस्करपीडादुर्बलपीडादुर्व्यवहाराद्यनर्थपरिहारैः हेतुभिः तेत्वया भरणं कृतं कच्चित्? ॥ ४८ ॥
गुप्तिपरीहारैःइष्टप्रापणानिष्टनिवारणैःगो।
॥ २।१००।४८ ॥ ॥ २।१००।४९ ॥
कच्चित् स्त्रियः सान्त्वयसि १कच्चित्तास्ते सुरक्षिताः।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ ४९ ॥
तास्त इति। ताः स्त्रियः त्वयेत्यर्थः। न श्रद्दधास्यासामिति। वचनादिकं, वास्तवमिति शेषः। आसां गुह्यं न भाषस इति। अप्रकाश्यवृत्तान्तं इष्टेति मत्वा न भाषसे कच्चित्? ॥ ४९ ॥
स्त्रियःस्वस्त्रियःगो।
१सच्चित्ताश्चङ
गुह्यं न भाषसे, ताभ्य इति शेषः, स्त्रीणामतिचञ्चलमतित्वेन रहस्यभेदप्रसङ्गादिति भावःगो।
॥ २।१००।४९ ॥ ॥ २।१००।५० ॥
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः।
कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ ५० ॥
नागवनंगजोत्पत्तिकाननम्। धेनुकाःकामधेनवः, स्वार्थे कः। गणिकाश्वानामिति। करिण्यःगणिकाः,
वेश्याकरिण्योर्गणिकाऽ वैजयन्ती, करिण्यादिसम्पादनविषये तृप्तिं नाप्नोषि कच्चित्? ॥ ५० ॥
धेनुकाःकरिण्यः, करिणी धेनुका वशाऽ इत्यमरः। गणिकाश्वानांगणिकाःकरिण्यः, वेश्याकरिण्योर्गणिकाऽ इति वैजयन्तीगो। यद्यपि पूर्वार्धे अश्वा न निर्दिष्टाः, अथापि ते अपि उपलक्षिता इत्यभिप्रायेण उत्तरार्धे गजकरिणीअश्वाःनिर्दिष्टाः।
॥ २।१००।५० ॥ ॥ २।१००।५१ ॥
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्।
उत्थायोत्थाय पूर्वाह्णे, राजपुत्र १महापथे ॥ ५१ ॥
दर्शयस इति। सभायां स्थित्वाऽऽत्मानमिति शेषः। उत्थायेति। अन्तःकक्ष्येभ्य इति शेषः ॥ ५१ ॥
प्रतिदिनं राजवीथ्यां विभूषितं आत्मानं प्रजानुरागाय दर्शयसे कच्चित्।
महापथेसभायामिति यावत्गो।
१महारथङ।
॥ २।१००।५१ ॥ ॥ २।१००।५२ ॥
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया।
सर्वे वा पुनरुत्सृष्टाः मध्यमेवात्र कारणम् ॥ ५२ ॥
अविशङ्कयानिर्भयतया प्रत्यक्षाःत्वत्सन्निधिं प्राप्ताः न कच्चित्? अथवा सर्वे कर्मान्तिकाः पुनरुत्सृष्टाःदर्शनाप्रदानेन परित्यक्ता न? अत्रकर्मान्तिकविषये मधह्यमेव नातिदर्शनात्यदर्शनयोर्मध्यमरीत्याश्रयणमेव कारणंअर्थप्राप्तिकारणम् ॥ ५२ ॥
कर्मकाराः सर्वे स्वातन्त्र्येण भवन्तं नोपसर्पन्ते कच्चित्, तथाऽपि भवता ते अतीवौदासीन्येन विलोकिता न कच्चित्। मध्यमरीतिरनुस्रियते वाइति भावः।
॥ २।१००।५२ ॥ ॥ २।१००।५३,५४ ॥
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः।
यन्त्रैश्च १परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ५३ ॥
आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः।
अपात्रेषु न ते कच्चित् कोशो गच्छति, राघव ॥ ५४ ॥
आयःधनागमः। व्ययःभोगबलादिरक्षायै त्यागः। अपात्रेषुनटगायकादिषु ॥ ५४ ॥
अत्र कामन्दकःऔदकं पार्वतं वार्क्षं ऐरिणं धान्वनं तथा। जलान्तायुधयन्त्राढ्यं वीरयोधैरधिष्ठितम्। गुप्तिप्रधानमाचार्याः दुर्गं समनुमेनिरेऽ इति गो।
१प्रतिपूर्णानिच।
अपात्रेषुनटविटगायकेषु, तेभ्योऽपरिमितं न देयमिति भावःगो। केवलक्रीडाव्यसनवान् मा भवेति यावत्।
॥ २।१००।५३,५४ ॥ ॥ २।१००।५५ ॥
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ ५५ ॥
व्यय इति। आयात् न्यून इति शेषः ॥ ५५ ॥
धनव्ययस्योचितं पात्रमाहदेवतार्थ इति।
॥ २।१००।५५ ॥ ॥ २।१००।५६ ॥
कच्चिदार्यो विशुद्धात्माऽऽक्षारित १श्चापकर्मणा ।
२अपृष्टः शास्त्रकुशलैः न लोबात् वध्यते शुचिः ॥ ५६ ॥
कच्चिदार्य इत्यादि। आर्यःसाधुः विशुद्धात्माऽपि सन् अपकर्मणास्तेयागम्यागमनादिदोषेण आक्षारितःअभिशस्तः शास्त्रकुशलैःधर्मशास्त्रनिष्णातैः अपृष्टस्सन् लोभात् शुचिरपि सन् न वध्यतेन दण्ड्यते कच्चित्? ॥ ५६ ॥
१श्चोरकर्मणाङ।
यदृच्छया चोरकर्मणा (पाठान्तरं) आक्षारितःअभिशस्तःगो। अत्र विशुद्धात्मा इत्यनेनात्मशुद्धिः, शुचिः इत्यनेन प्रकृतिशुद्धिश्च कथिता, तेन न पौनरुक्त्यम्।
२अदृष्टःच।
लुभ विमोहनेऽ इति धातोःव्यामोहादित्यर्थो वा।
॥ २।१००।५६ ॥ ॥ २।१००।५७ ॥
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः।
कच्चिन्न मुच्यते चोरः धनलोभात्, नरर्षभ ॥ ५७ ॥
गृहीत इत्यादि। सकारणःचारत्वेन ग्रहणकारणसहितस्सन् दृष्टः, अत एव गृहीतः पालकैः पृष्टश्चैव किंकिमचूचुर इति कृतप्रश्नश्च चोरः धनलोभात्चौरेणैवोत्कोचतया दीयमानधनलोभात् पालकैः न मुच्यते कच्चित्? ॥ ५७ ॥
॥ २।१००।५७ ॥ ॥ २।१००।५८ ॥
१व्यसने कच्चिदाढ्यस्य २दुर्गतस्य च, राघव
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ५८ ॥
व्यसन इत्यादि। आढ्यस्यधनिनः दुर्गतस्य वा व्यसनेक्षेत्रवित्तादिविनाशकृच्छ्रे राजकीयैकनिवर्त्ये तयोः अर्थं कार्यं बहुश्रुताः तवामात्याः विरागाःधनस्पृहारहितास्सन्तः धनिदरिद्राविशेषं पश्यन्तिविचारयन्ति कच्चित्? ॥ ५८ ॥
आढ्यदरिद्रयोः परस्परं व्यवहारे प्राप्ते तव अमात्याः, आढ्यप्रभावापरवशाः। दरिद्रदुर्गतिदीना वा भूत्वा माध्यस्थ्यं अत्यजन्तः धर्ममात्रं पश्यन्ति कच्चिदिति भावः।
१व्यसनैःङ।
२दुर्बलस्यच।
अर्थंव्यवहारं, अर्थः स्यात् विषये मोक्षे शब्दवाच्ये प्रयोजने। व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषुऽ इति वैजयन्तीगो।
॥ २।१००।५८ ॥ ॥ २।१००।५९ ॥
यानि मिथ्याभिशस्तानां १पदन्यासानि, राघव
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमुशासतः ॥ ५९ ॥
यानीत्यादि। मिथ्याभिशस्तानांराज्ञा च विचार्यानिवर्तितमिथ्याभियोगानांप्रजानां यानि पदन्यासानि सन्ति, छान्दसं नपुंसकं, तानि प्रीत्यर्थंराजभोगजप्रीतिप्राप्तिमात्रप्रयोजनायानुशासतो राज्ञः पुत्रपशून् घ्नन्ति ॥ ५९ ॥
पूर्वापरानुरूप्यादिपरिशीलने अस्य श्लोकस्य ऽकच्चदार्यो विशुद्धात्माऽ इति श्लोकानन्तर्ये औचित्यातिशयः प्रतिभाति।
१पतन्त्यस्राणिपतन्त्यश्रूणिङ।
स्वेष्टसम्पत्त्यर्थमिति यावत्।
॥ २।१००।५९ ॥ ॥ २।१००।६० ॥
कच्चित् वृद्धांश्च बालांश्च १वद्यमुख्यांश्च, राघव
दानेन मनसा वाचा त्रिभिरेव बुभूषसे ॥ ६० ॥
वैद्यमुख्याःभिषक्छ्रेष्ठाः। त्रिभिरेवेति। त्रिभिः प्रत्येकमेव बुभूषसेसम्भाषितुमिच्छसि? अन्तर्भावितणिः ॥ ६० ॥
१वैद्यान् मुख्यांश्चच।
दानेनअभिमतवस्तुप्रदानेन मनसास्नेहेन वाचासान्त्ववचनेन एतैस्त्रिभिः बुभूषसेप्राप्तुमिच्छसि वशीकर्तुमिच्छसि कच्चिदिति यावत्। भू प्राप्तैगो।
॥ २।१००।६० ॥ ॥ २।१००।६१ ॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवताऽतिथीन्।
१चैत्यांश्च सर्वान् २सिद्धार्थान् ३ब्राह्मणांश्च नमस्यसि ॥
चैत्यान्चतुष्पथान्। सिद्धार्थान्विद्याव्रततपोभिः कृतार्थितजन्मनः ॥ ६१ ॥
चैत्यान्देवतावासभूतचतुषपथस्थमहावृक्षान्गो। ति।
१वैद्यांश्चङ।
२सिद्धांश्चङ।
३ब्राह्मणांश्चानुमन्यसेङ।
॥ २।१००।६१ ॥ ॥ २।१००।६२ ॥
कच्चिदर्थेन वा धर्मं अर्यं धर्मेण वा पुनः।
उभौ वा १प्रीतिलोभेन कामेन च न बाधसे ॥ ६२ ॥
अर्थेनेत्यादि। अर्थप्राप्तिरूपेण हेतुना धर्मं न बाधसे कच्चित्धर्मं हित्वा अर्थं न गृह्णासि कच्चिदित्यर्थः। तथा धर्मेणधर्मप्राप्तिहेतुना कुटुम्बनिर्वाहापेक्षितमर्थंवित्तं न बाधसेधर्मार्थावुभावपि प्रीतिलोभेन विषयसन्तोषलोभेन च न बाधसे? गणिकादिसक्तौ उभयमपि नश्यति ॥ ६२ ॥
प्रीतिलोभेन सुखाभिलाषेण हेतिना कामेनगो। विषयसन्तोषलोभरूपेण कामेनति। धर्मकामार्थान् परस्परावबाधेन सेवसे कञ्चिदिति यावत्।
१प्रीतियोगेनङ।
॥ २।१००।६२ ॥ ॥ २।१००।६३ ॥
कच्चिदर्थं च धर्मं च कामं च, जयतां वर
विभज्य काले, कालज्ञ सर्वान्, १वरद सेवसे ॥ ६३ ॥
विभज्य सेवस इति। धर्मस्य नित्यदानादिधर्मसेवायाः कालः प्रातः। अर्थस्य तु तदनन्तरं आस्थान्यां राज्यविचारकालः सेवाकालः। निशि यामात्परः कामसेवाकालः ॥ ६३ ॥
प्रातर्दानादिधर्मकालः, तदनन्तरं, आस्थान्यां राज्यविचारेणार्थकालः, रात्रौ कामकाल इत्येवं विभज्य सेवसे कच्चित्गो। पूर्वश्लोके न बाधसेऽ इति, अत्र सर्वान् वरद सेवसेऽ इति च कथनात्पूर्वश्लोके परस्परबाधाभावः, अत्र भ्रान्तिदौर्बल्यादिनाऽन्यतमस्यात्यागश्च विवक्षित इति प्रतिभाति।
१भरतङ।
॥ २।१००।६३ ॥ ॥ २।१००।६४ ॥
कच्चित्ते १ब्राह्मणाः शर्म सर्वशास्त्रार्थ २कोविदाः।
३आशंसन्ते, महाप्राज्ञ पौरजानपदैः सह ॥ ६४ ॥
शर्म जोषं च शं सुखम्ऽ, धर्म आशंसन्तेसुखं प्रार्थयन्ते इत्यर्थः ॥ ६४ ॥
१ब्राह्मणःच।
२कोविदःच।
३आशंसतेच।
॥ २।१००।६४ ॥ ॥ २।१००।६५६७ ॥
नास्तिक्यमनृतंक्रोधं प्रमादं दीर्घसूत्रताम्।
१दर्शनं ज्ञानवतां आलस्यं पञ्चवृत्तिताम् ॥ ६५ ॥
एकचिन्तनमर्थानां अनर्थज्ञैश्च मन्त्रणम्।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ ६६ ॥
२मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च ३सर्वशः।
कच्चित् त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ ६७ ॥
नास्तिकस्य भावःनास्तिक्यम्। दीर्घसूत्रताप्रक्रान्तकार्यविलम्बनम्, दीर्घसूत्रश्चिरक्रियःऽ। ज्ञानवतांविदुषां अदर्शनम्। आलस्यंनित्यकृत्यालस्यम्। नृत्तादिभिः चक्षुरादिपञ्चेन्द्रियवृत्तितृप्तिपरतापञ्चवृत्तिता। अर्थानांराज्यप्रयोजनानां एकचिन्तनंअमन्त्रिसहायतया चिन्तनम्। निश्चितानांमन्त्रिभिः सह संमन्त्र्य निश्चितानां अनारम्भःअनुद्यौगः। मङ्गलाद्यप्रयोगःमङ्गलस्य आदौप्रातःकाले अप्रयोगःअननुष्ठानम्। सर्वशः प्रत्युत्थानमिति। यं कञ्चन प्रत्युत्थानायोग्यं पुरुषमुद्दिश्यापि प्रभावं मत्वा चापल्यादासनाच्चलनमित्यर्थः ॥ ६५६७ ॥
क्रोधःअस्थानकालयोः। दीर्घसूत्रताकार्यविलम्बः, आलस्यं तु कार्यघातकं करणानौन्मुख्यम्। मातापित्राचार्यब्राह्मणदुर्बलादिषु कृतापराधेष्वपि तद्विषयकं क्रोधम्गो।
१अमाननं च सूधूनांङ।
मङ्गलस्यप्रातर्दर्पणाद्यवलोकनस्य अप्रयोगंअननुष्ठानम्। मङ्गलान्यप्रयोगमिति पाठे अमङ्गलाचरणमित्यर्थः। सर्वतः प्रत्युत्थानंनीचस्यानीचस्याप्यागमने प्रत्युत्थानमित्यर्थः। यद्वा सर्वदिगवस्थितशत्रद्देशेन युग द्दण्डयात्रामिति वागो।
२मङ्गलस्याप्रयोगंङ। च।, मङ्गलान्यप्रयोगंङ।
३सर्वतःङ।
॥ २।१००।६५६७ ॥ ॥ २।१००।६८ ॥
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च, राघव ॥ ६८ ॥
दश पञ्चेत्यादि। दशवर्गादीन् बुध्वा यथावत् अनुमन्यसेअनुजानासि इत्यग्रेण सम्बन्धः। दसवर्गस्तु मृगयाऽक्षौ दिवास्वप्नः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाऽट्या च कामजो दशको गुणःऽ इति मनुः। तौर्यत्रिकंनृत्तगीतवाद्यम्। वृथाऽट्यायथेच्छपर्यटनम्। शेषः स्पष्टः। पञ्चवर्गस्तु औदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा। इति दुर्गं पञ्चविधं पञ्चवर्गउदाहृतःऽ इरिणंऔषरं सर्वसस्यशून्यप्रदेश इत्यर्थः, तत्सम्बन्धी ऐरिणं दुर्गम्। तादृशस्थलमपि परेण गन्तुमशक्यत्वात् दुर्गम्। अयं तु उष्णकालमपेक्ष्य दुर्गो भवति। इतरद्दुर्गत्रयं सर्वप्रसिद्धम्। चतुर्वर्गस्तु साम दानं च भेदश्च दण्डश्चेति चतुर्गुणःऽ । सप्तवर्गस्तु स्वाम्यमात्याश्च राष्ट्रं च दुर्गकोशौ बलं सुहृत्। परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यतेऽ। अष्टवर्गस्तु पैशुन्यं साहसं द्रोहं ईर्ष्याऽसूयाऽर्थदूषणम्। वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि गुणोऽष्टकःऽ वाक्पारुष्यं परुषदण्डत्वं च द्वयम्। त्रिवर्गस्तु त्रिवर्गो धर्मकामार्थैःऽ इति। तथा उत्साहप्रभुमन्त्रशक्तित्रयोऽपि त्रिवर्गः। त्रिविद्यास्तु त्रयीवार्तादण्डनीतयः । त्रयीवेदाः, वार्ताकृष्यादित्रयम्, दण्डनीतिःनीतिशास्त्रम् ॥ ६८ ॥
श्लोकत्रयमेकं वाक्यम्।
कामन्दकस्तु प्रकारान्तरेण लोभक्रोधालस्यासत्यवचनत्वप्रमादभीरुत्वास्थिरत्वमौढ्यानयावमन्तृत्वानि दशवर्गःऽ इत्याशयेनाह लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः। मूढोऽनयोऽवमन्ता च सुखच्छेद्यो रिपुर्मतःऽ इतिगो।
यद्वा पञ्चवर्गःपञ्चविधवैराणि। अत्रापि कामन्दकः सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराधजम्। वैरप्रभेदनिपुणैः वैरं पञ्चविधं स्मृतम्ऽ इति गो।
यद्वा चतुर्विधमित्राणि वा। यथाऽह कामन्दकः औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम्। रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम्ऽ इति। यद्वा धनानां न्यायार्जनादिधर्मचतुष्टयं वा। तदपि तत्रैवोक्तम् न्यायेनार्जनमर्थस्य रक्षणं वर्धनं तथा। सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम्ऽ इति गो।
यद्वा स्वपक्षस्थजनावान्तरभेदसप्तकं वा। यथाऽह निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुजः कार्यसमुद्भवश्च। भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविधं वदन्तिऽ इति। यद्वा प्रधानव्यूहाः सप्त वा सप्तवर्गः। यथा श्येनः सूची च वज्रश्च शकटो मकरस्तथा। दण्डाख्यः पद्मनामा च व्यूहाः सप्त प्रधानतःऽ इतिगो।
ईर्ष्याअसहनाअसूयागुणेष्वपि दोषारोपः।
अष्टवर्गमाह कामन्दकः कृषिवाणिज्यदुर्गाणि सेतुः कुञ्चरबन्धनम्। खन्याकरकरादानं शून्यानां च निवेशनम्। अष्टवर्गमिमं साधु स्वस्थवृत्तो न लोपयेत्ऽ इतिगो।
यद्वा परेषां क्षयस्थानवृद्धयः क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्ऽ इत्यमरः। यद्वा अशक्यसमुद्यमादिकार्यव्यसनत्रयम्। यथाऽह कामन्दकः वस्तुष्वसक्येषु समुद्यमश्च शक्येषु मोहादसमुद्यमश्च।
शक्येष्वकालेषु समुद्यमश्च त्रिधैव कार्यं व्यसनं वदन्तिऽ इतिगो।
आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्चऽ इति विद्यायाश्चतुर्विधत्वेऽपि आन्वीक्षक्यास्त्रय्यामन्तर्भावः। यथाऽह कामन्दकः त्रयी वार्ता दण्डनीतिरिति विद्या हि मानवाः। त्रय्या एव विशेषोऽयमियमान्वीक्षकी मताऽ इतिगो।
॥ २।१००।६८ ॥ ॥ २।१००।६९ ॥
इन्द्रियाणां जयं बुध्वा षाड्गुण्यं दैवमानुषम्।
कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् ॥ ६९ ॥
इन्द्रियाणां जयमिति। जयोपायमित्यर्थः। इन्द्रियजयोपायो योग एव। षड्गुणा एव षाड्गुण्यम्। तत्तु सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयःऽ इति। द्वैधंशत्रुवर्गाणामुपजापः। दैवमानुषव्यसने तुहुताशनो जलं व्याधिः दुर्भिक्षं मरकस्तथाऽ इति। मरकःतन्निमित्तं मार्यादि। आयुक्तकेभ्यश्चोरेभ्य परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाच्च व्यसनं मानुषं त्विदम्ऽ। आयुक्ताःअधिकारिणः। अथ कृत्यवर्गं तु अलब्धवेतनो लुब्धः मानी चाप्यवमानितः। क्रुद्धश्च कोपितोऽकस्मात् तथा भीतश्च भीषितः। भेद्याः शस्त्रैस्तु चत्वारः नृपकृत्यमिदं मतम्ऽ। अथ विंशतिवर्गः राज्यस्त्रीस्थानदेशानां ज्ञातीनां च धनस्य च। अपहारो मदो मानः पीडा वैषयिकी तथा ॥ ज्ञानार्थशक्तिधर्माणां विघातो दैवमेव च। मित्रार्थयोश्चापमानः तथा बन्धुविनाशनम्। भूतानुग्रहविच्छेदः तथा मण्डलदूषणम्। एकार्थाभिनिवेशित्वं विंशतिर्विग्रहास्पदम्ऽ। अत्र अपहारशब्दः पूर्वैः षड्भिस्सह सम्बध्यते। विघातशब्दश्चतुर्भिः। अवमानशब्दस्य मित्रशब्देन अर्थशब्देन च सम्बन्धः। भूतानुग्रहविच्छेदःलोकानुग्रहराहित्यम्। अथ प्रकृतयः प्रकृतिमण्डलं च तथा। प्रकृतयस्तु अमात्या राष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः। एताः प्रकृतयस्तज्ज्ञैः विजिगीषोरुदाहृताःऽ इति कामन्दकः। मण्डलंद्वादशराजमण्डलम्। तत्तु अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। मित्रारिमित्रं मित्रं च विजिगीषोः पुरस्सराः ॥ पार्ष्णिग्राहः ततः पश्चात् आक्रन्दस्तदनन्तरः। आसारपृष्ठभागस्थौ मध्यमोदासिनाविति। आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संहतयोः व्यस्तयोर्निग्रहे प्रभुः। मण्डलात् बहिरेतेषां उदासीनो बलाधिकःऽ इति ॥ ६९ ॥
यथाऽह कामन्दकीये बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः। भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा। विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान्। अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः। दैवोपहतकश्चैव दैवचिन्तक एव च। दुर्भिक्षव्यसनोपेतो बलव्यसनसंकुलः। अदैशस्थो बहुरिपुः युक्तोऽकालेन यश्च यः। सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी। एतैः सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम्ऽ इतिगो। भीरवः जनाःमन्त्रिसेनापतियोधाः यस्य सःभीरुजनकः। दैवर्चितकःदैवमेव सर्वं कुर्यादिति मत्वा पुरुषव्यापारमकुर्वाणः।
मण्डलं द्वादशविधराजात्मकम्। मध्यतो विजिगीषुः। तस्य शत्रुः मित्रं शत्रोर्मित्रं मित्रमित्रं शत्रुमित्रमित्रं चेति पुरोवर्तिनः पञ्च। पार्ष्णिग्राहः आक्रन्दः पार्ष्णिग्राहासारःआक्रन्दासारश्चेति पृष्ठभागस्थाश्चत्वारः। पार्श्वस्थो मध्यमः। तेषां बहिरवस्थित उदासीनश्चेति। तथा च कामन्दकः सम्पन्नस्तु प्रकृतिभिः महोत्साहः कृतश्रमः। जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः। अरिर्मित्रं अरेर्मित्रं मित्रमित्रमतः परम्। तथाऽरिमित्रमित्रं च विजिगीषोः पुरस्सराः। पार्ष्णिग्राहस्ततः पश्चात् आक्रन्दस्तदनन्तरः। आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः। अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संहतयोः व्यस्तयोर्निग्रहे प्रभुः। मण्डलाद्बहिरेतेषां उदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुःऽ इति। अत्र शत्रुमित्रशब्दे पुरस्तादव्यवहितानन्तरराष्ट्राधिपतिं एकव्यवहिताननन्तरराष्ट्राधिपतिं च क्रमेण वदतः। पार्ष्णिग्राहाक्रन्दशब्दावपि पृष्ठतस्तादृशौ क्रमेण वदतः, न तु प्रसिद्धशत्रुमित्रपरौ। आसारःसुहृद्बलम्। आसारः स्यान्मित्रबलेऽ इति रत्नमाला। मध्यमशब्देन च अरिविजिगीषोः व्यस्तयोः समस्तयोश्च निग्रहानुग्रहसमर्थः पार्श्वदेसस्थः कश्चित् उक्तेभ्योऽन्यो राजोच्यते। न तु मध्यवर्ती। उदानीनशब्देन च एतेषां सर्वेषामपि व्यस्तानां समस्तानां च निग्रहानुग्रहसमर्थः कश्चिद्विप्रकृष्टदेशस्थो राजोच्यतेगो।
॥ २।१००।६९ ॥ ॥ २।१००।७० ॥
यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ।
कच्चिदेतान्, महाप्राज्ञ यथावदनुमन्यसे ॥ ७० ॥
यात्रायानम्। तत् पञ्चविधम्तथा कामन्दकः विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः। उपेक्ष्य चेति निपुणैः यानं पञ्चविधं मतम्ऽ इति। विगृह्य यानमित्यादिना यानशब्दस्य प्रत्येकं सम्बन्धः। बलवत्तया पार्ष्णिग्राहादिभिर्विगृह्य अन्यत्र शत्रौ यानं विगृह्य यानम्। तत्सन्धायान्यत्र यानंसन्धाययानम्। सामन्तैस्सह यानं सम्भूययानम्। अन्यं प्रति यातस्य अन्यं प्रति यदृच्छया यानंअन्यत्रयानम्। अन्यप्रसङ्गं कृत्वा बलवत्तया शत्रुमुपेक्ष्य तस्य मित्रेषु यानंउपेक्ष्ययानम्। दण्डविधानमिति। दण्डःसेना, तस्य विधानंव्यूहभेदविधानम् । दण्डो यमे मानभेदे लगुडे मदसैन्ययोःऽ। द्वियोनी सन्धिविग्रहौऽ इति । सन्धिविग्रहयानेत्यादिना षोढा पठितषड्गुणानां मध्ये सन्धिविग्रहौ इतरेषां चतुर्णां योनी। द्वैधीभावसमाश्रयौ सन्धियोनिकौ, यानासने तु विग्रहयोनिके इत्यर्थः। यथावदनुमन्यस इति। उक्तदशवर्गादीनां तत्त्वं ज्ञात्वा तत्र ये हेयाः, तान् जहासि? ग्राह्यन् गृह्णासि कच्चित्? इत्यर्थः ॥ ७० ॥
यद्वा दण्डःशत्रुनिरसनं, तस्य विधानंप्रकारः। यात्रा च दण्डविधानं च यात्रादण्डविधानं प्रकृतिमण्डलं इत्यात्रात्र च एकवद्भावःगो।
सन्धिविग्रहयानासनद्वैवीभावसमाश्रयाः षड्गुणाः पृथक्पृथक् प्रतिपादिताः। इदानीं द्वैगुण्यमतावलम्बनेन यानादीन् सन्धिविग्रहयोरन्तर्भाव्य वदति। यानासने विग्रहस्य स्वरूपम्, द्वैधीभावसमाश्रयौ सन्धे रूपम्। तत्र विजिगीषोः अरिं प्रति यात्रा यानम्, तयोर्मिथःप्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानं आसनम्। दुर्बलस्य प्रबलयोः द्विषतोः वाचिकमात्मसमर्पणं द्वैधीभावः। तथाऽह बलिनोर्द्विषतोर्मध्ये वाचाऽत्मानं समर्पयन्। द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितःऽ इति। अरिणा पीड्यमानस्य बलवदाश्रयणं समाश्रय इति विवेकः। तदुक्तं कामन्दकेन यानासने विग्रहस्य रूपं सद्भिरिति स्मृतम्। सन्धेश्च सन्धिमार्गज्ञैः द्वैधीभावसमाश्रयौऽ इतिगो।
॥ २।१००।७० ॥ ॥ २।१००।७१ ॥
मन्त्रिभिस्त्वं १यथोद्दिष्टं चतुर्भिस्त्रिभिरेव वा।
कच्चित् समस्तैर्व्यस्तैर्वा मन्त्रं मन्त्रयसे २मिथः ॥ ७१ ॥
यथोद्दिष्टमिति। नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थः। व्यस्तैःक्रमशःप्राप्तैः, तथा समस्तैःसम्भूयप्राप्तैर्वा मिथःरहसि मन्त्रं मन्त्रयसे कच्चित्? सर्वथा नैकाकी मन्त्रयसे? इति यावत् ॥ ७१ ॥
यथोद्दिष्टैःशास्त्रोक्तमन्त्रिलक्षणलक्षितैःगो।
१यथोद्दिष्टैःङ।
२बुधच।
॥ २।१००।७१ ॥ ॥ २।१००।७२ ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ ७२ ॥
वेदाः सफला इति अग्निहोत्रादिकर्मप्रवर्तनेनेति शेषः। ते क्रियाःआरब्धसन्धिविग्रहादिराजकार्याणि तत्तदुद्देश्यफलयुक्तानि कच्चित्? दाराः सफला इति। धर्मरतिप्रजालक्षणप्रयोजनवन्त इति यावत्। श्रुतंबहुश्रुतं, तस्य साफल्यं विनीतत्वम् ॥ ७२ ॥
क्रियन्तेसाध्यन्त इति क्रियाः धनानिगो।
॥ २।१००।७२ ॥ ॥ २।१००।७३ ॥
१कच्चिदेष्वेव ते बुद्धिः यथोक्ता मम, राघव
आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ ७३ ॥
एष्वेवेति। यथोक्ता मम धर्मबुद्धिः येष्वेव राजधर्मेषु प्रतिष्ठिता, तेष्वेव तवापि बुद्धिः प्रतिष्ठिता कच्चित्? यथोक्ता बुद्धिश्च आयुष्यादीर्घायुष्करी, तथा यशस्या ॥ ७३ ॥
१कच्चिदेषा चङ।
आयुष्या यशस्याधर्मकामार्थसंहिता उक्ता एषा बुद्धिः मम यथा, तथैव तव वर्तते कच्चित्गो।
॥ २।१००।७३ ॥ ॥ २।१००।७४ ॥
यां वृत्तिं वर्तते तातः यां च नः प्रपितामहाः।
तां वृत्तिं वर्तसे कच्चित् या च सत्पथगा शुभा ॥ ७४ ॥
सत्पथगाशिष्टानुष्ठानमार्गगा ॥ ७४ ॥
वर्ततेअवर्तिष्ट। यद्वा दशरथमरणस्याज्ञातत्वात् वर्तत इत्युक्तिः। पितामहस्य अजस्य चिरं राज्यपरिपालनाभावात् प्रपितामहा इत्युक्तम्गो। वस्तुतस्तुबहुवचनसत्त्वात् अस्मत्पूर्वे सर्वेऽपिऽ इत्यर्थः स्वरसः। वर्तत इत्यस्य च आकर्षः, बहुवचनान्ततया परिणामश्च।
॥ २।१००।७४ ॥ ॥ २।१००।७५ ॥
कच्चित् स्वादुकृतं भोज्यं एको नाश्नासि, राघव
कच्चिदाशंसमानेभ्यः मित्रेभ्यः सम्प्रयच्छसि ॥ ७५ ॥
स्वादुतया कृतंसिद्धंस्वादुकृतम्। आशंसमानेभ्यःस्नेहवृद्धिमपेक्षमाणेभ्यः मित्रेभ्यःस्निग्धेभ्यः ॥ ७५ ॥
आशंसमानेभ्यः, धनमिति शेषःगो।
॥ २।१००।७५ ॥ ॥ २।१००।७६ ॥
राजा तु धर्मेण हि पालयित्वा
१महामतिर्दण्डधरः प्रजानाम्।
अवाप्य कृत्स्नां वसुधां यथावत्
इतश्च्युतः स्वर्गमुपैति विद्वान् ॥ ७६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे शततमः सर्गः
इतश्च्युत इति। एतद्देहलोकाभ्यामित्यर्थः। तथा(७६)मानः सर्गः ॥ ७६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे शततमः सर्गः
पालयित्वा, महीमिति शेषः। महामतिःउक्तनीतिधर्मज्ञः। दण्डधरःयुक्तदण्डधरः। यथावत्पूर्वराजवत्। इतःअस्माल्लोकात्। च्युतःप्रारब्धकर्मावसाने मृत इत्यर्थः। विद्वान्शरीरभिन्नात्मज्ञानवान्गो।
१महीपतिच।
॥ २।१००।७६ ॥