सप्तनवतितमः सर्गः
[भरतप्रशंसा] ॥ २।९७।१ ॥
सुसंरब्धं तु १सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ १ ॥
एवं कुपितो लक्ष्मणः सर्वभूतभावाभिज्ञेन भगवता रामेण भरतागमनप्रयोजनकथनेन निवृत्तरोषः क्रियते। सुसंरब्धमित्यादि। सुतरां संरम्भवन्तंयुद्धोद्योगवन्तम् ॥ १ ॥
भरतं प्रति सुसंरब्धंति। पूर्वं तु सुसंरब्धंसुतरां प्रीतं, संरम्भः प्रणयेऽपि चऽ अद्य तु तद्वैलक्षण्येन क्रोधमूर्छिम्। यद्वा क्रोधमूर्छितत्वादेव सुसंरब्धंक्रोधकार्ययुद्धौन्मुख्यवन्तम्। तत्र हेतुः सपत्नीपुत्रत्वमित्याहसौमित्रिमिति। यद्वा सुमित्रापुत्रत्वस्मारणपूर्वकमुक्तवानिति द्योत्यतेगो। अथवासुमित्रया रामं दशरथं विद्धिऽ इत्युक्तत्वात् रामरक्षणपरमित्यर्थः।
१भरतंच।
॥ २।९७।१ ॥ ॥ २।९७।२ ॥
किमत्र धनुषा कार्यं असिना वा सचर्मणा।
१महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २ ॥
किमत्रेति। भरतविषय इत्यर्थः ॥ २ ॥
परप्रतिघातरक्षकं वाहमस्ते धार्यमाणं चर्म।
१महाबले महोत्साहेच।
॥ २।९७।२ ॥ ॥ २।९७।३ ॥
पितुः सत्यं प्रतिश्रुत्य, हत्वा भरत १मागतम्।
किं करिष्यामि राज्येन सापवादेन, लक्ष्मण ॥ ३ ॥
सापवादेनेति। पित्रा दत्तं राज्यं भरतस्य रामो न पालितवान्ऽ इत्येवंरूपापवादेनेत्यर्थः ॥ ३ ॥
भरताय राज्यदानस्य पित्रर्थं अङ्गीकृतत्वात्, कथं तद्वधःइति भावः।
१माहवेच।
॥ २।९७।३ ॥ ॥ २।९७।४ ॥
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ ४ ॥
क्षय इति। कृत इति शेषः ॥ ४ ॥
क्षये सतिइति वाऽर्थः।
॥ २।९७।४ ॥ ॥ २।९७।५,६ ॥
धर्म मर्थं च कामं च पृथिवीं चापि, लक्ष्मण
इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥ ५ ॥
भ्रातृ़णां संग्रहार्थं च सुखार्थं चापि, लक्ष्मण
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ ६ ॥
आयुधमालभ इति। आयुधं स्पृष्ट्वा शपे। सत्यं करोमीत्यर्थः ॥ ६ ॥
अर्थंपृथिवीभिन्नं रत्नादिकंगो।
तमेवार्थं शपथेन द्रढयतिभ्रातृ़णामिति। संग्रहार्थंसम्यक् पालनार्थं, अत एव तेषां सुखार्थं चति।
॥ २।९७।५,६ ॥ ॥ २।९७।७ ॥
१नेयं मम मही, सौम्य २दुर्लभा सागराम्बरा।
न हीच्छेयमधर्मेण शक्रत्वमपि, लक्ष्मण ॥ ७ ॥
नेयमिति। इयं मह्येव केवलं अधर्मेण नअपेक्षितेति न, अपि तुन हीत्यादि ॥ ७ ॥
१एवंङ।
२सकलाङ।
॥ २।९७।७ ॥ ॥ २।९७।८,९ ॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि, १मानद
भवेन्मम सुखं किञ्चित् भस्म तत् कुरुतां शिखी ॥ ८ ॥
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः।
मम २प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ ९ ॥
मन्येऽहमित्यादि। द्रष्टुमभ्यागत इति मन्य इति योजना। कुलधर्मंज्येष्ठस्य राज्यमित्येवंरूपम् ॥ ९ ॥
भरतादीन् विना मम किञ्चित्सुखं भवेच्चेत्, तत् शिखी नाशयतु।
१राघवङ।
श्लोकत्रयमेकं वाक्यम्। अयोध्यामागतो भरतः त्वया सीतया च सह मां प्रव्राजितं श्रुत्वा, कुलधर्ममनुस्मरन्,स्नेहेनाक्रान्तहृदयः मां द्रष्टुमभ्यागत इति मन्येइत्यन्वयः।
२प्राणैःच।
॥ २।९६।८,९ ॥ ॥ २।९७।१०१२ ॥
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।
जानक्या सहितं वीर त्वया च, १पुरुषर्षभ ॥ १० ॥
स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः।
द्रष्टुमभ्यागतो ह्येषः भरतो नान्यथाऽऽगतः ॥ ११ ॥
अम्बां च कैकयीं २रुष्य ३परुषं चाप्रियं वदन्।
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥ १२ ॥
कैकयीं रुष्येति। रोषं कृत्वेति यावत्। पितरं प्रसाद्येति। त्वया सत्यपरिपालनवशात् मयि प्राप्तं राज्यं मयैव रामाय दीयते, अतो न ते सत्यभ्रंशदोषः, अतो मत्कर्तृकं दानमनुमन्यस्वऽ इति प्रसाद्येत्यर्थः ॥
१पुरुषोत्तमच।
वाक्यस्य दीर्घत्वात् लोक इव भरत इति पुनर्निर्देशः।
२रोषात्ङ।
३भरतश्चाप्रियंच।
॥ २।९७।१०१२ ॥ ॥ २।९७।१३,१४ ॥
प्राप्तकालं यदेषोऽस्मान् भरतो १द्रष्टुमिच्छति।
अस्मासु मनसाऽप्येषः २नाप्रियं किञ्चिदाचरेत् ॥ १३ ॥
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्?
ईदृशं वा भयं तेऽद्य भरतं ३योऽत्र शङ्कसे ॥ १४ ॥
तेतुभ्यमपि वेत्यर्थः। ईदृशमित्यादि। यस्त्वमद्य भरतं शङ्कसे, तस्य ते ईदृशं वा भयं कुत इति शेषः ॥ १४ ॥
प्राप्तकालंउचितम्ति।
१द्रष्टुमर्हतिच।
२नाहितंच।
ईदृशं भयं वात्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्वं किंउक्तपूर्वं किम्?गो।
३यद्विशङ्कसेच।
॥ २।९७।१३,१४ ॥ ॥ २।९७।१५ ॥
न हि ते निष्ठुरं वाच्यः १भरतेनाप्रियं कृतम्।
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ १५ ॥
न हि ते इति। कृत्यानां कर्तरि वाऽ इति षष्ठी। त्वया अयं भरतः न निष्ठुरं वाच्यः। कुत इत्यतःन हि भरतेनाप्रियं कृतम्। अहं हीति। भरतस्य अतः परं अप्रियेअप्रियवचने कृते अहं ह्यप्रियमुक्तः स्यां त्वया ॥ १५ ॥
तेत्वया भरतः अप्रियं निष्ठुरं वचः न वाच्यःगो।
१भरतो नाप्रियं वचःङ। च।
नञः अनुकर्ष इति भावः।
॥ २।९७।१५ ॥ ॥ २।९७।१६ ॥
कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि।
भ्राता वा भ्रातरं हन्यात्, सोमित्रे प्राणमात्मनः ॥ १६ ॥
आत्मनः प्राणंप्राणसमं भ्रातरमित्यन्वयः ॥ १६ ॥
पूर्वं दशरथो वध्यतां (वध्यतां बध्यतामपि अयो। २११२) इत्युक्तम्, इदानीं भरतो वध्यत इति। इत उपरि तूष्णीमवस्थाने कार्यहानिः भविष्यतीति भयात् तां रौद्रीं बुद्धिं नियम्य निवर्तयतिकथं न्वित्यादिना। प्राणंप्राणभूतम्गो।
॥ २।९७।१६ ॥ ॥ २।९७।१७ ॥
यदि राज्यस्य हेतोस्त्वं इमां वाचं प्रभाषसे।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ १७ ॥
इमां वाचमिति। भरतवधवाचमित्यर्थः। अस्मै प्रदीयतांअस्मै लक्ष्मणाय प्रदीयतामिति वक्ष्यामि ॥ १७ ॥
॥ २।९७।१७ ॥ ॥ २।९७।१८ ॥
उच्यमानोऽपि भरतः मया, लक्ष्मण १तत्त्वतः।
राज्यमस्मै प्रयच्छेति बाढमित्येव २वक्ष्यति ॥ १८ ॥
वचनमात्रेण किं प्रयोजनम्? स तु न दद्यादित्यत्राहउच्यमान इत्यादि। प्रयच्छेत्युच्यमान इति योजना ॥ १८ ॥
उच्यमानोऽपिअहृदयमुक्तोपि तत्त्वतः बाढमिति वक्ष्यत्येवगो।
१तद्वचःच।
२मंस्यतेच।
॥ २।९७।१८ ॥ ॥ २।९७।१९ ॥
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ १९ ॥
तथोक्त इति। राज्यलिप्सा चेत् ते राज्यमेव दापयिष्यामि, किं ते भ्रातृवधेनेत्युक्त इत्यर्थः। तस्य हित इति। रामस्य हित इत्यर्थः। लज्जया स्वानि गात्राणि प्रविवेशेवेति। किमुक्तं धर्मैकप्रतिष्ठितभ्रात्रभिप्रायमविजानता मयेति लज्जया सङ्कुचितबहिरन्तःकरणव्यापारो बभूवेत्यर्थः ॥ १९ ॥
भरतवधं यस्य हितं मेने, तेनैव रामेण भरतमधिकृत्य एवमुक्तध्वात् लक्ष्मणोऽतीव लज्जितो बभूव।
॥ २।९७।१९ ॥ ॥ २।९७।२० ॥
तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह।
त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ २० ॥
एवमनुचितवादव्रीलापरिहाराय उचितमेव वादमाह लक्ष्मणःतद्वाक्यमित्यादि। पिता दशरथ एव त्वां द्रष्टुं स्वयमायात इति मन्ये। कोविदारध्वजेन प्रियभरतप्रसङ्गस्तु त्वदाशयपरिज्ञानायैव केवलमुपन्यस्तः इत्यर्थः ॥ २० ॥
व्रीडया प्रसङ्गान्तरं प्रस्तौतित्वामिति। लोके स्वोक्तिभङ्गेन व्रीडितः पुरुषः प्रस्तावान्तरं हि वदतिगो।
॥ २।९७।२० ॥ ॥ २।९७।२१ ॥
व्रीडितं लक्ष्मणं दृष्ट्वा १राघवः प्रत्युवाच ह।
एष मन्ये महाबाहुः इहास्मान् द्रष्टुमागतः ॥ २१ ॥
एवं पितृप्रसङ्गः लक्ष्मणस्य व्रीलापरिहारमूल इति ज्ञात्वा तदेवानुकुर्वन्नाहेत्याहव्रीलितमित्यादि। एष इति। लक्ष्मणप्रस्तावमनुयायी पितेत्यर्थः ॥ २१ ॥
भावज्ञो रामोऽपि औचित्येन लक्ष्मणकृतप्रस्तावं व्रीडाशमनाय प्रपञ्चयामासेत्याहव्रीडितमितिगो।
१भावज्ञःङ।
॥ २।९७।२१ ॥ ॥ २।९७।२२ ॥
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २२ ॥
अनुध्यायअनुचिन्त्य ॥ २२ ॥
नाविति द्विवचनं प्राधान्यात्गो। नौ सुखोचितौ मन्यमानःस्मरन् गृहाय ध्रुवं प्रतिनेष्यतीति मन्ये।
॥ २।९७।२२ ॥ ॥ २।९७।२३ ॥
इमां वाऽप्येष वैदेहीं अत्यन्तसुखसेविनाम्।
पिता १मे राघवः श्रीमान् वनादादाय यास्यति ॥ २३ ॥
इमां वा आदायेत्यन्वयः ॥ २३ ॥
अत्यन्तेत्यनेन तन्मात्रनयने हेतुरुक्तःगो।
१दशरथःङ।
॥ २।९७।२३ ॥ ॥ २।९७।२४ ॥
एतौ तौ सम्प्रकाशेते १गात्रवन्तौ २मनोजवौ।
वायुवेगसमौ, ३वीर जवनौ तुरगोत्तमौ ॥ २४ ॥
गात्रवन्तौप्रशस्तगात्रयुक्तौ। जवनौ, पामादित्वात् नः। अथ एव मनोजवावित्यादि। तुरगोत्तमाविति। राजौपवाह्यावित्यर्थः ॥
१गोत्रवन्तौङ।
गोत्रवन्तौप्रशस्तनामानौ। यद्वा प्रशस्तकुलप्रसूतौगो।
२मनोरमौङ।
३वीरौच।
॥ २।९७।२४ ॥ ॥ २।९७।२५ ॥
स एष सुमहाकायः कम्पते वाहिनीमुखे।
नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥ २५ ॥
पितुरागमनचिह्नान्तरमप्याहस एष इत्यादि। कम्पतेचलति, आगच्छतीति यावत्। वृद्धःवयसा आकारबलाभ्यां चेत्यर्थः ॥ २५ ॥
वृद्धःउन्नतः। धीमतःगजपरिपालनज्ञस्य तातस्य नागः शत्रुञ्जयः न तु मया सुयज्ञाय दत्तः मातुलाल्लब्धः शत्रुंजय इत्यर्थःगो।
॥ २।९७।२५ ॥ ॥ २।९७।२६ ॥
न तु पश्यामि तच्छत्रं पाण्डुरं लोकसत्कृतम्।
पितुर्दिव्यं, १महाबाहो संशयो भवतीव मे ॥ २६ ॥
इह मे संशयो भवतिछत्रस्यादर्शनात् दशरथागमविषये संशयो जायत इत्यर्थः ॥ २६ ॥
१महाभागच।
॥ २।९७।२६ ॥ ॥ २।९७।२७ ॥
१इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह।
वृक्षाग्रादवरोह त्वं कुरु, लक्ष्मण मद्वचः ॥ २७ ॥
इतीवइत्येव तंवृक्षाग्रस्थितं सौमित्रिं उवाच। अथ वृक्षाग्रादवरोहणमाज्ञापयतिवृक्षाग्रादित्यादि। मद्वचः कुर्विति। शङ्कां विहाय मदुच्यमानं सालावरोहणं कुर्वित्यर्थः ॥ २७ ॥
१अत्र पूर्वोत्तरार्धयोः वैपरीत्यं प्रायः सर्वत्र दृश्यते।
न तु धनुरादिग्रहणं कुर्वित्यर्थः।
॥ २।९७।२७ ॥ ॥ २।९७।२८ ॥
अवतीर्य तु सालाग्रात् तस्मात् स समितिञ्जयः।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थै रामस्य पार्श्वतः ॥ २८ ॥
स एवं प्राप्ताज्ञः लक्ष्मणः अवतीर्य रामस्य पार्श्वे तस्थौ ॥ २८ ॥
पार्श्वतः, भ्रातर्यस्थाने भयशङ्कयेति भावःगो। लज्जावहं वाक्यमुक्तवत्यपि रामे सौहार्दाच्च तथा।
॥ २।९७।२८ ॥ ॥ २।९७।२९ ॥
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २९ ॥
सम्मर्दो न भवेदिति। रामाश्रमस्येति शेषः ॥ २९ ॥
एवं रामलक्ष्मणयोरवस्थितिमुक्त्वा भरतप्रवृत्तिमाहभरतेनापीति।
॥ २।९७।२९ ॥ ॥ २।९७।३० ॥
अध्यर्धमिक्ष्वाकुचमूः योजनं पर्वतस्य सा।
पार्श्वे न्यविशदावृत्य गजवाजि १रथाकुला ॥ ३० ॥
अधिकं अर्धं यस्मिन् तत् अध्यर्धं, सार्धयोजनमित्यर्थः ॥
१नराकुलाच।
॥ २।९७।३० ॥ ॥ २।९७।३१ ॥
सा चित्रकूटे १भरतेन सेना
धर्मं पुरस्कृत्य विधूय दर्पम्।
प्रसादनार्थं रघुनन्दनस्य
विराजते नीतिमता प्रणीता ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तनवतितमः सर्गः
प्रणीताशिक्षितेति यावत्। योग(३१)मानः सर्गः ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तनवतितमः सर्गः
भरतेन धर्मं पुरस्कृत्यविनीतवेषेण राजाऽभिगन्तव्य इति धर्ममनुसृत्य दर्पं विधूय स्थितेन रघुनन्दनस्य प्रसादनार्थं प्रणीताआनीतागो। दर्पं विधूय धर्मं पुरस्कृत्य प्रसादनार्थंइति वाऽन्वयः। एतेन भरतविनयातिशय उक्तो भवति। स्वयंप्राप्तराज्यः, राज्यभ्रष्टं भ्रातरं दैन्यदयादिभिर्यथोपसर्पेत्, न तथा भरतः उपससर्पेति तात्पर्यम्। अथ एवानन्तरसर्गे भर्तारं सागरान्तायाः पृथिव्याःऽ (११) इत्युक्तिरपि।
१भरतस्यङ।
॥ २।९७।३१ ॥