अष्टनवतितमः सर्गः
[रामाश्रमदर्शनम्] ॥ २।९८।१ ॥
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः।
अभिगन्तुं स काकुत्स्थं इयेष१गुरुवर्तकम् ॥ १ ॥
अथ भरतस्य रामाश्रमसमीपगमनम्। पादवतामिति। चरप्राणिनामित्यर्थः। गुरुवर्तकंमातापित्राचार्यशुश्रूषकम् ॥ १ ॥
गुरुवर्तकंगुरुवचनानुवर्तकम्गो। अथवाविभुस्सन्नपि पद्भ्यां अभिगन्तुमियेषेत्यत्र हेतुःगुरुवर्तकमिति। वर्तकमिति कर्तरि ण्वुल्, गुरुरिव वर्तमानमिति यावत्।
१गुरुवर्तकःङ।
॥ २।९८।१ ॥ ॥ २।९८।२ ॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २ ॥
यथोद्देशंशिबिरसन्निवेशे अमुकस्य अमुकदिग्भाग इति स्वाम्युद्दिष्टप्रदेशमनतिक्रम्येत्यर्थः। विनीतवत्विनीतः सन् ॥ २ ॥
॥ २।९८।२ ॥ ॥ २।९८।३ ॥
क्षिप्रं वनमिदं, सौम्य नरसङ्घैः समन्ततः।
लुब्धैश्च सहितैरेभिः त्वमन्वेषितुमर्हसि ॥ ३ ॥
लुब्धाःनिषादाः। एभिरिति। गुहभृत्यैः आसन्नैः सहेत्यर्थः ॥
॥ २।९८।३ ॥ ॥ २।९८।४ ॥
गुहो ज्ञातिसहस्रेण शरचापासि १धारिणा।
समन्वेषतु २काकुत्स्थौ अस्मिन् परिवृतः स्वयम् ॥ ४ ॥
ज्ञातिसहस्रेण परिवृत इत्यन्वयः ॥ ४ ॥
१पाणिनाच।
२काकुत्स्थंङ।
॥ २।९८।४ ॥ ॥ २।९८।५ ॥
अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥ ५ ॥
पौरैःपुरप्रधानकुटुम्बिभिरित्यर्थः। चरिष्यामि, अहमपीति शेषः ॥
॥ २।९८।५ ॥ ॥ २।९८।६,७ ॥
यावन्न रामं १द्रक्ष्यामि लक्ष्मणं वा महाबलम्।
वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ ६ ॥
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि २च शुभाननम्।
भ्रातुः ३पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ ७ ॥
शुभाननमिति कर्मधारयः ॥ ७ ॥
१पश्यामिङ।
२शुभमाननम्ङ।
पद्मपलाशाक्षंपद्मदलाक्षम्, अननविशेषणमिदम्।
३पद्मविशालाक्षंच।
॥ २।९८।६,७ ॥ ॥ २।९८।८ ॥
यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ।
शिरसा १धारयिष्यामि न मे शान्तिर्भविष्यति ॥ ८ ॥
पार्थिवव्यञ्जनं–रेखाध्वजकुलिशातपत्रादि ॥ ८ ॥
१प्रग्रहीष्यामिच
॥ २।९८।८ ॥ ॥ २।९८।९,१० ॥
यावन्न राज्यं राज्यार्हः पितृपैतामहे स्थितः।
१अभिषेकजलाक्लिन्नः न मे शान्तिर्भविष्यति ॥ ९ ॥
२सिद्धार्थः खलु सौमित्रिः यश्चन्द्रविमलोपमम्।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ १० ॥
चन्द्रविमलोपमंविशेष्यपूर्वनिपात आर्षः, विमलचन्द्रोपममिति यावत् ॥ १० ॥
पितृपैतामहे मार्गे स्थितः, अत एव राज्यार्हः, अतश्च अभिषेकजलक्लिन्नः यावन्न राज्यं, लभत इति शेषः।
१अभिषिक्तोच।
२अयं श्लोकः च पुस्तके यावन्न चरणौऽ इति श्लोकात् पूर्वं दृश्यते।
॥ २।९८।९,१० ॥ ॥ २।९८।११,१२ ॥
कृतकृत्या महाभागा वैदेही जनकात्मजा।
भर्तारं सागरान्तायाः पृथिव्याः याऽनुगच्छति ॥ ११ ॥
१सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ १२ ॥
गिरिराजःहिमवान् ॥ १२ ॥
१सुशुभच।
॥ २।९८।११,१२ ॥ ॥ २।९८।१३ ॥
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।
यदध्यास्ते १महातेजाः रामः शस्त्रभृतां वरः ॥ १३ ॥
कृतकार्यंकृतार्थम्। दुर्गंदुष्प्रवेशम्। व्यालःसर्पः। यत्यस्मात् ॥ १३ ॥
१महाराजःच।
॥ २।९८।१३ ॥ ॥ २।९८।१४,१५ ॥
एवमुक्त्वा महातेजाः भरतः पुरुषर्षभः।
पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ १४ ॥
स तानि द्रुमजालानि जातानि गिरिसानुषु।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ १५ ॥
मध्येनेति। दिक्छब्दत्वात् एनप्, तद्योगे तानिऽ इत्यादिद्वितीया, द्रुमजालानां मध्य इत्यर्थः ॥ १५ ॥
॥ २।९८।१४,१५ ॥ ॥ २।९८।१६ ॥
स गिरेश्चित्रकूटस्य १सालमासाद्य पुष्पितम्।
रामाश्रम २गतस्यान्ते ददर्श ३ध्वजमुच्छ्रितम् ॥ १६ ॥
चित्रकूटस्य गिरेः सालं वृक्षमासाद्य आश्रमगतस्य तस्य सालस्य अन्तेउपरि प्रतिष्ठापितं उच्छ्रितं ध्वजं ददर्श। एवं रामाश्रमगतस्यान्तेऽ इति पाङ्क्ते पाठे योजनाऽशक्त्या रामाश्रमगतस्याग्नेःऽ इति पठित्वा यथेष्टं योजयत्यन्यः। धूमस्तु पूर्वमेव दृष्टः ॥
१सालमारुह्यच।
पवित्रस्थलसूचनार्थं तत्रत्योन्नतवृक्षेषु ध्वजारोपणं इदानीमपि कुत्रचिद्देशेषु दृश्यते। गोविन्दराजस्तु रामाश्रमगतस्याग्नेः ददर्श ध्वजमुच्छ्रितम्ऽ इति पाठमादृत्यअग्नेः ध्वजःधूमः। पूर्वं धूमाग्रदर्शनम्, अधुना तु समीपत्वात् तन्मूलदर्शनमिति न पुनरुक्तिःऽ इति व्याचख्यौ ॥
२गतस्याग्नेःङ। च। झ।
३ध्वजमुत्तमम्ङ।
महेश्वरतीर्थः, गोविन्दराजो वा।
॥ २।९८।१६ ॥ ॥ २।९८।१७ ॥
तं दृष्ट्वा भरतः श्रीमान् १मुमोह सहबान्धवः।
अत्र राम इति ज्ञात्वा गतः २पारमिवांहसः ॥ १७ ॥
तं दृष्ट्वेति। कुलचिह्नकोविदारध्वजं दृष्ट्वेत्यर्थः। अंहसःपापस्य, अपराधस्य मातृकृतस्य चेत्यर्थः ॥ १७ ॥
मुमोहमोहसदृसं पारवश्यं प्राप, मुमोदेति च पाठःगो।
१मुमोदच।
यद्यपि नाद्यापि पर्णशालादर्शनम्, तत्तु अनन्तरसर्ग एव (४) वक्ष्यते अथापि ९३ सर्गे “ते समालोक्य धूमाग्रं उचुर्भरतमागताः। नामनुष्ये भवत्यग्निः व्यक्तमत्र तपस्विनौ। अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ। मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः” इति श्लोकयोः, अत्रत्यस्य “स गिरेः चित्रकूटस्य सालमासाद्य पुष्पितम्। रामाश्रमगतस्याग्नेः ददर्श ध्वजमुच्छ्रितम्” इति श्लोकस्य च परिशीलनेपूर्वं रामान्वेषणाय गताः भटाः दूरात् धूमाग्रं वीक्ष्य सामान्याकारेण तापससान्निध्यं ज्ञात्वाऽगत्य भरतायोक्तवन्तः, न तु भरतः धूमाग्रादिकं तदा दृष्टवान्। ततः स्वयं प्रस्थायागतो भरतः दूरात् सामान्याकारेणाश्रमंतत्समीपे धूमं च पश्यन्रामलक्ष्मणस्वभावचेष्टिताद्यभिज्ञः, भरद्वाजोक्तलक्षणसंवादाच्च तं धूमं रामाश्रमगतं मेने इति ज्ञायते। अत एव अनन्तरसर्गे मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्ऽ (९) इति च वक्ष्यति ॥
२पारमिवाम्भसःङ। च। झ।
॥ २।९८।१७ ॥ ॥ २।९८।१८ ॥
स चित्रकूटे तु गिरौ निशम्य
रामाश्रमं पुण्यजनोपपन्नम्।
गुहेन सार्धं त्वरितो जगाम
पुनर्निवेश्यैव चमूं महात्मा ॥ १८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टनवतितमः सर्गः
पुण्याश्च ते जनाः, तपस्विन इति यावत्। पुनश्च चमूं निवेश्येति। अन्वेषणनियोजितनिषादचमूमित्यर्थः।
जय(१८)मानः सर्गः ॥ १८ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टनवतितमः सर्गः
॥ २।९८।१८ ॥