०९९ श्रीरामदर्शनम्

एकोनशततमः सर्गः

[रामसङ्गमः] ॥ २।९९।१ ॥

निविष्टायां तु सेनायां उत्सुको भरतस्तदा।

जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १ ॥

अथ भरतस्य रादर्शनम्। निविष्टायामित्यादि। शत्रुघ्नमनुदर्शयन्निति। अनुर्लक्षणेऽ इति अनुः कर्मप्रवचनीयः शत्रुघ्नस्य रामाश्रमप्रत्यासत्तिचिह्नानि दर्शयन्नित्यर्थः ॥ १ ॥

॥ २।९९।१ ॥ ॥ २।९९।२ ॥

ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय।

इति त्वरितमग्रे सः जगाम १गुरुवत्सलः ॥ २ ॥

आनयेति सन्दिश्य स्वयं त्वरितः सन् अग्रे मार्गे जगाम न तु मातृ़ः प्रतीक्ष्य स्थित इत्यर्थः ॥ २ ॥

अनेन रामावासं निश्चित्य पश्चादानेष्यामिऽ इति धिया महासेनानिवेशे मातृ़र्निवेशितवानिति गम्यतेगो।

१भ्रातृवत्सलःङ।

॥ २।९९।२ ॥ ॥ २।९९।३ ॥

गच्छन्नेव महाबाहुः द्युतिमान् भरतस्तदा।

शत्रुघ्नं चाब्रवीत् हृष्टः तानमात्यांश्च सर्वशः ॥ ३ ॥

एवं त्वरितो गच्छन्नेन शत्रुघ्नादीनब्रवीदिति। एवमेव समीचीने पाङ्क्ते क्रमे स्थिते सुमन्त्रस्त्वपिऽ इत्यादिपञ्चश्लोक्यनन्तरं गच्छन्नेवाथऽ इत्यादि श्लोकद्वयं, अस्य पूर्वं पाठः प्रामादिक इत्यन्यः। एवं क्रम एवासङ्गतः। करीषैः शीतकारणात्ऽ इत्यनन्तरं पुनरपि आश्रमचिह्नस्यैव उच्चैर्बद्धानि चीराणिऽ इत्यादेर्वक्तव्यत्वात्। सर्वश इति स्वार्थमात्रे शस्सर्वानिति यावत् ॥ ३ ॥

अमात्यान्सुमन्त्रं, बहुवचनं पूजार्थम्। यद्वा अनेनैवावगम्यते अन्येऽप्यमात्याः सुमन्त्रेण सहागता इतिगो।

गोविन्दराजः, महेश्वरतीर्थो वा। कतकरीत्या व्याख्याने इदं चिन्त्यम् शत्रुघ्नं चाब्रवीत्ऽ (३) इति अत्र स्थितेः मन्ये प्राप्ताः स्मऽ इत्येकं श्लोकं भरतवचनम्, गच्छन्नेवाथऽ (६) इत्यादि श्लोकचतुष्टयं तु कविवाक्यमेव। उच्चैर्बद्धानिऽ (९) इत्यादि श्लोकचतुष्टयं तु पुनः भरतवचनम्। ततः अथ गत्वाऽ इत्येकं श्लोकं कविवचनम्। ततः पुनः भरतवचनम्। एवं सति यथा अत्र सत्रुघ्नं चाब्रवीत्ऽ (३) इति, तत्र तं जनं चेदमब्रवीत्ऽ (१४) इति च दृश्यते, न तथा उच्चैर्बद्धानि चीराणिऽ (१०) इत्यस्य पूर्वं दृश्यते। तत एतद्व्याख्याने वाक्यविच्छेद एव स्यात्। अतः गोविन्दराजादिसम्मतः क्रम एव युक्तः प्रतिभाति। तत्र च सुमन्त्रस्त्वपिऽ (३) इत्यनन्तरं गच्छन्नैवाथऽ (४) इत्यारभ्य करीषैः शीतकारणात्ऽ (७) इत्यन्तं भरतदर्शनानुवादः कवेः। उच्चैर्बद्धानिऽ (१०) इत्यादिकं तु साक्षात् भरतवाक्यम्। नानयोः एकवाक्यतेति गच्छन्नेवऽ (८) मन्ये प्राप्ताः स्मऽ (९) इति मध्यगतश्लोकाभ्यां न रामाश्रमवर्णनक्रमविच्छेदप्रसक्तिरिति ज्ञेयम् ॥

॥ २।९९।३ ॥ ॥ २।९९।४,५ ॥

मन्ये १प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्।

नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ ४ ॥

सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।

२रामदर्शनजस्तर्षः भरतस्येव तस्य च ॥ ५ ॥

सुमन्त्रस्त्वपि त्वरया गच्छद्भरतानुधावच्छत्रुघ्नं दूरादपरित्यज्य अन्वपद्यतअनुधावति स्म। भरतवदस्यापि सुमन्त्रस्य रामदर्शनहेतुः अविशिष्ट इत्याहरामदर्शनेत्यादि ॥ ५ ॥

१प्राप्तोऽस्मिङ।

२रामदर्शनजो हर्षःङ।

॥ २।९९।४,५ ॥ ॥ २।९९।६ ॥

गच्छन्नेवाथ भरतः तापसालयसंस्थिताम्।

भ्रातुः पर्णकुटीं श्रीमान् उटजं च ददर्श ह ॥ ६ ॥

तापसानामालयैः सह संस्थिता तथा। पर्णकुटीपर्णप्राधान्येन निर्मिता कुटीशाला तथा इयं दर्शनप्रयोजनागततपस्व्यादिसंव्यवहारप्रयोजना उटजात् बहिः प्रतिष्ठापिता। उटजमिति। सभित्तिकवाटं सदारुबन्धगृहं सीतानिवासप्रयोजनं तत् प्रागुक्तं सीता गुहां भजताम्ऽ इति ॥ ६ ॥

पर्णकुटींअग्न्यगारभूतां पर्णशालां, उटजंदिदृक्षया समागतैः तापसैः सह सुखावस्थानार्थमुपकल्पितां पर्णशालाम्। यद्वाभ्रातुः पर्णकुटींसीतया सह शयनार्थं निर्मितां पर्णशालां, उटजंदिवाऽवस्थानार्थं कल्पितं पर्णमण्डपम्। यद्वापर्णशालांमहाशालां, उटजंतन्मध्यवर्तिसुखावस्थानास्थानम् तथेव वक्ष्यति ददर्श महतीऽ (१८) इत्यादिनागो।

॥ २।९९।६ ॥ ॥ २।९९।७ ॥

शालायास्त्वग्रतस्तस्याः ददर्श भरतस्तदा।

काष्ठानि चावभग्नानि पुष्पाण्यपचितानि च ॥ ७ ॥

तस्या बहिष्ठपर्णशालाया अग्रतः काष्ठानि च ददर्शेत्यन्वयः। अवभग्नानीति। होमार्थमिति शेषः ॥ ७ ॥

पुष्पाण्युपचितानिङ।

॥ २।९९।७ ॥ ॥ २।९९।८ ॥

सलक्ष्मणस्य रामस्य ददर्शाश्रम१मेयुषः२।

कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥ ८ ॥

एयुषः, आङ्पूर्वादिण क्वसुः। कुशचीरैः वृक्षेषु कृतंअवसज्जनकृतं अभिज्ञानं ददर्श ॥ ८ ॥

१मीयुषःङ।

२ईयुषःजलाशयादाश्रमं गच्छतो रामस्य, कुशादिभिः कृतं अभिज्ञानंचिह्नं, अन्योन्यस्य गमनागमनपरिज्ञानार्थं कृतंगो। मार्गपरिज्ञानार्थंति।

॥ २।९९।८ ॥ ॥ २।९९।९ ॥

ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान्।

मृगाणां महिषाणां च करीषैः शीतकारणात् ॥ ९ ॥

मृगादीनां करीषैः कृतान् सञ्चयान् ददर्श। किमर्था इत्यतःशीतकारणात्शीतपरिहारहेतोरित्यर्थः ॥ ९ ॥

शीतकारणात्शीतनिवृत्तिकारणात्৷৷৷৷ चैत्रशुक्लदशम्यां प्रस्थानेन तत्र काले वैशाखान्तं शीतस्यापररात्रे जायमानत्वात्ति। आगामिशीतवारणार्थमिति वा ॥

॥ २।९९।९ ॥ ॥ २।९९।१० ॥

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।

अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ १० ॥

उच्चैरित्यादि। विकालेमार्गस्य स्पष्टर्दशनायोग्यकाले जलाहरणादिकिञ्चित्प्रयोजनाय गन्तुमिच्छता लक्ष्मणेन अभिज्ञानकृतःअभिज्ञानैः कृतज्ञापनः आश्रमस्य पन्था अयमेव भवेत्। यत इह पथि चीराणि उच्चैःव्यक्ताग्रेषु बद्धानि ॥ १० ॥

चीराणि दृश्यन्तेगो।

॥ २।९९।१० ॥ ॥ २।९९।११ ॥

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।

शैलपार्श्वे परिक्रान्तं अन्योन्यमभिगर्जताम् ॥ ११ ॥

एवं आश्रममार्गं ज्ञात्वाऽथ यत्सन्देहादाश्रममार्गस्याभिज्ञानकरणं तं वनमार्गं चापश्यदित्याहइदं चेत्यादि। इदं कुञ्जराणां परिक्रान्तंऽ इति अधिकरणे निष्ठादिः, इदमेषामासितंऽ इत्यादिवत् अस्मिन् वने कुञ्जराः परिक्रान्ता इत्यर्थः ॥

अन्योऽन्यकोपातिशयेन वेगाद्दन्तादन्तिप्रहारं कुर्वतां आश्रमप्रवेशस्याशक्यत्वात् आश्रमप्रान्तगमनं आश्रमप्रदेशं सूचयतीत्यर्थःगो। गजानामयं गमनमार्गः। तत्र गमननिवृत्त्यर्थं चेदमभिज्ञानकरणमिति भावःति।

॥ २।९९।११ ॥ ॥ २।९९।१२ ॥

यमेवाधातुमिच्छन्ति तापसाः सततं वने।

तस्यासौ दृश्यते धूमः संकुलः कृष्णवर्त्मनः ॥ १२ ॥

यमेव कृष्णवर्त्मानंत्रेताग्निं वने आधातुं सततमिच्छन्ति, तस्य च धूमो दृश्यते ॥ १२ ॥

पचनाग्नेः होमाग्रेश्च व्यावृत्तं सन्ततस्थायिगार्हपत्याग्निं दर्शयितुं संकुलशब्दः। पचने ज्वालानां हेमे चाङ्गाराणामपेक्षितत्वात् न तदा धूमनिबिडतासम्भव इति भावः। अनेन रामस्याग्न्याधानाभावात् श्रौताग्निरत्र नोच्यते, किन्तु धार्यः स्मार्ताग्निः। यदि हि तस्य त्रेताग्निः स्यात् तदा रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्। अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम्ऽ (उत्तर।१०९१) इति चरमयात्रायामग्निहोत्रपुरस्कारश्रवणात् वनयात्रायामपि तथा दृश्येत। अनुसरन्तोऽपि हि पौरवृद्धाः साग्नय एव समागता इत्युच्यन्ते। किञ्च दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्ऽ (अयो। १६२३) इति सीतामनोरथश्रवणात् राजयाभिषेकात्पूर्वं न यज्ञोऽनुष्ठित इति गम्यते। ततोऽयमग्निर्गृह्याग्निरेव। न च तस्याप्यानयनं न पूर्वमुक्तमिति वाच्यम् तस्यात्मसमारोपणेनानेतुं शक्यत्वात्। ननु चात्मसमारोपणेऽपि सायंप्रातः होमः कार्यः, स तु नोक्तः प्रत्युत तमसातीरे, गङ्गाकगूले, वृक्षमूले, भरद्वाजाश्रमे, यमुनातटे च सन्ध्यावन्दनमेवोक्तम्। अत्र च श्लोके तापसवनशब्दाभ्यां वने तापसानां शीतनिवारणप्रकाशकरणकन्दमूलादिपचनसाधनतया संग्राह्य एवाग्निरुच्यत इति वक्तुं शक्यते आधातुंसंग्रहीतुमित्यर्थः। अतोऽयमग्निः पचनाद्यर्थ एव, न तु धार्यः स्मार्ताग्निरिति चेत् न प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्ऽ (२४) इति वक्ष्यमाणविरोधात्। यद्येवं तर्हि कथं सायंप्रातर्होमावचनमिति चेत्न ह्येकं स्वच्छन्दगामिना मुनिना असत्यामिच्छायामसति च फले पुनःपुनर्वक्तव्यम्। वक्ष्यति तूपरिष्टात् सुतीक्ष्णाश्रमे अथ तेऽग्निं सुरांश्चैवऽ इति। अतः चतुर्दशसु वनवाससवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवट्यन्तप्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहिः स्मार्तनित्याग्निधारणम्, अन्यत्र आत्मनि समिधि वा समारोप्य होमकालेऽवरोप्य सायंप्रातरौपासनमिति दिक्गो।

॥ २।९९।१२ ॥ ॥ २।९९।१३,१४ ॥

अत्राहं पुरुषव्याघ्रं गुरु १संस्कारकारिणम्।

आर्यं द्रक्ष्यामि २संहृष्टः महर्षिमिव राघवम् ॥ १३ ॥

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः।

मन्दाकिनीमनु प्राप्तः तं जनं चेदमब्रवीत् ॥ १४ ॥

स राघवःभरतः मन्दाकिनीमनु चित्रकूटं प्राप्त इत्यन्वयः। तं जनंअमात्यादिजनम् ॥ १४ ॥

गुरुसंस्कारः श्रेष्ठसंस्कारः मन्त्रोपदेशादिः, तत्कारिणंगो।

१सत्कारच।

२संहृष्टंच।

॥ २।९९।१३,१४ ॥ ॥ २।९९।१५ ॥

जगत्यां पुरुषव्याघ्रः आस्ते वीरासने रतः।

१जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म च जीवितम् ॥

वीरासनेयोगाय वीरासनावस्थाने रतः सन् जगत्यांभूमौ आस्ते। एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितम्। इतरस्मिंस्तथा चोरुं वीरासनमुदाहृतम्ऽ इति योगवासिष्ठे ॥ १५ ॥

जनेन्द्रः सन् निर्जनं देशं प्राप्यइत्युत्तरार्धपरिशीलने जगत्यां पुरुषव्याघ्रः सन्सकललोकपूज्यः सन् वीरासने रत आस्ते। जगत्यां पुरुषव्याघ्रः जनेन्द्रः निर्जनं प्राप्य वीरासने रतः आस्तेइति वाऽन्वयः। सकलजनपरिवृतः राजा एवं एकान्ते मुनिर्वर्तत इति भावः।

१नरेन्द्रोङ।

॥ २।९९।१५ ॥ ॥ २।९९।१६ ॥

मत्कृते व्यसनं प्राप्तः लोकनाथो महाद्युतिः।

सर्वान् कामान् परित्यज्य वने वसति राघवः ॥ १६ ॥

मे जन्म धिक्ऽ इत्यत्र कारणमाहमत्कृत इत्यादि ॥

॥ २।९९।१६ ॥ ॥ २।९९।१७ ॥

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्।

रामस्य निपतिष्यामि १सीताया लक्ष्मणस्य च ॥

इति लोकसमाक्रुष्टःनिन्दितः यस्मात्, तस्मात् मे जन्म धिक्। सोऽहमेतदपयशःपरिहाराय रामं प्रसादयन्रामप्रसादहेतवे तस्य रामस्य पादेषु, पूजायै बहुवचनं, सीताया लक्ष्मणस्य च पादयोः पतिष्यामि। स्वापराधप्रसादने कनीयस्स्वपि सर्वथाऽनुचितवन्दनेष्वपि प्रणामः प्रसिद्धःकैकेयीदशरथादौ। रामद्रोह एव लक्ष्मणद्रोहः। एवं व्यवस्थिते श्रद्धाजाड्यात् सीतायाश्च पुनःपुनःऽ इति पाठ इत्याह ॥ १७ ॥

इति लोकसमाक्रुष्टःएवंप्रकारेण लोकैरपवादं प्रापितःगो।

१सीतायाश्च पुनःपुनःङ।

लक्ष्मणस्य कनिष्ठत्वेऽपि कार्यगोरवात् पादपतनम्गो।

॥ २।९९।१७ ॥ ॥ २।९९।१८,१९ ॥

एवं स विलपंस्तस्मिन् वने दशरथात्मजः।

ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ १८ ॥

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ॥ १९ ॥

विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ १९ ॥

सालाःवटपलाशादिदृढविशालपर्णवन्तः। तालाःप्रसिद्धाः। अश्वकर्णःसर्ज्जःद्मुळ्मामरम् ॥ १९ ॥

विलपन् सन्, गच्छन्निति शेषः।

अध्वरे वेदिमिव मृदुभिः कुशैस्तीर्णां, अधस्तात् तालादिपर्णैराच्छाद्य उपरि तृणाद्यास्तरणेन उटजनिर्माणं प्रसिद्धमेव।

॥ २।९९।१८,१९ ॥ ॥ २।९९।२० ॥

शक्रायुधनिभैश्चैव कार्मुकैः १भारसाधनैः।

रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ २० ॥

शक्रायुधनिभैः, अत एव भारसाधनैःअतिगुरुरणकार्यसाधकैः। सारो बले स्थिराशे चऽ ॥ २० ॥

कार्मुकैरिति बहुवचनात् अभ्यासयोग्यं कार्मुकान्तरमस्तीति गम्यते। भारसाधनैःगुर्ववयवैः। यद्वा अतिगुरुतररणकार्यसाधनभूतैः। यद्वा भारःधनुःपरिमाणविशेषः। यथोक्तं धनुर्वेदे ईशानसंहितायां भारं पलशतं विदुः। तेन भारेण चापानां प्रमाणमुपलभ्यतेऽ इतिगो।

१भारवाहनैःङ।

॥ २।९९।२० ॥ ॥ २।९९।२१ ॥

अर्करश्मिप्रतीकाशैः १घोरैस्तूणीगतैः शरैः।

शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव ॥ २१ ॥

भोगवतीनागलोकः ॥ २१ ॥

घोरैस्तूणच।

॥ २।९९।२१ ॥ ॥ २।९९।२२ ॥

महारजतवासोभ्यां असिभ्यां च विराजिताम्।

रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥

महारजतवासोभ्यांस्वर्णमयकोशवद्भ्यामित्यर्थः। चर्म खेटकः फलकं चर्मऽ ॥ २२ ॥

महारजतवासोभ्यांकुसुम्बभासोभ्याम्।

॥ २।९९।२२ ॥ ॥ २।९९।२३ ॥

गोधाङ्गुलित्रैरासक्तैः १चित्रैः काञ्चनभूषणैः।

अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ॥ २३ ॥

काञ्चनभूषणैरुपलक्षितामिति शेषः। सिंहगुहामिव पर्णशालां ददर्शेत्यन्वयः ॥ २३ ॥

उपलक्षणे तृतीया। शोभितामित्यनुकर्षो वागो। गोधाकरयोः ज्याघातवारणम्। अङ्गुलत्रंज्याकर्षणेनाङ्गुलिघातवारणम्।

१चित्रकाञ्चनच।

॥ २।९९।२३ ॥ ॥ २।९९।२४ ॥

प्रागुदक्प्रवणां वेदिं विसालां १दीप्तपावकाम्।

ददर्श भरतस्तंत्रं २पुण्यां ३रामनिवेशने ॥ २४ ॥

अथ अत्यासत्त्या पर्णशालान्तर्गतपदार्थदर्शनम्प्रागुदगित्यादि। प्रागुदक्ईशानदिक्, तत्र किञ्चिन्निम्नपर्यवसानां, प्रवणो दक्षिणे प्रह्वे क्रमनिम्ने चतुष्पथेऽ वैजयन्ती ॥ २४ ॥

१दीप्ततेजसम्ङ।

२पुण्येङ।

३रामनिकेतनेङ।

॥ २।९९।२४ ॥ ॥ २।९९।२५ ॥

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्।

उटजे राममासीनं जटामण्डलधारिणम् ॥ २५ ॥

निरीक्ष्य स मुहूर्तं त्विति। अग्निमिति शेषः। गुरुंरामम् ॥

निरीक्ष्येति। जटामण्डलधारित्ववैलक्षण्येन निश्चयार्थं मुहूर्तं निरीक्ष्य, तेजोविशेषेण सामान्येन स्वगुरुं ज्ञातवानित्यर्थःगो। प्रथमदर्शनेन स्तब्धः सन् किञ्चित्कालं स्थित इति वा तात्पर्यम्। अथवाएतादृशीं पर्णशालां निरीक्ष्य ततः तत्रोटजे आसीनं रामं ददर्श इत्यर्थः।

॥ २।९९।२५ ॥ ॥ २।९९।२६ ॥

तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।

ददर्श राममासीनं अभितः पावकोपमम् ॥ २६ ॥

ये रामं ददर्श, तं कृष्णाजिनेत्याद्युच्यमानविशेषणकं अभितो ददर्शसमीपे ददर्शेत्यर्थः, अव्ययान्यनेकार्थानि ॥ २६ ॥

विशेषतो दर्शनमाहतं त्वित्यादिना। ৷৷।उत्तरीयतया कृष्णाजिनधरं, अधराम्बरत्वेन चीरवल्कलवाससम्৷৷৷৷ अभितः पावकोपमंतादृशतपोविशेषेण समन्तात्तेजःपरिवृतम्৷৷। यद्वा दुर्दर्शमित्यर्थः। अत एव पूर्वश्लोके निरीक्ष्य स मुहूर्तंऽ इत्युक्तम्गो।

॥ २।९९।२६ ॥ ॥ २।९९।२७,२८ ॥

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।

पृथिव्याः सागरान्तायाः भर्तारं धर्मचारिणम् ॥ २७ ॥

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।

स्थण्डिले १दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २८ ॥

शाश्वतं ब्रह्माणंश्रीहिरण्यगर्भमिव स्थितं, तदवतारत्वादेवं भासमानम् ॥ २८ ॥

स्थण्डिलेभूमौगो।

१चर्मसंस्तीर्णेङ।

॥ २।९९।२७,२८ ॥ ॥ २।९९।२९ ॥

तं दृष्ट्वा भरतः श्रीमान् १दुःखशोकपरिप्लुतः।

अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २९ ॥

अभ्यधावतअभिजगाम ॥ २९ ॥

१दुःखमोहच।

द्वितीयभरतशब्दः उत्तरश्लोकेन संबध्यतेगो। भरतस्येव कवेरपि वर्णनीयमयीभावेनातिहर्षाविष्टत्वात् अत्र प्रकरणे द्विरुक्तिर्न दोषायति

॥ २।९९।२९ ॥ ॥ २।९९।३० ॥

१दृष्ट्वैव विललापार्तः बाष्पसन्दिग्धया गिरा।

अशक्नुवन् २धारयितुं धैर्यात् वचन ३मब्रुवन् ॥ ३० ॥

दृष्ट्वेवदर्शनमात्रेणैव। आर्तःखिन्नः सन्, तां चार्ति धैर्यात् धारयितुमशक्नुवन्, अत एव बाष्पसन्दिग्धयाशोकोष्मसन्दिग्दवर्णया गिरावागिन्द्रियेण वचनं अब्रुवन् अव्यक्तं वदन् विललाप। एवं स्थिते पाङ्क्ते वचनमब्रवीत्ऽ इति पठित्वा असङ्गतमेव च व्याख्यामकरोत् ॥ ३० ॥

१दृष्वैवंङ।

गिरा, उपलक्षितःगो।

धनेन क्रीतुमशक्नुवन्ऽ इत्यादौ क्रयणसाधनधनस्याभावबोधवत् धारणसाधनस्य धैर्यस्याभावात् धारयितुं अशक्नुवन्नित्यर्थलाभः।

२वारयितुंच।

३मब्रवीत्ङ।

गिरा वचनमब्रुवन्नित्यनेनगीरूपवचनमब्रुवन्नित्यर्थलाभादेवं व्याख्यातम्। शोकात् किञ्चिदप्यवदन् केवलं सन्दिग्धया गिरा विललाप इत्यन्वयो वा।

॥ २।९९।३० ॥ ॥ २।९९।३१ ॥

यः संसदि प्रकृतिभिः भवेद्युक्त उपासितुम्।

वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ ३१ ॥

तादृशं विलापवचनंयस्संसदीत्यादि ॥ ३१ ॥

॥ २।९९।३१ ॥ ॥ २।९९।३२ ॥

वासोभिः बहुसाहस्रैः यो १महात्मा पुरोचितः।

२मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ ३२ ॥

वासोभिरिति। वसनोचित इति शेषः। बहुसाहस्रैःबहुसाहस्रमूल्यक्रीतैः, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणं अलुकिऽ इति वचनेन शतमानविंशतिकसहस्रऽ इति सूत्रेण सहस्रान्तादप्यणि विभाषा कार्षापणऽ इत्यादिना लुगभावपक्षे सङ्ख्यायाः संवत्सरसङ्ख्यस्य चऽ इत्युत्तरपदवृद्धौ रूपम्। सोऽयंपुरा तादृग्वासोवसनार्हः इहवने, मृगाजिनेअन्तरीयोत्तरीयरूपे, प्रवस्ते। किमर्थमेवमित्यतःधर्ममाचरन्निति। पितृवचनपरिपालनरूपःधर्मः ॥

१महार्थःङ।

उचितैः, अलंकर्तुमिति शेषः षष्ठ्यर्थे तृतीया वा। मृगाजिनेमृगचर्मणी प्रवस्तेआच्छादयतिगो।

२मृगाजिनैःङ।

॥ २।९९।३२ ॥ ॥ २।९९।३३,३४ ॥

१अधारयद्यो विविधाः चित्राः सुमनस २स्तदा।

सोऽयं जटाभारमिमं ३वहते राघवः कथम्? ॥ ३३ ॥

यस्य यज्ञैः ४यथोद्दिष्टैः युक्तो धर्मस्य सञ्चयः।

शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ ३४ ॥

यस्य यज्ञैः ऋत्विक्क्लेशसाध्यैः धर्मस्य सञ्चयो युक्तः, सोऽयं स्वशरीरक्लेशेन सम्भूतं उत्पन्नं धर्मं परिमार्गते ॥ ३४ ॥

१आधारयद्योच।

२स्सदाच।

३सहतेच।

४यथामृष्टैः, यथादृष्टैःङ। यथादिष्टैःच।

॥ २।९९।३३,३४ ॥ ॥ २।९९।३५ ॥

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।

मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते? ॥ ३५ ॥

मलेनेति। उद्वर्तनरहितदण्डवत्त्रिषवणाप्लवमात्रात् मलस्थितिरङ्गे ॥

चन्दनेनेति पूर्वार्धे निर्देशात्, वने तदभावेन मलेनेति निर्देशः। वनसञ्चारादिना तस्य सम्भवश्च।

॥ २।९९।३५ ॥ ॥ २।९९।३६३८ ॥

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः।

धिक् जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ ३६ ॥

इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः।

पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ ३७ ॥

दुःखाभितप्तो भरतः राजपुत्रो महाबलः।

उक्त्वाऽऽर्येति १सकृद्दीनं पुनर्नोवाच किञ्चन ॥ ३८ ॥

पादावप्राप्येति दुःखातिशयवशात्। पुनर्नोवाचेत्यपि तत एव ॥ ३७३८ ॥

मम राज्यसम्पादनेच्छया खलु कैकेय्या एवं कृतमिति भावः।

१सकृद्दीनःङ।

दीनं उक्त्वेति क्रियाविशेषणम्।

॥ २।९९।३६३८ ॥ ॥ २।९९।३९ ॥

बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।

१आर्येत्येवाथ संक्रुश्य व्याहर्तुं २नाशकत्तदा ॥ ३९ ॥

बाष्पाभिभूतःबाष्पाभिरुद्धः कण्ठः यस्य स तथा ॥ ३९ ॥

वक्तुमशक्यत्वे हेतुमाहबाष्पापिहितकण्ठ इत्यादिनागो।

१अर्येत्येवाभिच।

२नाशकत्पुनःङ।

॥ २।९९।३९ ॥ ॥ २।९९।४०,४१ ॥

शत्रुघ्नश्चापि रामस्य वनन्दे चरणौ रुदन्।

तावभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत् ॥ ४० ॥

ततः सुमन्त्रेण गुहेन तेन

समीयतू राजसुतावरण्ये।

दिवाकरश्चैव निशाकरश्च

यथाऽम्बरे शुक्रबृहस्पतिभ्याम् ॥ ४१ ॥

तेनभरतेनेत्यर्थः। राजसुतौरामलक्ष्मणौ ॥ ४१ ॥

॥ २।९९।४०,४१ ॥ ॥ २।९९।४२ ॥

तान् पार्थिवान् वारणयूथपाभान्

समागतांस्तत्र महत्यरण्ये।

वनौकसस्तेऽपि समीक्ष्य सर्वेऽ

प्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ ४२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनशततमः सर्गः

हर्षं विहायाश्रूण्यमुञ्चन्निति। तेषां राज्ञां दर्शनजः सन्तोषः प्रथमं, तेषां दुःखदर्शनात् अनन्तरं दुःखादश्रुपातश्च। रवि(४२)मानः सर्गः ॥ ४२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनशततमः सर्गः

वनौकसःऋषयोऽपि एतावता कालेन रामसंवासजं स्वाभाविकं वा हर्ष प्रविहाय अश्रूण्यमुञ्चन्।

॥ २।९९।४२ ॥