०९६ भरतविषये रामलक्ष्मणसंवादः

षण्णवतितमः सर्गः

[लक्ष्मणसंरम्भः] ॥ २।९६।१ ॥

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम्।

निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ १ ॥

एवं सीतामात्मानं च गिरिनदीदर्शनादिना वीतशोकं सम्पाद्यावतिष्ठमानेन रामेण कस्मिंश्चिद्दिवसे भरतसेनोपलब्धिः। तां तथेत्यादि। गिरेः निम्नागागिरिनिम्नगामन्दाकिनीति यावत्। मांसेनेति। मांसविशेषप्रदर्शनेनेत्यर्थः। छन्दयन्सान्त्वयन्लालयन्निति यावत् ॥ १ ॥

मांसेन छन्दयन्वशीकुर्वन्गो। मांसेनतापसोपभोग्यफलादिनारा।

॥ २।९६।१ ॥ ॥ २।९६।२ ॥

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना।

एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २ ॥

तस्यैव प्रकारःइदमित्यादि। इदं अग्निना निष्टप्तं सत् तावता स्वादु भवतिऽ इत्येवं वदन्नास्ते इति योजना ॥ २ ॥

॥ २।९६।२ ॥ ॥ २।९६।३ ॥

तथा तत्राऽऽसतस्तस्य १भरतस्योपयायिनः।

सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभःस्पृशौ ॥ ३ ॥

तथेत्यादि। तथा तत्र गिरिप्रस्थे आसतःआसेः छान्दसः शतृप्रत्ययः, आसीनस्येति यावत्, तस्य रामस्य पुरस्तात् उपयायिनो भरतस्य सैन्यरेणवः सैन्यशब्दश्चेति उभावपि नभःस्पृशौ प्रादुरास्तांप्रादुर्बभूवतुः ॥ ३ ॥

१भरतस्यानुयायिनःङ।

॥ २।९६।३ ॥ ॥ २।९६।४ ॥

एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः।

अर्दिता यूथपा मत्ताः १सयूथा दुद्रुवुर्दिशः ॥ ४ ॥

एतस्मिन्नन्तरेसेनाशब्दप्रवृत्तिसमये ॥ ४ ॥

ततःतेनगो।

१स्वयूथात्च।

॥ २।९६।४ ॥ ॥ २।९६।५ ॥

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः।

तांश्च विप्रद्रुतान् १सर्वान् यूथपानन्ववैक्षत ॥ ५ ॥

स राघवःरामश्च सैन्येन समुद्धूतंउत्पादितम् ॥ ५ ॥

१भीतान्ङ।

॥ २।९६।५ ॥ ॥ २।९६।६ ॥

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निस्वनम्।

उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ ६ ॥

स निस्वनमित्यत्र सःऽ इति पदम् ॥ ६ ॥

॥ २।९६।६ ॥ ॥ २।९६।७ ॥

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया।

१भीमस्तनितगम्भीरः तुमुलः श्रूयते स्वनः ॥ ७ ॥

भीमंभयङ्करं यत् स्तनितंमेघनिर्घोषः तद्वत् गम्भीरः तुमुलःनिबिडः योऽयं स्वनः श्रूयते तस्य कारणं पश्येति योजना ॥ ७ ॥

हन्तेति व्यग्रतायामव्ययम्गे।

सुमित्रा सुप्रजाः त्वयात्वया सुमित्रा सत्पुत्रेति सान्त्वोक्तिःगो।

१महीस्तनितङ।

॥ २।९६।७ ॥ ॥ २।९६।८ ॥

गजयूथानि वाऽरण्ये महिषा वा महावने।

वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ ८ ॥

सिंहैः वित्रासितानि सहसा दिशो विद्रावितानि गजयूथानि वा कारणानीति विपरिणामः तथा महिषादयो वा कारणमिति विज्ञातुमर्हसि ॥ ८ ॥

॥ २।९६।८ ॥ ॥ २।९६।९ ॥

राजो वा १राजमात्रो वा मृगयामटते वने।

अन्यद्वा श्वापदं किञ्चित्, सौमित्रे ज्ञातुमर्हसि ॥ ९ ॥

अथवा राजादिः मृगयामटते वेति ज्ञातुमर्हसि। तथाप्येवं वने शब्दो भवति किल सिंहादि? अन्यद्वा श्वापददुष्टमृगं वा किञ्चित् वनं क्षोभयते? इति ज्ञातुमर्हसि ॥ ९ ॥

राजमात्रःराजतुल्यःगो।

१राजपुत्रोच।

॥ २।९६।९ ॥ ॥ २।९६।१०,११ ॥

सुदुश्चरो गिरिश्चायं पक्षिणामपि, लक्ष्मण

सर्वमेतत् यथातत्त्वं अचिरात् ज्ञातुमर्हसि ॥ १० ॥

स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम्।

प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत ॥ ११ ॥

सालःवृक्षः ॥ ११ ॥

अयं गिरिः पक्षिणामपि सुदुश्चरो वर्ततेपक्षिसञ्चारोऽपीदानीं नास्तीत्यर्थःगो। तावन्निबिडेऽस्मिन् गिरौ एतादृशमहाकोलाहलस्य कारणं ज्ञातुमर्हसीति वा तात्पर्यम्।

॥ २।९६।१०,११ ॥ ॥ २।९६।१२ ॥

उदङ्मुखः प्रेक्षमाणः ददर्श महतीं चमूम्।

रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥ १२ ॥

यत्तैःसज्जैः ॥ १२ ॥

॥ २।९६।१२ ॥ ॥ २।९६।१३ ॥

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम्।

शशंस सेनां रामाय वचनं चेदमब्रवीत् ॥ १३ ॥

सेनां शशंसेति। सेनामेव श्रुतशब्दकारणं उक्तवानित्यर्थः ॥

रथच।

॥ २।९६।१३ ॥ ॥ २।९६।१४ ॥

अग्निं संशमयत्वार्यः सीता च भजतां गुहाम्।

सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ १४ ॥

आर्यः अग्निं संशयमयत्विति। क्षोभकालेऽग्निशमनव्यापारः गणकग्रामवासिभिः अस्माभिः भूयोऽनुभूतः। गुहांअन्तर्गुहाम्। शरांश्च, गृहाणेति शेषः ॥ १४ ॥

यद्वाकुरुष्वेत्यनुषङ्गः। करोतेः क्रियासामान्यवाचित्वात् औचित्येन शरान् गृहाण, कवचं धारयेत्यर्थःगो।

॥ २।९६।१४ ॥ ॥ २।९६।१५ ॥

अङ्गावेक्षस्व, सौमित्रे कस्येमां मन्यसे चमूम्।

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्।

दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ १५ ॥

रुषित इति कर्तरि निष्ठा ॥ १५ ॥

एवं युद्धसन्नाहवादिनं लक्ष्मणं रामो विमृश्यकारित्वादाहअङ्गेत्यादि। यां एनां वनक्षोभहेतुभूतां चमूं मन्यसेअवगच्छसि, इमां कस्येति वीक्षस्व ॥

अङ्गऽ इति सम्बोधने।

रुषितः सन् पावक इव दिधक्षन्नित्यन्वयः।

॥ २।९६।१५ ॥ ॥ २।९६।१६ ॥

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं १प्राप्ताभिषेचनम्।

आवां हन्तुं समायाति २कैकेय्या भरतः सुतः ॥ १६ ॥

प्राप्ताभिषेचनंप्राप्तनिजाभिषेकं राज्यं सम्पन्नंसंसिद्धं कर्तुमिच्छन् भरत आयाति ॥ १६ ॥

भरतः अभिषेचनं प्राप्य৷৷৷৷ तावताऽप्यतृप्तः सम्पन्नंसमृद्धं, निष्कण्टकमिति यावत्, राज्यमिच्छन् सन्गो।

१प्राप्यासर्वत्र।

२भरतः कैकयीसुतःङ।

॥ २।९६।१६ ॥ ॥ २।९६।१७ ॥

एष वै सुमहान् श्रीमान् १विटपी सम्प्रकाशते।

विराज २त्युद्गतस्कन्धः कोविदारध्वजो रथे ३ ॥ १७ ॥

कथमवगम्यतेऽसावित्यत्राहएष वा इत्यादि। विटपः प्रकाशतां किं तावता भरतनिश्चये? तत्राहविराजतीत्यादि। न केवलं यः कश्चन विटपो भातीति मयोच्यते, अपि त्वस्मत्कुलचिह्नः कोविदारवान् ध्वजो रथे विराजतीत्येव मयोच्यते। अतो भरत इति निश्चीयते मयेत्यर्थः ॥ १७ ॥

विटपीध्वजचिह्नभूतो वृक्षः प्रकाशतेस्पष्टं दृश्यते। तमेव विशिनष्टिविराजतीतिगो। य एष वृक्षो महान् सम्प्रकाशते, तत्समीपे तं लक्षीकृत्य रथे कोविदारध्वजो विराजतेति।

१विटपीव प्रकाशते, विटपीव महाद्रुमःङ।

२त्युज्यलच।

उद्गतस्कन्धत्वं लिखितवृक्षद्वाराती। गो।

३एतदनन्तरंअसौ हि सुमहास्कन्धः विटपी च महाद्रुमः। विराजते महासैन्ये कोविदारध्वजो रथेइत्यधिकम्ङ।

॥ २।९६।१७ ॥ ॥ २।९६।१८ ॥

भजन्ते हि यथाकामं अश्वानारुह्य शीघ्रगान्।

एते भ्राजन्ति संहृष्टाः गजानारुह्य सादिनः ॥ १८ ॥

हि–यस्मात् शीघ्रतरानश्वान् आरुह्य यथाकामं भजन्ते–आगच्छन्ति ॥ १८ ॥

सादिनःगजारोहाःगो। अश्वारोहाःती। गृहीतसादिचिह्ना गजारोहाःति। सादीतुरङ्गमातङ्गरथारोहेषु दृश्यतेऽ इति मेदिनी।

॥ २।९६।१८ ॥ ॥ २।९६।१९ ॥

गृहीतधनुषौ चावां गिरिं, वीर श्रयावहै।

अथ वेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ ॥ १९ ॥

अतःगृहीतधनुषावित्यादि ॥ १९ ॥

दुर्गे स्थित्वा युद्धार्थं गिरेः श्रयणम्गो। उत्तरार्धपरिशीलनेयावच्छक्ति अपसर्पावः, गत्यन्तराभावे योत्स्यावः इति पूर्वार्धस्य, गत्यन्तराभावे कुतः, अत्रैव स्थित्वा योत्स्याव एव–इति उत्तरार्धस्य चाशयः स्यादिति भाति।

॥ २।९६।१९ ॥ ॥ २।९६।२० ॥

अपि मे वशमागच्छेत् कोविदारध्वजो रणे।

अपि १द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ॥ २० ॥

त्वया, राघव सम्प्राप्तं सीतया च मया तथा।

अपि मेऽ इत्यादावपिः कामप्रवेदने। कोविदारध्वजो रणे मे वशं आगच्छेदपि, सादिनश्च, शैलमुपाश्रयन्नपि भरतं द्रक्ष्याम्यपि, तदाऽसौ मे भरतः वध्य एव। कुत इत्यतःयत्कृते व्यसनमित्यादि ॥ २० ॥

१द्रक्ष्यामङ।

॥ २।९६।२० ॥ ॥ २।९६।२१,२२ ॥

यन्निमित्तं भवान् राज्यात् च्युतः, राघव शाश्वतात्।

सम्प्राप्तोऽयमरिः, वीर भरतो वध्य एव मे ॥ २१ ॥

भरतस्य वधे दोषं नाहं पश्यामि, राघव

१पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २२ ॥

पूर्वापकारिणां त्याग इति। भ्रातृ़णामिति शेषः ॥ २२ ॥

१पूर्वापकारिणं हत्वाच।

त्यागेवधेगो। ति।

॥ २।९६।२१,२२ ॥ ॥ २।९६।२३,२४ ॥

पूर्वापकारी भरतः १त्यक्तधर्मश्च, राघव

एतस्मिन् निहते कृत्स्नां अनुशाधि वसुन्धराम् ॥ २३ ॥

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका।

मया पश्येत् सुदुःखार्ता हस्तिभग्नमिव द्रुमम् ॥ २४ ॥

सङ्ख्येयुद्धे, मृघमास्कन्दनं सङ्ख्यंऽ ॥ २४ ॥

अपकारश्च न प्रामादिक इत्याहत्यक्तधर्म इतिगो। इदानीमस्मद्वधार्थागमनमेव एतन्निरूपयतीति भावः।

१त्यागे धर्मश्चच।

मया हतमित्यन्वयः।

॥ २।९६।२३,२४ ॥ ॥ २।९६।२५ ॥

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्।

कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २५ ॥

कलुषेणपापेन ॥ २५ ॥

॥ २।९६।२५ ॥ ॥ २।९६।२६ ॥

अद्येमं संयतं क्रोधं असत्कारं च, मानद

मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २६ ॥

असत्कारं च। कैकेयीकृतमिति शेषः ॥ २६ ॥

संयतंएतावता कालेन नियमितं क्रोधंअवमानं च।

॥ २।९६।२६ ॥ ॥ २।९६।२७२९ ॥

अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः।

१भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २७ ॥

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा।

श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया ॥ २८ ॥

शराणां धनुषश्चाहं २अनृणोऽस्मि ३महामृधे।

ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षण्णवतितमः सर्गः

हर(२८)मानः (?) सर्गः ॥ २९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षण्णवतितमः सर्गः।

शत्रुशरीराणि भिन्दन् काननं शोणितोक्षितं करिष्ये।

१छिन्दन्च।

अहं यतः पूर्वं तत्र तत्र युद्धे शराणां धनुषश्च विषये अनृणःऋणरहितः, शत्रुकलेबरादानेन परिहृतऋणः, स्वयं युद्धे क्वाप्यपराजितः शत्रुजयैकशील इत्यर्थः अतः, अस्मीति अहमित्यर्थेऽव्ययम् अस्मिअहं महामृधेभाविन्यपि युद्धे ससैन्यं भरतं हत्वा, अनृण इत्यनुकर्षः अनृणो भविष्यामीत्यन्वयः। वनवासात् पूर्वमपि शम्बरसुतजयादिप्रतिपादनात्, तत्र लक्ष्मणस्यापि सहभावावश्यंभावात् युद्धसम्भवः। अस्मीति क्रियापदं वा। तदा, अभवमित्यर्थःगो। शराणां धनुषश्चाहमनृणोऽस्मिऽ इति स्वजीवनध्येयं सामान्यरूपेणोक्तम्। तादृशत्वादेव ससैन्यं भरतं हत्वा अनृणो भविष्यामि इत्यर्थः। अनृणोऽस्मिन्ऽ इति पाठेअस्मिन्सन्निहिते महामृधेमहायुद्धे ससैन्यं भरतं हत्वा शराणां धनुषश्चाह अनृणो भविष्यामिएतावता धृतानां धनुरादीनां सार्थक्यं सम्पादयामीति भावः।

२अनृणोऽस्मिन्ङ। च।

३महावनेच।

॥ २।९६।२७२९ ॥